蚁垤《罗摩衍那》 · 篇 5.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.55.1
संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्।
अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः ॥ ५.५५.१ ॥
猴子哈努曼看到燃烧中、惊恐的楞伽城,罗刹群众惶恐不安,于是开始思索。
5.55.2
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत।
लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ५.५५.२ ॥
他对那座城市感到极大的恐惧,内心也生出自责:我烧毁楞伽,究竟做了什么事?
5.55.3
धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ५.५५.३ ॥
那些大德之人,若能以智慧抑制升起的愤怒,犹如以水熄灭燃烧的火,真是有福之人。
5.55.4
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि।
क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ ५.५५.४ ॥
谁在愤怒时不作恶?愤怒者甚至会杀害长辈;愤怒之人以粗言辱骂善人。
5.55.5
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥ ५.५५.५ ॥
极度愤怒的人,从来不知道什么该说、什么不该说。对于愤怒的人,没有不能做的事,也没有不能说的话。
5.55.6
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ ५.५५.६ ॥
若有人仅凭忍耐就能去除升起的愤怒,犹如蛇脱去旧皮,这样的人才真正称得上是大丈夫。
5.55.7
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।
अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ५.५५.७ ॥
真是可耻,我这愚蠢、无耻、罪孽深重之人,未顾及悉多便放火,竟伤害了自己的主人!
5.55.8
यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ५.५५.८ ॥
若此处全部烧毁,那么尊贵的耆那基(悉多)必定也已焚毁;我无知所行之事,竟毁了主人的使命。
5.55.9
यदर्थमयमारम्भस्तत्कार्यमवसादितम्।
मया हि दहता लङ्कां न सीता परिरक्षिता ॥ ५.५५.९ ॥
此番行动所为之事,已然毁坏;焚烧楞伽时,我未能保护悉多。
5.55.10
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ५.५५.१० ॥
此事本只完成了一点,这是无疑的;然而我被愤怒所支配,竟毁了它的根本。
5.55.11
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ५.५५.११ ॥
悉多必已丧命,因为楞伽已无一处未被烧毁;整座城已化为灰烬。
5.55.12
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्।
इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥ ५.५५.१२ ॥
若因我判断失误,那件事已然毁坏,那么今日便在此舍弃性命,于我也是可取的。
5.55.13
किमग्नौ निपताम्यद्य आहोस्विद् वडवामुखे।
शरीरमिह सत्त्वानां दद्मि सागरवासिनाम् ॥ ५.५५.१३ ॥
今天我是投入火中,还是投入伐多婆之口?我就在此将身体施给居于大海中的众生。
5.55.14
कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ ५.५५.१४ ॥
我既已毁掉了使命的全部,活着又如何能见到猴王,或那两位人中之虎?
5.55.15
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ ५.५५.१५ ॥
的确,因为愤怒的过失,我正显露了这一点:在三界闻名的、不稳定的猿猴之性。
5.55.16
धिगस्तु राजसं भावमनीशमनवस्थितम्।
ईश्वरेणापि यद् रागान्मया सीता न रक्षिता ॥ ५.५५.१६ ॥
羞耻啊,这种激情、不受控制、不稳定的心性!我虽有能力,却因贪爱而未能守护悉多。
5.55.17
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः।
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ ५.५५.१७ ॥
若悉多灭亡,那二人也将灭亡;他们灭亡之时,须羯哩婆与其眷属也将灭亡。
5.55.18
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ ५.५५.१८ ॥
薄罗多重兄弟、心性正直,听闻此言后,与沙都卢祇那一同,又将如何能活下去呢?
5.55.19
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्।
भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥ ५.५५.१९ ॥
若伊刹婆迦族那位最为正法的人陨灭,毫无疑问,所有臣民都将被忧愁与苦恼所折磨。
5.55.20
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ ५.५५.२० ॥
因此我这无福之人,失去了法与财富的积聚,心被忿怒之过所笼罩,显然成了毁灭世界的人。
5.55.21
पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् ॥ ५.५५.२१ ॥
他又思量起先前亲眼所见的那些迹象。
5.55.22
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ ५.५५.२२ ॥
或者,那位肢体优美的吉祥女子,被自己的光辉所守护,不会毁灭;火不会在火中生起。
5.55.23
नहि धर्मात्मनस्तस्य भार्याममिततेजसः।
स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ ५.५५.२३ ॥
确实,那位法德之人、光辉无量者的妻子,由自己的德行所守护,连火也不能触碰她。
5.55.24
नूनं रामप्रभावेण वैदेह्याः सुकृतेन च।
यन्मां दहनकर्मायं नादहद्धव्यवाहनः ॥ ५.५५.२४ ॥
必定是因为罗摩的威力和毗提诃的福德,这位以燃烧为业、承载祭品的火,没有烧毁我。
5.55.25
त्रयाणां भरतादीनां भ्रातॄणां देवता च या।
रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ ५.५५.२५ ॥
她是婆罗多等三位兄弟所敬之神,也是罗摩心中所爱,她怎会灭亡?
5.55.26
यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः।
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥ ५.५५.२६ ॥
或者,若这无所不在、不可毁灭的主宰之火不烧我的尾巴,它又怎能烧那位贵妇?
5.55.27
पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ ५.५५.२७ ॥
于是,惊异的哈努曼在那里又想起了金脐山在水中显现之事。
5.55.28
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।
असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ ५.५५.२८ ॥
凭借她的苦行、真实的言语,以及对丈夫专一不二的忠诚,她甚至能焚烧火本身;火不会焚烧她。
5.55.29
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्।
शुश्राव हनुमांस्तत्र चारणानां महात्मनाम् ॥ ५.५५.२९ ॥
哈努曼在那里如此思念女神对法的坚守时,便在那里听到了大德的遮罗那们的话语。
5.55.30
अहो खलु कृतं कर्म दुर्विगाहं हनूमता।
अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि ॥ ५.५५.३० ॥
啊!哈努曼真做了一件难以完成的事,在罗刹的宫室中放出了猛烈可怖的火!
5.55.31
प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः ॥ ५.५५.३१ ॥
充满逃奔的罗刹女、孩童与老人,因众人的喧嚣而鼓胀,仿佛透过山间洞穴在哭泣。
5.55.32
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा।
जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ ५.५५.३२ ॥
这座楞伽城,连同其楼阁、城墙与门楼都被焚毁了;然而耶那吉没有被焚烧——这对我们是奇异的惊叹。
5.55.33
बभूव चास्य मनसो हर्षस्तत्कालसम्भवः ॥ ५.५५.३३ ॥
就在那一刻,他的心中生起了喜悦。
5.55.34
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ॥ ५.५५.३४ ॥
由于那些吉兆、眼前成就的目的、具大德的缘由以及仙人的言语,哈努曼的心感到欢喜。
5.55.35
ततः कपिः प्राप्तमनोरथार्थ-
स्तामक्षतां राजसुतां विदित्वा।
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा
प्रतिप्रयाणाय मतिं चकार ॥ ५.५५.३५ ॥
于是猴子哈努曼,愿望与目的已达成,知道王女安然无恙,又亲眼再次见到她,便决意返回。