蚁垤《罗摩衍那》 · 篇 5.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.54.1
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ ५.५४.१ ॥
于是,望着楞伽城,这位心愿已了、干劲日益高涨的猴子,开始思考剩下的任务。
5.54.2
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्।
यदेषां रक्षसां भूयः संतापजननं भवेत् ॥ ५.५४.२ ॥
如今在此,我还有什么事要做,才能使这些罗刹再次陷入痛苦?
5.54.3
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ५.५४.३ ॥
园林已被摧毁,尊贵的罗刹已被杀死,军队的一部分已被消灭;剩下的,只是摧毁城堡。
5.54.4
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः ॥ ५.५४.४ ॥
城堡一旦毁灭,此事便成为轻松的劳作;在此事中,只需少许努力,我的辛劳便能有所成就。
5.54.5
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः।
अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ ५.५४.५ ॥
我尾上燃烧的这团火,理应用这些上好的宅第来使其满足。
5.54.6
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः।
भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ ५.५४.६ ॥
于是,那尾巴燃烧的大猴,如同携着闪电的云,在楞伽城的屋顶之上穿行。
5.54.7
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ ५.५४.७ ॥
猴子从一座房屋到另一座房屋,观看罗刹的园林,毫无惧色地在楼阁间游走。
5.54.8
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली ॥ ५.५४.८ ॥
这位速度极快的强大猴子跳入普罗诃斯塔的住所,在那里放火,其速度与风相等。
5.54.9
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।
मुमोच हनुमानग्निं कालानलशिखोपमम् ॥ ५.५४.९ ॥
随后,勇猛的哈努曼跳到摩诃波尔试瓦的另一座宅第,放出如同末劫之火火焰般的烈火。
5.54.10
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
शुकस्य च महातेजाः सारणस्य च धीमतः ॥ ५.५४.१० ॥
这大猴子同样跳到了伐阇罗丹湿特罗、大光明的舒卡以及智者萨拉纳的住所。
5.54.11
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥ ५.५४.११ ॥
同样,猴群的首领焚烧了因陀罗耆特的住所,随后又焚烧了阇部摩利与苏摩利的住所。
5.54.12
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ ५.५४.१२ ॥
罗诗弥可图的住所,同样还有苏利耶舍special的住所,以及罗刹短耳、獠牙、罗摩夏的住所。
5.54.13
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ ५.५४.१३ ॥
狂怒于战斗、醉意昏沉的罗刹旗颈的居所,可怖的电舌的居所,以及象面的居所。
5.54.14
करालस्य विशालस्य शोणिताक्षस्य चैव हि।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ ५.५४.१४ ॥
迦罗罗、毗舍罗与血目的居所,俱卢干那的居所,以及摩迦罗目的居所。
5.54.15
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः।
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ॥ ५.५४.१५ ॥
那罗安多迦、昆婆与恶心的尼昆婆的居所,祭祀之敌的居所,以及梵之敌的居所也是如此。
5.54.16
वर्जयित्वा महातेजा विभीषणगृहं प्रति।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ ५.५४.१६ ॥
猴中之雄者大光明者避开毗毗沙那的住所,依次前进,焚烧了其余的(宅第)。
5.54.17
तेषु तेषु महार्हेषु भवनेषु महायशाः।
गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः ॥ ५.५४.१७ ॥
在那些珍贵的宅第中,大名的猴中象焚毁了富人家的财富。
5.54.18
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ ५.५४.१८ ॥
越过所有宅第,有勇力而吉祥的(哈努曼)抵达了罗刹之主罗波那的住所。
5.54.19
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते।
मेरुमन्दरसंकाशे नानामङ्गलशोभिते ॥ ५.५४.१९ ॥
于是在那座主要的宫殿中,它饰以众多宝石,宛如须弥山与曼陀罗山,并以众多吉祥之物装点—
5.54.20
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्।
ननाद हनुमान् वीरो युगान्तजलदो यथा ॥ ५.५४.२० ॥
герой Ханумана放开系在尾端的熊熊烈火,像劫末之云一般发出吼声。
5.54.21
श्वसनेन च संयोगादतिवेगो महाबलः।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ ५.५४.२१ ॥
与风相会,那迅猛而强大的火焰如劫火般燃烧,并且愈加增长。
5.54.22
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्।
तानि काञ्चनजालानि मुक्तामणिमयानि च ॥ ५.५४.२२ ॥
风将那熊熊烈火吹遍那些宫殿,那里有金色的格栅和由珍珠宝石制成的装饰。
5.54.23
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च।
तानि भग्नविमानानि निपेतुर्वसुधातले ॥ ५.५४.२३ ॥
那些满是宝石的巨大宫殿开始崩坏,破碎的空中车辇坠落于大地之上。
5.54.24
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये।
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ॥ ५.५४.२४ ॥
如同悉陀的宫殿因功德耗尽而从天空坠落,奔逃的罗刹们发出了喧嚣的惊叫。
5.54.25
स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम्।
नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥ ५.५४.२५ ॥
众人各自守护家园,士气崩溃,失去光彩,喊道:“唉!这火一定是化作猴子来了!”
