蚁垤《罗摩衍那》 · 篇 5.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.51.1
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ ५.५१.१ ॥
哈奴曼看见这位大力者,这位勇猛的猴中之最,神色不乱,向十首罗波那说出了有意义的话。
5.51.2
अहं सुग्रीवसंदेशादिह प्राप्तस्तवान्तिके।
राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ ५.५१.२ ॥
我奉须羯利婆之命来到你面前。罗刹之主啊,猴王须羯利婆,你的兄弟,问候你的平安。
5.51.3
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः।
धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम् ॥ ५.५१.३ ॥
请听你兄弟、大德须羯利婆的吩咐。这些话合乎法与利,于今世与来世都是适当的。
5.51.4
राजा दशरथो नाम रथकुञ्जरवाजिमान्।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ५.५१.४ ॥
有一位名叫十车王的国王,拥有战车、象群和马匹,如父亲一般庇护世间,光辉如诸神之主。
5.51.5
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः।
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५.५१.५ ॥
他的长子,臂膀强大,最为爱戴,威严的王子,奉父命出行,进入了檀陀迦森林。
5.51.6
लक्ष्मणेन सह भ्राता सीतया सह भार्यया।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ५.५१.६ ॥
与弟弟罗什曼那和妻子悉多同行的,名叫罗摩的大光辉者,选择了正法之路。
5.51.7
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ५.५१.७ ॥
他在檀那斯塔纳失散的妻子名叫悉多,是毗提诃国大德王遮那伽之女。
5.51.8
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण च संगतः ॥ ५.५१.८ ॥
王子为寻找那位女神悉多,与其幼弟抵达猴子山(Ṛṣyamūka),并在那里与须羯哩婆相会。
5.51.9
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥ ५.५१.९ ॥
他承诺寻找悉多,罗摩也承诺为须羯哩婆恢复猴国的王位。
5.51.10
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ ५.५१.१० ॥
此后,王子在战斗中杀死了伐利,并将须羯哩婆立于王位,他成为猴子与熊群的统帅。
5.51.11
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः।
स तेन निहतः संख्ये शरेणैकेन वानरः ॥ ५.५१.११ ॥
你早已认识伐利,那位猴中之雄;他在战斗中被他以一支箭射杀。
5.51.12
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः।
हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥ ५.५१.१२ ॥
须羯哩婆忙于寻找悉多,他信守誓言,作为猴王,向各个方向派出了猴子。
5.51.13
तां हरीणां सहस्राणि शतानि नियुतानि च।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ ५.५१.१३ ॥
为寻找悉多,成千上万、数百乃至数十万只猴子在所有方向搜寻,上下左右,甚至天空。
5.51.14
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ ५.५१.१४ ॥
其中有的如迦楼罗,有的如风;他们行动无阻,迅捷而极为强大,是猴中英雄。
5.51.15
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ ५.५१.१५ ॥
我名为哈努曼,是风神摩陀的亲生之子。为了悉多,我迅速跨越了宽达百由旬的大海。
5.51.16
समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ ५.५१.१६ ॥
我渡过大海,怀着想见你的心来到这里。游走之时,我在你的府中见到了遮那伽之女。
5.51.17
तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ ५.५१.१७ ॥
因此,你知晓法与义,又以苦行得到了力量,大智者啊,你不应以暴力夺取他人之妻。
5.51.18
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ५.५१.१८ ॥
凡如你这样的智者,并不会去做那些违背法、充满诸多祸患、足以毁灭根本的行为。
5.51.19
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ ५.५१.१९ ॥
即便在天神与阿修罗之中,又有谁能抵挡罗什曼那射出的、追随罗摩之怒的箭矢?
5.51.20
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ ५.५१.२० ॥
大王啊!三界之中也不会有人,在冒犯了罗怙之后还能获得安乐。
5.51.21
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ ५.५१.२१ ॥
人主啊!请思考这番在三世都有益、合乎法度、导向善果的话:归还耆那吉。
5.51.22
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ ५.५१.२२ ॥
我确已见到这位女神,也在此获得了难得之物;所余之事的根由,在于那边的罗怙。
5.51.23
लक्षितेयं मया सीता तथा शोकपरायणा।
गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ ५.५१.२३ ॥
我看见悉多沉浸在悲伤之中,她就在你的宫中,你却不认得,她就像五头的蛇女一般。
5.51.24
नेयं जरयितुं शक्या सासुरैरमरैरपि।
विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ ५.५१.२४ ॥
即便是阿修罗与天神,也无法消化她,正如被毒物严重污染的食物,即便硬着头皮吃下,也无法消化。
5.51.25
तपःसंतापलब्धस्ते सोऽयं धर्मपरिग्रहः।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ ५.५१.२५ ॥
你以苦行之热所得的,便是此法的承受;以自身的生命之气去毁灭它,并不合理。
5.51.26
अवध्यतां तपोभिर्यां भवान् समनुपश्यति।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ ५.५१.२६ ॥
你以苦行所得而视为的不可杀之力,以及你对阿修罗与天神的保护之大因,在此亦是此大因。
5.51.27
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः।
मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥ ५.५१.२७ ॥
这位须羯哩婆既非天神,也非夜叉,更非罗刹。罗怙之子是人,须羯哩婆是猴王之主。因此,王啊,你将如何保全自己的性命?
