ヴァールミーキのラーマーヤナ · サルガ 5.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.52.1
स तस्य वचनं श्रुत्वा वानरस्य महात्मनः।
आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः ॥ ५.५२.१ ॥
その偉大な心の猿の言葉を聞くと、怒りに我を失ったラーヴァナは、彼の処刑を命じた。
5.52.2
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना।
निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ ५.५२.२ ॥
使者として言伝を伝えたその猿の殺害を邪悪なラーヴァナが命じたとき、ヴィビーシャナはそれを認めなかった。
5.52.3
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।
विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ ५.५२.३ ॥
怒れる羅刹の王と、生じた事態を悟ったヴィビーシャナは、行動の道を定めることに揺るがず、思案を始めた。
5.52.4
निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्।
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ५.५२.४ ॥
そこでヴィビーシャナは決意を固め、言葉に巧みな彼は、敵を征する者の尊敬すべき兄に対し、和らいだ言葉で大いに益となることを語った。
5.52.5
क्षमस्व रोषं त्यज राक्षसेन्द्र
प्रसीद मे वाक्यमिदं शृणुष्व।
वधं न कुर्वन्ति परावरज्ञा
दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ ५.५२.५ ॥
羅刹の王よ、お許しください。怒りをお捨てください。どうか私を哀れみ、この言葉をお聞きください。高きも低きも知る賢明な地上の王たちは、使者を殺すことはありません。
5.52.6
राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्।
तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ५.५२.६ ॥
王よ、これは法に背き、世の習いからしても非難されることです。勇士よ、この猿を殺すことは、あなたにふさわしくありません。
5.52.7
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः।
परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ५.५२.७ ॥
あなたはダルマを知り、恩を知り、王の義務に熟達している。生きとし生けるものの高下を知り、至高の真理を知るのはあなたただけだ。
5.52.8
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः।
ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥ ५.५२.८ ॥
あなたのような賢者でさえ怒りに囚われるなら、聖典の学識はただの骨折り損にすぎない。
5.52.9
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।
युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥ ५.५२.९ ॥
ゆえに、敵を滅ぼす者よ、近づき難き羅刹の王よ、どうか心を鎮めよ。正しいことと正しくないことを見定めた上で、使者への罰を定めよ。
5.52.10
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत् ॥ ५.५२.१० ॥
ヴィビーシャナの言葉を聞いた羅刹の王ラーヴァナは、大いなる怒りに囚われ、このように答えた。
5.52.11
न पापानां वधे पापं विद्यते शत्रुसूदन।
तस्मादिमं वधिष्यामि वानरं पापकारिणम् ॥ ५.५२.११ ॥
敵を滅ぼす者よ、悪人を殺すことに罪はない。ゆえに、この悪事を働いた猿を私は殺そう。
5.52.12
अधर्ममूलं बहुदोषयुक्त-
मनार्यजुष्टं वचनं निशम्य।
उवाच वाक्यं परमार्थतत्त्वं
विभीषणो बुद्धिमतां वरिष्ठः ॥ ५.५२.१२ ॥
不義を根とし、多くの過ちに満ち、非アーリヤの者が好むその言葉を聞いて、賢者の中で最も優れたヴィビーシャナは、至高の真理の本質を明かすこの言葉を語った。
5.52.13
प्रसीद लङ्केश्वर राक्षसेन्द्र
धर्मार्थतत्त्वं वचनं शृणुष्व।
दूता न वध्याः समयेषु राजन्
सर्वेषु सर्वत्र वदन्ति सन्तः ॥ ५.५२.१३ ॥
ラṅカーの主、羅刹王よ、どうかお心を鎮めて、法と利益の真実を説く私の言葉をお聞きください。王よ、掟によれば使者は殺してはならないと、賢者たちはどこでも誰にでも言っています。
5.52.14
असंशयं शत्रुरयं प्रवृद्धः
कृतं ह्यनेनाप्रियमप्रमेयम्।
न दूतवध्यां प्रवदन्ति सन्तो
दूतस्य दृष्टा बहवो हि दण्डाः ॥ ५.५२.१४ ॥
疑いなく、この敵は勢いを増し、計り知れないほど不快な行いをしました。しかし賢者は使者を殺すことを説きません。使者に対しては多くの罰が定められています。
5.52.15
वैरूप्यमङ्गेषु कशाभिघातो
मौण्ड्यं तथा लक्षणसंनिपातः।
एतान् हि दूते प्रवदन्ति दण्डान्