5.54.26
क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः।
काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः ॥ ५.५४.२६ ॥
妇人们哭喊着,怀抱吃奶的婴儿,突然跌倒;有些人身体被火包围,披散着头发从楼阁上坠落。
5.54.27
पतन्त्योरेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात्।
वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान् ॥ ५.५४.२७ ॥
坠落之物如云中落下的闪电般在天空中闪耀——钻石、珊瑚、猫眼石、珍珠与白银堆成的山丘。
5.54.28
विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः।
नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ॥ ५.५४.२८ ॥
他看到楼阁中各种金属熔化流淌;然而,正如火从不因柴草而满足,它对这些也从未满足。
5.54.29
हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति।
न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥ ५.५४.२९ ॥
哈奴曼杀死罗刹之王,仍丝毫不感到满足;被哈奴曼所杀的罗刹,也不能让大地满足。
5.54.30
हनूमता वेगवता वानरेण महात्मना।
लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा ॥ ५.५४.३० ॥
迅捷的猴子、大德的哈奴曼焚烧了楼卡城,正如楼陀罗焚烧了三城(三城魔城)。
5.54.31
ततः स लङ्कापुरपर्वताग्रे
समुत्थितो भीमपराक्रमोऽग्निः।
प्रसार्य चूडावलयं प्रदीप्तो
हनूमता वेगवतोपसृष्टः ॥ ५.५४.३१ ॥
于是,那团由迅捷的哈努曼投出的、威力可怖的火焰,在楞伽城的山巅升起,展开它的火焰冠,熊熊燃烧。
5.54.32
युगान्तकालानलतुल्यरूपः
समारुतोऽग्निर्ववृधे दिवस्पृक्।
विधूमरश्मिर्भवनेषु सक्तो
रक्षःशरीराज्यसमर्पितार्चिः ॥ ५.५४.३२ ॥
那火焰形如劫末之火,随风增长,直冲天际;以无烟的光芒缠绕在房屋之间,其火焰以罗刹的身体为酥油而得以滋养。
5.54.33
आदित्यकोटीसदृशः सुतेजा
लङ्कां समस्तां परिवार्य तिष्ठन्।
शब्दैरनेकैरशनिप्ररूढै-
र्भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ ५.५४.३३ ॥
这大火光辉如千万个太阳,环绕整个楞伽城而立;以许多如雷霆迸发般的可怖巨响,它熊熊燃烧,仿佛要劈开宇宙之卵。
5.54.34
तत्राम्बरादग्निरतिप्रवृद्धो
रूक्षप्रभः किंशुकपुष्पचूडः।
निर्वाणधूमाकुलराजयश्च
नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ५.५४.३४ ॥
在那里,从天空中,火势极度增长,光芒刺目,顶上戴着森林火焰花般的火冠;而那些蓝如青莲的云,充满了熄灭之火的烟柱,闪耀起来。
5.54.35
वज्री महेन्द्रस्त्रिदशेश्वरो वा
साक्षाद् यमो वा वरुणोऽनिलो वा।
रौद्रोऽग्निरर्को धनदश्च सोमो
न वानरोऽयं स्वयमेव कालः ॥ ५.५४.३५ ॥
此人莫非是持金刚杵的因陀罗、诸天之主?还是真正的阎摩、伐楼那,或风神?或是猛烈的楼陀罗、火神、太阳、财神俱毗罗,或月亮?这不是猴子——这正是时间本身。
5.54.36
किं ब्रह्मणः सर्वपितामहस्य
लोकस्य धातुश्चतुराननस्य।
इहागतो वानररूपधारी
रक्षोपसंहारकरः प्रकोपः ॥ ५.५४.३६ ॥
莫非是众生的祖父、世界的创造者四面梵天,化作猿猴之身来到这里,显示毁灭罗刹的愤怒?
