蚁垤《罗摩衍那》 · 篇 5.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.50.1
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्।
रोषेण महताऽऽविष्टो रावणो लोकरावणः ॥ ५.५०.१ ॥
大臂的罗波那望着站在面前的黄眼猴子,这位令世界恐惧的罗波那被巨大的愤怒所充满。
5.50.2
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम्।
किमेष भगवान् नन्दी भवेत् साक्षादिहागतः ॥ ५.५०.२ ॥
他心中生出疑惑,思索着这被光辉环绕的猴王:莫非是吉祥的难提亲自来到这里?
5.50.3
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा।
सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः ॥ ५.५०.३ ॥
这莫非就是从前在凯拉萨山上因我嘲笑而诅咒我的那位,如今化作猴形?还是这位阿修罗巴那?
5.50.4
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्।
कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥ ५.५०.४ ॥
那位双眼因愤怒而通红的国王,对最优秀的大臣普拉哈斯塔说出了这些应时而发、意味深长的话。
5.50.5
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्।
वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने ॥ ५.५०.५ ॥
请审问这个恶徒:他从何而来,缘由是什么?他毁坏园林、威吓罗刹,究竟意欲何为?
5.50.6
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्।
आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः ॥ ५.५०.६ ॥
他来到我这座不可侵犯的城市,目的何在?或者他在战场上想要达成什么?请问这个心怀恶念的人。
5.50.7
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ ५.५०.७ ॥
普拉哈斯塔听了罗波那的话,说道:“猴子啊,安心吧,愿你平安;你不必害怕。”
5.50.8
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्।
तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे ॥ ५.५०.८ ॥
“如果你是因因陀罗而被派到罗波那的宫殿,那就如实说出;猴子啊,不要害怕,你将获得释放。”
5.50.9
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च।
चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥ ५.५०.९ ॥
“如果你是毗沙罗婆那(俱毗罗)、阎摩或伐楼那的使者,化作这美好的形象进入了我们这座城,
5.50.10
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा।
नहि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ ५.५०.१० ॥
“或者你是渴望胜利的毗湿奴所派的使者?你的光辉并非猴子所有;只有外形是猴子的。”
5.50.11
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे।
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥ ५.५०.११ ॥
“现在就如实说吧,猴子,这样你才会获释。对说谎的人来说,连他的性命也难以保全。”
5.50.12
अथवा यन्निमित्तस्ते प्रवेशो रावणालये।
एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ॥ ५.५०.१२ ॥
“或者你进入罗波那宫殿的原因是什么?”听他这样问,猴中之杰哈奴曼便对罗刹众的主人说道。
5.50.13
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥ ५.५०.१३ ॥
罗摩的猴子答道:我不属于因陀罗、阎摩或伐楼那。我与俱毗罗没有友谊,毗湿奴也没有派遣我。
5.50.14
जातिरेव मम त्वेषा वानरोऽहमिहागतः।
दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया ॥ ५.५०.१४ ॥
这正是我的种族:我是一只猿猴,来到了这里。能见到罗刹之王,对我而言实属难得。
5.50.15
वनं राक्षसराजस्य दर्शनार्थं विनाशितम्।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥ ५.५०.१५ ॥
为了见到罗刹王,他的园林被毁坏了。于是渴望战斗的强大罗刹们前来了。
5.50.16
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे।
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥ ५.५०.१६ ॥
为了保护自身,我在战斗中予以还击。即便天神与阿修罗,也不能用兵器的绳索捆住我。
5.50.17
पितामहादेष वरो ममापि हि समागतः।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥ ५.५०.१७ ॥
这是祖父梵天赐予我的恩典。因为想见国王,我便顺从了那兵器。
5.50.18
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः।
केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम् ॥ ५.५०.१८ ॥
虽已从兵器中解脱,罗刹仍将我押到你面前。为了罗摩的某件事,我来到你的面前。
5.50.19
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः।
श्रूयतामेव वचनं मम पथ्यमिदं प्रभो ॥ ५.५०.१९ ॥
请知道我是无量威力的罗怙之子(罗摩)的使者,主上,请听我这有益的话。