वधस्तु दूतस्य न नः श्रुतोऽस्ति ॥ ५.५२.१५ ॥
手足を傷つけること、鞭打ち、頭を剃ること、焼き印を押すこと——これらを賢者は使者への罰として定めています。使者を殺すことについては、私たちは聞いたことがありません。
5.52.16
कथं च धर्मार्थविनीतबुद्धिः
परावरप्रत्ययनिश्चितार्थः।
भवद्विधः कोपवशे हि तिष्ठेत्
कोपं न गच्छन्ति हि सत्त्ववन्तः ॥ ५.५२.१६ ॥
法と利益において知恵を磨き、高低についての確かな知によって判断を定めたあなたのような人が、どうして怒りの支配下にとどまれるでしょうか。堅固な人は怒りに屈しないものです。
5.52.17
न धर्मवादे न च लोकवृत्ते
न शास्त्रबुद्धिग्रहणेषु वापि।
विद्येत कश्चित्तव वीर तुल्य-
स्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ ५.५२.१७ ॥
勇士よ、法を論じること、世間の振る舞い、あるいは聖典の理解を得ることにおいても、あなたに並ぶ者はいません。あなたこそ神々とアスラの中で最もすぐれた方です。
5.52.18
पराक्रमोत्साहमनस्विनां च
सुरासुराणामपि दुर्जयेन।
त्वयाप्रमेयेण सुरेन्द्रसङ्घा
जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥ ५.५२.१८ ॥
勇猛で気概ある賢者である神々と阿修羅さえも打ち負かせぬ、計り知れぬあなたによって、神々の王の群れも諸王も戦場で幾度も打ち破られてきた。
5.52.19
इत्थंविधस्यामरदैत्यशत्रोः
शूरस्य वीरस्य तवाजितस्य।
कुर्वन्ति वीरा मनसाप्यलीकं
प्राणैर्विमुक्ता न तु भोः पुरा ते ॥ ५.५२.१९ ॥
神々と阿修羅の敵である、勇敢で英雄的な、征服されざるあなたに対して、英雄たちが心の中で悪意を抱いたとしても、彼らはとうに命を失っていたはずだ。ああ、そのようなことは以前にも起きていない。
5.52.20
न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्।
तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ ५.५२.२० ॥
この猿を殺すことに何の利点も私には見えない。この猿を送り込んだ者たちにこそ罰を与えるべきだ。
5.52.21
साधुर्वा यदि वासाधुः परैरेष समर्पितः।
ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ॥ ५.५२.२१ ॥
この者が善人であれ悪人であれ、他人に送り込まれたのだ。他人の目的を語り、他人に従う使者は、殺されるに値しない。
5.52.22
अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम्।
इह यः पुनरागच्छेत् परं पारं महोदधेः ॥ ५.५२.२२ ॥
また王よ、この者を殺せば、大海の彼方から再びここへ来られる、ほかの空を行く者は見当たりません。
5.52.23
तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय।
भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ ५.५२.२३ ॥
ゆえに彼を殺す努力はすべきではない。敵の城を征服する者よ、インドラを含む神々に対して努力を向けるのがあなたにふさわしい。
5.52.24
अस्मिन् विनष्टे नहि भूतमन्यं
पश्यामि यस्तौ नरराजपुत्रौ।
युद्धाय युद्धप्रिय दुर्विनीता-
वुद्योजयेद् वै भवता विरुद्धौ ॥ ५.५२.२४ ॥
この者が滅びれば、戦いを好み不遜なあの二人の人王の子を、あなたに逆らう戦いへと駆り立てられる者は、もう見当たらない。
5.52.25
पराक्रमोत्साहमनस्विनां च
सुरासुराणामपि दुर्जयेन।
त्वया मनोनन्दन नैर्ऋतानां
युद्धाय निर्नाशयितुं न युक्तम् ॥ ५.५२.२५ ॥
心を喜ばせる御方よ、勇猛で気概があり志の強い神々や阿修羅にさえ打ち勝てないあなたが、戦いで羅刹たちを滅ぼすのはふさわしくない。
5.52.26
हिताश्च शूराश्च समाहिताश्च
कुलेषु जाताश्च महागुणेषु।
मनस्विनः शस्त्रभृतां वरिष्ठाः
कोपप्रशस्ताः सुभृताश्च योधाः ॥ ५.५२.२६ ॥
彼らは善意にあふれ、勇敢で心を集中し、高貴な家系に生まれ、大いなる徳を備え、気概があり、武器を持つ者の中で最も優れ、怒りにおいて称えられ、よく養われた戦士たちである。
5.52.27
तदेकदेशेन बलस्य तावत्
केचित् तवादेशकृतोऽद्य यान्तु।
तौ राजपुत्रावुपगृह्य मूढौ
परेषु ते भावयितुं प्रभावम् ॥ ५.५२.२७ ॥
それゆえ、あなたの命により、今日のうちに軍勢の一部を連れて何人かが出発し、あの愚かな二人の王子を捕らえて、敵の前にあなたの威力を示せ。
5.52.28
निशाचराणामधिपोऽनुजस्य
विभीषणस्योत्तमवाक्यमिष्टम्।
जग्राह बुद्ध्या सुरलोकशत्रु-
र्महाबलो राक्षसराजमुख्यः ॥ ५.५२.२८ ॥
夜歩く者たちの主、神々の世界の敵、大力のラークシャサ王の中で第一の者ラーヴァナは、弟ヴィビーシャナの優れて好ましい言葉を知恵をもって受け入れた。