蚁垤《罗摩衍那》 · 篇 5.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.56.1
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम्।
अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ ५.५६.१ ॥
于是他向坐在娑罗树(śiṃśapā)根下的悉多(Jānakī)行礼,说道:“幸而我看到您在此无恙。”
5.56.2
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत ॥ ५.५६.२ ॥
当他准备离去时,悉多满怀对丈夫的深情,一再凝望着他,对哈努曼说了这些话。
5.56.3
यदि त्वं मन्यसे तात वसैकाहमिहानघ।
क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ५.५६.३ ॥
亲爱的,无过之人,若您认为合适,就在此停留一日;在某个隐秘之处歇息后,明日再走吧。
5.56.4
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर।
शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः ॥ ५.५६.४ ॥
对于我这个薄福之人,有你在身边,猴子啊,这无限的悲伤或许会减少片刻。
5.56.5
गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि।
प्राणेष्वपि न विश्वासो मम वानरपुङ्गव ॥ ५.५६.५ ॥
猿中之虎啊,你一旦离去,我便没有信心再与你相见;猿中之首啊,连我自己的性命,我也无法信赖。
5.56.6
अदर्शनं च ते वीर भूयो मां दारयिष्यति।
दुःखाद् दुःखतरं प्राप्तां दुर्मनःशोककर्शिताम् ॥ ५.५६.६ ॥
英雄啊,你的不见将再次撕裂我——我从悲痛坠入更深的悲痛,被烦乱的心和忧伤消磨殆尽。
5.56.7
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः।
सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः ॥ ५.५६.७ ॥
英雄啊,这疑虑仿佛就立在我面前:在这些强大的猴熊盟友之中,那位大力者。
5.56.8
कथं नु खलु दुष्पारं संतरिष्यति सागरम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ५.५६.८ ॥
他将如何渡过那难以横渡的大海——是那些猴熊大军,还是那两位人中之杰的王子?
5.56.9
त्रयाणामेव भूतानां सागरस्यापि लङ्घने।
शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा ॥ ५.५६.९ ॥
三界众生中,跨越大海的力量只属于毗纳帝之子(迦楼罗),或属于你,或属于风神之子摩噜多。
5.56.10
तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे।
किं पश्यसि समाधानं त्वं हि कार्यविशारदः ॥ ५.५६.१० ॥
如今这件事的困境已经出现,难以应对,你看有什么解决之法?你原是办事的能手。
5.56.11
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ ५.५६.११ ॥
完成此事,唯你一人足矣,啊,摧毁敌方英雄者;为你而生的,将是带来荣誉的果实。
5.56.12
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः।
मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥ ५.५६.१२ ॥
若敌军的克服者迦古特斯塔(罗摩)以大军充塞楞伽,将我带走,那便与他相称了。
5.56.13
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ ५.५६.१३ ॥
如同那位伟大之人、战场上的英勇者的威力所应有的那样,你便去成就它吧。
5.56.14
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत् ॥ ५.५६.१४ ॥
哈努曼英雄听了这些与此目的相关、谦逊且有理有据的话,便回答道。
5.56.15
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ५.५६.१५ ॥
女神啊,猴与熊大军的统帅、跳跃者中最优秀的苏羯哩婆,怀有力量与勇气,已为你的事业下定决心。
5.56.16
स वानरसहस्राणां कोटीभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः ॥ ५.५६.१६ ॥
他被千千万万的猴子所包围,毗提诃公主啊,猴王苏羯哩婆很快就会到来。
5.56.17
तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ५.५६.१७ ॥
那两位英雄,人中之最的罗摩与罗什曼那,将一同来到楞伽城,以他们的箭将其摧毁。
5.56.18
सगणं राक्षसं हत्वा नचिराद् रघुनन्दनः।
त्वामादाय वरारोहे स्वां पुरीं प्रति यास्यति ॥ ५.५६.१८ ॥
美腰的女子啊,罗怙族的欢喜罗摩,不久之后将连同部众杀死那罗刹,带你前往他自己的城市。
5.56.19
समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी।
क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥ ५.५६.१९ ॥
请宽心,愿你吉祥。等待时机吧;不久你将看到罗波那在战场上被罗摩杀死。
5.56.20
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ५.५६.२० ॥
待罗刹之王连同其子、大臣与亲属被杀之后,你将与罗摩重逢,如罗希尼与月亮相会。
5.56.21
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्युतः।