5.54.37
किं वैष्णवं वा कपिरूपमेत्य
रक्षोविनाशाय परं सुतेजः।
अचिन्त्यमव्यक्तमनन्तमेकं
स्वमायया साम्प्रतमागतं वा ॥ ५.५४.३७ ॥
还是这是毗湿奴本尊,具有至上光辉,化作猿猴之身来毁灭罗刹?那不可思议、不可显现、无限而唯一者,此刻以他自己的幻力来到了这里。
5.54.38
इत्येवमूचुर्बहवो विशिष्टा
रक्षोगणास्तत्र समेत्य सर्वे।
सप्राणिसङ्घां सगृहां सवृक्षां
दग्धां पुरीं तां सहसा समीक्ष्य ॥ ५.५४.३८ ॥
那里聚集的众多杰出罗刹群都这样说:他们忽然看见那座城市被焚毁,连同其中众多的生灵、房屋和树木。
5.54.39
ततस्तु लङ्का सहसा प्रदग्धा
सराक्षसा साश्वरथा सनागा।
सपक्षिसङ्घा समृगा सवृक्षा
रुरोद दीना तुमुलं सशब्दम् ॥ ५.५४.३९ ॥
于是楞伽城忽然被焚烧殆尽,与罗刹、马匹与车辆、象群、飞鸟群、鹿群和树木一同,悲惨地发出喧嚣的哭声。
5.54.40
हा तात हा पुत्रक कान्त मित्र
हा जीवितेशाङ्ग हतं सुपुण्यम्।
रक्षोभिरेवं बहुधा ब्रुवद्भिः
शब्दः कृतो घोरतरः सुभीमः ॥ ५.५४.४० ॥
“哎呀,父亲!哎呀,儿子!哎呀,爱人!哎呀,朋友!哎呀,我生命的主人!哎呀,那极其有福的(城市)毁灭了!”罗刹们这样多方哀叹,发出了极为可怖、骇人的喧嚣。
5.54.41
हुताशनज्वालसमावृता सा
हतप्रवीरा परिवृत्तयोधा।
हनूमतः क्रोधबलाभिभूता
बभूव शापोपहतेव लङ्का ॥ ५.५४.४१ ॥
被火焰环绕的楞伽城,英雄被杀,战士转身逃走,被哈努曼的愤怒与力量所压倒,仿佛遭受了诅咒的打击。
5.54.42
ससम्भ्रमं त्रस्तविषण्णराक्षसां
समुज्ज्वलज्ज्वालहुताशनाङ्किताम्।
ददर्श लङ्कां हनुमान् महामनाः
स्वयंभुरोषोपहतामिवावनिम् ॥ ५.५४.४२ ॥
心胸广大的哈努曼看见楞伽城被熊熊烈火所标记,惊慌失措、沮丧的罗刹们在混乱之中,仿佛大地遭受了自生者(梵天)的愤怒打击。
5.54.43
भङ्क्त्वा वनं पादपरत्नसंकुलं
हत्वा तु रक्षांसि महान्ति संयुगे।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं
तस्थौ हनूमान् पवनात्मजः कपिः ॥ ५.५४.४३ ॥
哈努曼——风神之子、猴子——摧毁了密布珍奇树木的园林,在战斗中杀死了众多强大的罗刹,焚烧了那座如宝屋花环般的城市,之后站立着。
5.54.44
स राक्षसांस्तान् सुबहूंश्च हत्वा
वनं च भङ्क्त्वा बहुपादपं तत्।
विसृज्य रक्षोभवनेषु चाग्निं
जगाम रामं मनसा महात्मा ॥ ५.५४.४४ ॥
哈努曼杀死了那些众多的罗刹,摧毁了那满是树木的园林,在罗刹的住所放了火,这位大德之人便在心中前往罗摩那里。
5.54.45
ततस्तु तं वानरवीरमुख्यं
महाबलं मारुततुल्यवेगम्।
महामतिं वायुसुतं वरिष्ठं
प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ ५.५४.४५ ॥
于是所有天神群体都赞美他:猴子英雄中的首领,大力者,速度与风相等,大智者,风神之子,最为卓越的人。
5.54.46
देवाश्च सर्वे मुनिपुङ्गवाश्च
गन्धर्वविद्याधरपन्नगाश्च।
भूतानि सर्वाणि महान्ति तत्र
जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ ५.५४.४६ ॥
众天神、诸位最优秀的仙人、乾闼婆、持明与蛇众,以及一切大生灵,在那里都得到了无与伦比的至上喜悦。
5.54.47
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।
दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः ॥ ५.५४.४७ ॥
他摧毁园林,在战斗中杀死罗刹,焚烧了可怕的楞伽城,这位大神通的大猴放出光辉。
5.54.48
गृहाग्र्यशृङ्गाग्रतले विचित्रे
प्रतिष्ठितो वानरराजसिंहः।
प्रदीप्तलाङ्गूलकृतार्चिमाली
व्यराजतादित्य इवार्चिमाली ॥ ५.५४.४८ ॥
那位猴王中的雄狮站立在奇妙高大的楼阁顶端,燃烧的尾巴形成火焰花环,光辉如同被光芒环绕的太阳。
5.54.49
लङ्कां समस्तां सम्पीड्य लाङ्गूलाग्निं महाकपिः।
निर्वापयामास तदा समुद्रे हरिपुङ्गवः ॥ ५.५४.४९ ॥
大猴,猴中之最,将整个楞伽烧灼之后,随即在大海中熄灭了尾上的火焰。
5.54.50
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ॥ ५.५४.५० ॥
于是天神、乾闼婆、悉陀及大仙人们,看到被焚烧的楞伽,都感到极大的惊异。
5.54.51
तं दृष्ट्वा वानरश्रेष्ठं हनूमन्तं महाकपिम्।
कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः ॥ ५.५४.५१ ॥
众生看见那猴中最优秀的大猴哈努曼,心想:"这是劫末之火。"于是都惊恐战栗。