蚁垤《罗摩衍那》 · 篇 5.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.53.1
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ ५.५३.१ ॥
十首罗波那听了这位大德的话,便对其弟说出了适合当时情境的有益言辞。
5.53.2
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता।
अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः ॥ ५.५३.२ ॥
你说得对,杀害使者是应当被斥责的;然而此人必须受罚,那就对他施以不同于死刑的其他惩罚吧。
5.53.3
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ५.५३.३ ॥
对猴子而言,尾巴是心爱的装饰;所以立刻点燃他的尾巴,让他带着烧焦的尾巴离去。
5.53.4
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्।
सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ५.५३.४ ॥
然后让他的朋友、同族、亲属和好友们都看看他——因肢体毁坏而憔悴、可怜的模样。
5.53.5
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम्।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५.५३.५ ॥
罗刹之主下令:让罗刹们拖着燃烧的尾巴,把他带遍整座城市及其所有十字路口。
5.53.6
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः।
वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥ ५.५३.६ ॥
罗刹们听到这道命令,怒气冲冲,便用破旧的棉布把他的尾巴缠裹起来。
5.53.7
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम् ॥ ५.५३.७ ॥
当他的尾巴被缠绕时,这位大猿Hanumān像在森林中遇到干柴的火焰一样增长。
5.53.8
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्।
लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत् ॥ ५.५३.८ ॥
然后他们浇上油,在那里点燃了火;他用燃烧的尾巴击打那些罗刹。
5.53.9
रोषामर्षपरीतात्मा बालसूर्यसमाननः।
स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः ॥ ५.५३.९ ॥
他心中充满愤怒与不满,面容如初升的太阳,这位猿中之最又一次置身于聚集起来的残暴罗刹之中。
5.53.10
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः।
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ॥ ५.५३.१० ॥
那些夜行者中的妇女、孩童和老人都欢欣起来;虽然被缚,这位英雄却想出了适合当时情形的主意。
5.53.11
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः।
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ॥ ५.५३.११ ॥
罗刹们啊,即使我被缚,你们也确实不能制服我;斩断绳索、跃起之后,我还能再次杀掉这些人。
5.53.12
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्।
निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता ॥ ५.५३.१२ ॥
若我为了主人的利益、奉主人之命四处行走,却被心怀恶念之人所缚,那么我并未施行报复。
5.53.13
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि।
किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ ५.५३.१३ ॥
我足以在战斗中对抗所有罗刹;然而为了使罗摩欢喜,我将忍受这样的事。
5.53.14
लङ्का चारयितव्या मे पुनरेव भवेदिति।
रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः ॥ ५.५३.१४ ॥
我想,我必须再次巡视楞伽;夜里因城堡的防御布置,我没能看清它。
5.53.15
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये।
कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च ॥ ५.५३.१५ ॥
在夜尽之前,我必定要看到楞伽;他们若愿意,就再把我捆起来,点燃我的尾巴吧。
5.53.16
पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः।
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥ ५.५३.१६ ॥
罗刹们折磨我,但我的心并无倦意。于是他们抓住了那位身形隐藏、精力充沛的大猴。
5.53.17
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्।
शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः ॥ ५.५३.१७ ॥
罗刹们欢喜地抓住那位猴中之象,伴着海螺与鼓声,宣扬着他们的功绩而去。
5.53.18
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्।
अन्वीयमानो रक्षोभिर्ययौ सुखमिरंदमः ॥ ५.५३.१८ ॥
行事残暴的罗刹们带他在那座城中巡行;被罗刹们簇拥的这位降伏敌人者,从容地前行。
5.53.19
हनूमांश्चारयामास राक्षसानां महापुरीम्।
अथापश्यद् विमानानि विचित्राणि महाकपिः ॥ ५.५३.१९ ॥
大猴Hanumān被带领着穿行于罗刹的大城中,随后看见了奇异的飞行宫殿。
5.53.20
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्।
रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ॥ ५.५३.२० ॥
这只猴子看见了有围墙的地块、布局合理的广场、房屋拥挤的街道以及三岔路口。
5.53.21
तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ ५.५३.२१ ॥
同样,他也看见了大街小巷、房屋之间的空地、广场、四岔路口以及王道。
5.53.22
घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः।
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ ५.५३.२२ ॥
所有罗刹都宣称这只猴子是间谍,妇女、孩童和老人出于好奇,纷纷从各处走出。
5.53.23
तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः।
दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥ ५.५३.२३ ॥
想要看那条尾巴被点燃的哈努曼的人们,此时在哈努曼尾端燃烧的火焰中,
5.53.24
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्।
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ॥ ५.५३.२४ ॥
那些眼睛丑陋的罗刹女把这个不幸的消息告诉了女神:“悉多啊,那个与你交谈过的红脸猴子——”
5.53.25
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते।
श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम् ॥ ५.५३.२५ ॥
他带着燃烧的尾巴被人牵着绕行。听到那句残酷的话,如同自我毁灭一般,
5.53.26
वैदेही शोकसंतप्ता हुताशनमुपागमत्।
मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ॥ ५.५३.२६ ॥
悲痛折磨的毗提诃公主走向火边。那时她转而祈愿那位大猴子的吉祥。
5.53.27
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः।
यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः ॥ ५.५३.२७ ॥
她大眼睛,神情安定,站到负载祭品的火神面前。若我身中有侍奉夫君之德,若我的行为中有苦行,或有一夫一妻的忠贞,愿你对哈努曼清凉。
5.53.28
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः।
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥ ५.५३.२८ ॥
若那位智者对我尚存一丝怜悯,或我的福分尚有残余,愿你对哈努曼清凉。
5.53.29
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्।
स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ५.५३.२९ ॥
若那位正法之人知道我这个品行端正、渴望与他相会的人,愿你对哈努曼清凉。
5.53.30
यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः।
अस्माद् दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ॥ ५.५३.३० ॥
若信守誓言的高尚的须羯梨婆把我从这苦难洪流的阻隔中救出,愿你对哈努曼清凉。
5.53.31
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः।
जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः ॥ ५.५३.३१ ॥
此时,火焰尖锐、火舌向右盘旋,平静而不慌乱,在鹿眼的悉多面前燃起,仿佛向猴子昭示吉兆。
5.53.32
हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ ५.५३.३२ ॥
哈奴曼之父风神与尾上之火相合,吹起如雪风般清凉的风,使女神悉多安定。
5.53.33
दह्यमाने च लाङ्गूले चिन्तयामास वानरः।
प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ॥ ५.५३.३३ ॥
尾巴燃烧之时,猴子(哈奴曼)心想:“这熊熊烈火为何不从四面八方烧我?”
5.53.34
दृश्यते च महाज्वालः करोति च न मे रुजम्।
शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ॥ ५.५३.३४ ॥
可见一大团火焰,却不使我感到疼痛;它停在尾端,宛如寒冬降下的露水。
5.53.35
अथ वा तदिदं व्यक्तं यद् दृष्टं प्लवता मया।
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥ ५.५३.३५ ॥
或者,这显然就是我跳跃时所见的那奇迹:凭借罗摩的威力而生的奇观,正如山峰(摩奈迦)在河流之主的大海中出现。
5.53.36
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः।
रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥ ५.५३.३६ ॥
若大海与智慧的摩奈迦为罗摩而如此激荡,这火又岂会不有所作为?
5.53.37
सीतायाश्चानृशंस्येन तेजसा राघवस्य च।
पितुश्च मम सख्येन न मां दहति पावकः ॥ ५.५३.३७ ॥
凭借悉多的仁慈、罗怙之子的威光,以及我父亲的友谊,火并不烧我。
5.53.38
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः।
कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः ॥ ५.५३.३८ ॥
于是猴中象王片刻思索:“像我这样的人,在此竟被这些卑劣的罗刹所缚,怎会如此?”
5.53.39
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे।
ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः ॥ ५.५३.३९ ॥
“若我尚有勇力,理应以此相报。”于是那迅捷的大猴斩断了那些绳索。
5.53.40
उत्पपाताथ वेगेन ननाद च महाकपिः।
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ॥ ५.५३.४० ॥
于是大猴迅速跃起并怒吼;那光辉的大猴抵达城门,城门高耸如山峰。
5.53.41
विभक्तरक्षःसम्बाधमाससादानिलात्मजः।
स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ॥ ५.५३.४१ ॥
风之子抵达那被罗刹分割、拥挤不堪的城门;他化作如山般巨大,转瞬又恢复为收敛自持的身形。
5.53.42
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्।
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः ॥ ५.५३.४२ ॥
他化至极小之身,使束缚脱落;获得解脱的光辉者再次如山般巍峨。
5.53.43
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम्।
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ॥ ५.५३.४३ ॥
他环顾四周,看见一根靠在门楼上的铁棒。这位大臂英雄抓起这根饰有黑铁的铁棒,风之子又一次杀死了所有守卫。
5.53.44
स तान् निहत्वा रणचण्डविक्रमः
समीक्षमाणः पुनरेव लङ्काम्।
प्रदीप्तलाङ्गूलकृतार्चिमाली
प्रकाशितादित्य इवार्चिमाली ॥ ५.५३.४४ ॥
他杀死了那些守卫,在战场上勇猛非凡的他再次望向楞伽城。尾巴燃烧,缠绕着火焰,他如同绽放光芒、环绕光环的太阳般闪耀。