5.51.28
न तु धर्मोपसंहारमधर्मफलसंहितम्।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ ५.५१.२८ ॥
然而,舍弃法便与非法之果相连;那果报必随之而来,而法乃是灭除非法的。
5.51.29
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ ५.५१.२९ ॥
法之果报你至今已经获得,此事毫无疑问;然而这非法之果,你也将很快得到。
5.51.30
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥ ५.५१.३० ॥
你既已知晓 Janasthāna 的被灭与 Vālin 的被杀,又明白罗摩与须羯哩婆的友谊,便当省悟于自身的利益。
5.51.31
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ५.५१.३१ ॥
诚然,我独自便能摧毁楞伽城及其战马、战车与象兵;但这并非我的决定。
5.51.32
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ५.५१.३२ ॥
罗摩在猴与熊的大军面前发誓,要铲除侮辱悉多的敌人。
5.51.33
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ५.५१.३३ ॥
即使是帝释天本人,若加害罗摩,也不得安乐;何况像你这样的凡人。
5.51.34
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ५.५१.३४ ॥
你所认识、居于你家中的这位悉多,你应知她即是迦罗罗特里,毁灭整个楞伽的女神。
5.51.35
तदलं कालपाशेन सीताविग्रहरूपिणा।
स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥ ५.५१.३५ ॥
因此,这化作悉多之形的死亡绳索已经够了;你当思量自身的安危,因为它正缠在你的肩上。
5.51.36
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम्।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ ५.५१.३६ ॥
看这座城市,被悉多的威力焚烧,被罗摩的愤怒点燃,连同它的楼阁与街道,正在燃烧。
5.51.37
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान्।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ५.५१.३७ ॥
不要让你自己的朋友、大臣、亲属、兄弟、儿子、亲信、享乐、妻子,以及楞伽本身走向毁灭。
5.51.38
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम।
रामदासस्य दूतस्य वानरस्य विशेषतः ॥ ५.५१.३८ ॥
罗刹王之主啊,请听真言,听我的话:我是罗摩的仆人和使者,尤其是一只猴子。
5.51.39
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान्।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ५.५१.३९ ॥
光荣的罗摩能够将一切世界及其中的动与不动的众生彻底毁灭,然后再如此重新创造。
5.51.40
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च।
विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च ॥ ५.५१.४० ॥
在天神、阿修罗与人间君王之中,在夜叉、罗刹与蛇类之中,以及在持明、龙、乾闼婆与走兽之中。
5.51.41
सिद्धेषु किंनरेन्द्रेषु पतत्त्रिषु च सर्वतः।
सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः ॥ ५.५१.४१ ॥
在悉陀、紧那罗王与飞禽之中,于一切处、一切地方、一切众生之中、一切时候,都没有这样的人。
5.51.42
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम्।
सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम्।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ५.५१.४२ ॥
若有人敢与罗摩交战——其威力可比毗湿奴——并对世界之主做出如此冒犯之事,那么,对你而言,罗摩这位王中之狮,你的性命将难以保全。
5.51.43
देवाश्च दैत्याश्च निशाचरेन्द्र
गन्धर्वविद्याधरनागयक्षाः।
रामस्य लोकत्रयनायकस्य
स्थातुं न शक्ताः समरेषु सर्वे ॥ ५.५१.४३ ॥
夜行者之主啊,诸天神、阿修罗、乾闼婆、持明、龙与夜叉,所有人在战场上都无法抵挡三界之主罗摩。
5.51.44
ब्रह्मा स्वयम्भूश्चतुराननो वा
रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा।
इन्द्रो महेन्द्रः सुरनायको वा
स्थातुं न शक्ता युधि राघवस्य ॥ ५.५१.४४ ॥
无论是自生的四面梵天,还是三眼、毁灭三城的湿婆,或是大因陀罗、诸神之主,在战场上没有人能抵挡罗ghava。
5.51.45
स सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं वचः।
दशाननः कोपविवृत्तलोचनः
समादिशत् तस्य वधं महाकपेः ॥ ५.५१.४५ ॥
十首罗波那听了这大猴子言辞得体、无所畏惧却令人不快的话,怒目圆睁,下令处死这位大猴。