蚁垤《罗摩衍那》 · 篇 5.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.5.1
ततः स मध्यंगतमंशुमन्तं
ज्योत्स्नावितानं मुहुरुद्वमन्तम्।
ददर्श धीमान् भुवि भानुमन्तं
गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ ५.५.१ ॥
于是这位智者看见了位于天空正中、光芒四射、不断倾泻月光华盖的明月,它照耀大地,犹如在牛栏中徘徊的发狂公牛。
5.5.2
लोकस्य पापानि विनाशयन्तं
महोदधिं चापि समेधयन्तम्।
भूतानि सर्वाणि विराजयन्तं
ददर्श शीतांशुमथाभियान्तम् ॥ ५.५.२ ॥
随后,他看见那清凉光芒的月亮正走近,它消除世间的罪恶,使大海涨潮,照亮一切众生。
5.5.3
या भाति लक्ष्मीर्भुवि मन्दरस्था
यथा प्रदोषेषु च सागरस्था।
तथैव तोयेषु च पुष्करस्था
रराज सा चारुनिशाकरस्था ॥ ५.५.३ ॥
如吉祥天女(Lakṣmī)居于曼陀罗山时在大地上闪耀,黄昏时居于大海中,同样也居于水中与莲池中;那样,她居于美丽的月亮之中而光辉照耀。
5.5.4
हंसो यथा राजतपञ्जरस्थः
सिंहो यथा मन्दरकन्दरस्थः।
वीरो यथा गर्वितकुञ्जरस्थ-
श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ५.५.४ ॥
如银笼中的天鹅,如曼陀罗山洞中的狮子,如骑在高傲大象上的英雄,同样地,立于天空的月亮也放出光辉。
5.5.5
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो
महाचलः श्वेत इवोर्ध्वशृङ्गः।
हस्तीव जाम्बूनदबद्धशृङ्गो
विभाति चन्द्रः परिपूर्णशृङ्गः ॥ ५.५.५ ॥
如有锐利双角的峰背公牛,如有高耸山峰的巨大白山,如象牙以金箍束的大象,那满盈如角的月亮光辉照耀。
5.5.6
विनष्टशीताम्बुतुषारपङ्को
महाग्रहग्राहविनष्टपङ्कः।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को
रराज चन्द्रो भगवान् शशाङ्कः ॥ ५.५.६ ॥
尊贵的月亮(兔纹者)闪耀,寒水、霜雪与污泥皆已消失,其污点被大行星如鳄鱼般吞噬而去,其纯净之体是光辉庄严的所在。
5.5.7
शिलातलं प्राप्य यथा मृगेन्द्रो
महारणं प्राप्य यथा गजेन्द्रः।
राज्यं समासाद्य यथा नरेन्द्र-
स्तथा प्रकाशो विरराज चन्द्रः ॥ ५.५.७ ॥
如狮子到达岩石之地,如象王到达大森林,如君王获得王国,那光明的月亮便这样照耀起来。
5.5.8
प्रकाशचन्द्रोदयनष्टदोषः
प्रवृद्धरक्षःपिशिताशदोषः।
रामाभिरामेरितचित्तदोषः
स्वर्गप्रकाशो भगवान् प्रदोषः ॥ ५.५.८ ॥
尊贵的黄昏,因明亮月升而消除其过失;其过失是增长的罗刹对肉的贪欲;其心为可爱的罗摩所扰动;光辉如天界。
5.5.9
तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताः
स्वपन्ति नार्यः पतिभिः सुवृत्ताः।
नक्तंचराश्चापि तथा प्रवृत्ता
विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ५.५.९ ॥
悦耳的弦乐之声开始响起;贤淑的妇人与丈夫同眠,而夜行的、行为奇异而凶猛的生灵也开始出来嬉游。
5.5.10
मत्तप्रमत्तानि समाकुलानि
रथाश्वभद्रासनसंकुलानि।
वीरश्रिया चापि समाकुलानि
ददर्श धीमान् स कपिः कुलानि ॥ ५.५.१० ॥
那位智慧的猴子看见了那些房屋——沉醉而疏忽,堆满了战车、马匹与华美座椅,也充满了英雄的威仪。
5.5.11
परस्परं चाधिकमाक्षिपन्ति
भुजांश्च पीनानधिविक्षिपन्ति।
मत्तप्रलापानधिविक्षिपन्ति
मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ५.५.११ ॥
他们相互猛烈拉扯,挥舞粗壮的手臂,说着醉后的胡言乱语,在酒意中彼此辱骂。
5.5.12
रक्षांसि वक्षांसि च विक्षिपन्ति
गात्राणि कान्तासु च विक्षिपन्ति।
रूपाणि चित्राणि च विक्षिपन्ति
दृढानि चापानि च विक्षिपन्ति ॥ ५.५.१२ ॥
罗刹们摆动着胸膛,把身体倒在心爱的女子身上;他们也甩动各式各样的形貌,并抛开坚固的弓。
5.5.13
ददर्श कान्ताश्च समालभन्त्य-
स्तथापरास्तत्र पुनः स्वपन्त्यः।
सुरूपवक्त्राश्च तथा हसन्त्यः
क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥ ५.५.१३ ॥
他在那里看见面容秀美的心爱女子:有的相互拥抱,有的又在那里睡着,有的在笑,有的则愤怒地深深叹息。
5.5.14
महागजैश्चापि तथा नदद्भिः
सुपूजितैश्चापि तथा सुसद्भिः।
रराज वीरैश्च विनिःश्वसद्भि-
र्ह्रदा भुजंगैरिव निःश्वसद्भिः ॥ ५.५.१४ ॥
此地因吼叫的大象和受人敬重、坐在上好座位上、呼吸沉重的英雄们而光辉灿烂,如同布满呼吸嘶嘶作响的蛇的湖泊。
5.5.15
बुद्धिप्रधानान् रुचिराभिधानान्
संश्रद्दधानाञ्जगतः प्रधानान्।
नानाविधानान् रुचिराभिधानान्
ददर्श तस्यां पुरि यातुधानान् ॥ ५.५.१५ ॥
在那座城中,他看见了诸多夜叉(罗刹):以智慧为首,名字动听,信心坚定,为世间之最,种类繁多,名号悦耳。
5.5.16
ननन्द दृष्ट्वा स च तान् सुरूपान्
नानागुणानात्मगुणानुरूपान्।
विद्योतमानान् स च तान् सुरूपान्
ददर्श कांश्चिच्च पुनर्विरूपान् ॥ ५.५.१६ ॥
他见到那些容貌俊美者便欢喜;在他们之中,有许多品质、与各自本性相合而光彩照人的,他看到有些俊美,又看到有些丑陋。
5.5.17
ततो वरार्हाः सुविशुद्धभावा-
स्तेषां स्त्रियस्तत्र महानुभावाः।
प्रियेषु पानेषु च सक्तभावा
ददर्श तारा इव सुस्वभावाः ॥ ५.५.१७ ॥
他在那里看到她们的女子,她们值得最高的尊敬,心性极为纯净,光彩非凡;心思专注于所爱之人与饮酒,性情温和,如同星辰。
5.5.18
स्त्रियो ज्वलन्तीस्त्रपयोपगूढा
निशीथकाले रमणोपगूढाः।
ददर्श काश्चित् प्रमदोपगूढा
यथा विहंगा विहगोपगूढाः ॥ ५.५.१८ ॥
午夜时分,他看到那些光彩照人、被羞怯所围绕的女子;有些人被情人拥抱,如同鸟儿依偎鸟儿。
5.5.19
अन्याः पुनर्हर्म्यतलोपविष्टा-
स्तत्र प्रियाङ्केषु सुखोपविष्टाः।
भर्तुः परा धर्मपरा निविष्टा
ददर्श धीमान् मदनोपविष्टाः ॥ ५.५.१९ ॥
还有一些女子坐在楼台之上,安然依偎在所爱之人的膝上;她们专心于丈夫,一心向法,沉浸其中;智慧的他看见她们沉浸在情欲之中。
5.5.20
अप्रावृताः काञ्चनराजिवर्णाः
काश्चित्परार्घ्यास्तपनीयवर्णाः।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः
कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ ५.५.२० ॥
她们不掩面,肤色如金色的行列;有些极为珍贵,肤色如精炼的金子;又有些肤色如月中的斑纹;她们失去了所爱之人,肢体的颜色却十分美丽。
5.5.21
ततः प्रियान् प्राप्य मनोऽभिरामान्
सुप्रीतियुक्ताः सुमनोऽभिरामाः।
गृहेषु हृष्टाः परमाभिरामा
हरिप्रवीरः स ददर्श रामाः ॥ ५.५.२१ ॥
于是,他遇见了令人心悦的所爱之人,她们充满深切的情意,面容和悦,在家中欢喜,极其可爱的女子被那位猴中英雄看见了。
5.5.22
चन्द्रप्रकाशाश्च हि वक्त्रमाला
वक्राः सुपक्ष्माश्च सुनेत्रमालाः।
विभूषणानां च ददर्श मालाः
शतह्रदानामिव चारुमालाः ॥ ५.५.२२ ॥
月光般明亮的是那一排排面容,还有一排排美丽的眼睛,弯弯的,睫毛纤细;他又看见了饰物的花环,像百道闪电织成的美丽花环。
5.5.23
न त्वेव सीतां परमाभिजातां
पथि स्थिते राजकुले प्रजाताम्।
लतां प्रफुल्लामिव साधुजातां
ददर्श तन्वीं मनसाभिजाताम् ॥ ५.५.२३ ॥
然而他没有看见悉多——她出身极为高贵,生于王族,站立在道路上;纤细、如盛开的藤蔓般亭亭生长,心地也高贵。
5.5.24
सनातने वर्त्मनि संनिविष्टां
रामेक्षणीं तां मदनाभिविष्टाम्।
भर्तुर्मनः श्रीमदनुप्रविष्टां
स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम् ॥ ५.५.२४ ॥
她坚定地站在永恒之道上,有着如罗摩般的眼睛,被爱慕所占据,进入了夫君光辉的心中,并且始终超越其他一切女子。
5.5.25
उष्णार्दितां सानुसृतास्रकण्ठीं
पुरा वरार्होत्तमनिष्ककण्ठीम्।
सुजातपक्ष्मामभिरक्तकण्ठीं
वने प्रनृत्तामिव नीलकण्ठीम् ॥ ५.५.२५ ॥
她被酷热折磨,泪水涌流,喉咙哽咽;往昔曾佩戴最上等的金制项链,睫毛秀美,颈项泛红,好像在林中起舞的青颈孔雀。
5.5.26
अव्यक्तरेखामिव चन्द्रलेखां
पांसुप्रदिग्धामिव हेमरेखाम्।
क्षतप्ररूढामिव वर्णरेखां
वायुप्रभुग्नामिव मेघरेखाम् ॥ ५.५.२६ ॥
她像一弯线条模糊的新月,像蒙满尘土的金线,像伤口愈合后的色痕,像被风吹弯的云痕。
5.5.27
सीतामपश्यन्मनुजेश्वरस्य
रामस्य पत्नीं वदतां वरस्य।
बभूव दुःखोपहतश्चिरस्य
प्लवंगमो मन्द इवाचिरस्य ॥ ५.५.२७ ॥
未见人主罗摩之妻、善言者中最优秀的悉多,那猴子长久被悲伤所伤,萎靡不振,仿佛希望刚刚破灭一般。