यस्ते युधि विजित्यारीञ्छोकं व्यपनयिष्यति ॥ ५.५६.२१ ॥
不久,甘古特斯特之裔罗摩将率猴熊中的英杰前来;他在战中战胜你的敌人,必将消除你的忧愁。
5.56.22
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ ५.५६.२२ ॥
如此安慰了毗提诃公主之后,风之子哈努曼决意离去,并向毗提诃致敬。
5.56.23
राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः।
समाश्वास्य च वैदेहीं दर्शयित्वा परं बलम् ॥ ५.५६.२३ ॥
斩杀众多杰出罗刹,宣扬我的名字,安慰毗提诃,并显示我的无上威力。
5.56.24
नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम्।
दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ ५.५६.२४ ॥
使城市陷入混乱,欺骗罗波那,显示我可怖的力量,并向毗提诃致敬。
5.56.25
प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम्।
ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ॥ ५.५६.२५ ॥
他决意再次穿越大海中央返回。那位猴中之虎渴望再见自己的主人,
5.56.26
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः।
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ॥ ५.५६.२६ ॥
这位摧敌者攀上了山中之最阿利什塔,那里长满高大如莲的树丛和深蓝的林带。
5.56.27
सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः।
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ॥ ५.५६.२७ ॥
仿佛披着悬挂在峰峦之间的云彩作为上衣,又仿佛被太阳吉祥的光芒温柔唤醒,
5.56.28
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः।
तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ॥ ५.५६.२८ ॥
那座山仿佛以迸起的矿脉睁开双眼,又仿佛以水流深沉的轰鸣诵读经文,
5.56.29
प्रगीतमिव विस्पष्टं नानाप्रस्रवणस्वनैः।
देवदारुभिरुद्धूतैरूर्ध्वबाहुमिव स्थितम् ॥ ५.५६.२९ ॥
仿佛以众多泉水的声音清晰地歌唱,又仿佛以摇曳的天竺杉高举双臂而立。
5.56.30
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः।
वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः ॥ ५.५६.३० ॥
仿佛以飞泻之水的轰鸣从四面呼喊,又仿佛以幽暗颤动的秋林而战栗。
5.56.31
वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः।
निःश्वसन्तमिवामर्षाद् घोरैराशीविषोत्तमैः ॥ ५.५६.३१ ॥
仿佛被风吹动的竹子和空心的芦苇所鸣响,仿佛因愤怒而叹息,仿佛充满了可怖的上等毒蛇。
5.56.32
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः।
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ॥ ५.५६.३२ ॥
仿佛以被雾气笼罩的深邃洞穴冥想,仿佛以如云脚般的山坡向四面延展。
5.56.33
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः।
कूटैश्च बहुधा कीर्णं शोभितं बहुकन्दरैः ॥ ५.५६.३३ ॥
仿佛在天空中打哈欠,山峰戴着成排的云朵,遍布各种峰顶,并以众多洞穴为饰。
5.56.34
सालतालैश्च कर्णैश्च वंशैश्च बहुभिर्वृतम्।
लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ॥ ५.५६.३४ ॥
被娑罗树、棕榈树、羯尔那树和众多竹子环绕,并以盛开的藤蔓华盖为饰。
5.56.35
नानामृगगणैः कीर्णं धातुनिष्यन्दभूषितम्।
बहुप्रस्रवणोपेतं शिलासंचयसंकटम् ॥ ५.५६.३५ ॥
群鹿成群,遍布各种矿物溪流为饰,泉水众多,因石堆密集而难以通行。
5.56.36
महर्षियक्षगन्धर्वकिंनरोरगसेवितम्।
लतापादपसम्बाधं सिंहाधिष्ठितकन्दरम् ॥ ५.५६.३६ ॥
大仙、夜叉、乾闼婆、紧那罗与蛇众所常至,藤蔓树木密布,洞穴中住着狮子。
5.56.37
व्याघ्रादिभिः समाकीर्णं स्वादुमूलफलद्रुमम्।
आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः ॥ ५.५६.३७ ॥
风之子、猴中之最勇者哈奴曼攀上那座布满虎豹等兽类、生长着结甘美根与果实之树的山峰。
5.56.38
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः।
तेन पादतलक्रान्ता रम्येषु गिरिसानुषु ॥ ५.५६.३८ ॥
他因急于见到罗摩和满心喜悦而受驱策,以脚掌踏上了那美丽的山坡。
5.56.39
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः।
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ॥ ५.५६.३९ ॥
石头伴着轰响被碾为碎粉。随后,大猴登上那座山王,身形便愈发高大。
5.56.40
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः।
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ॥ ५.५६.४० ॥
他渴望从南岸横渡咸海抵达北岸,于是这位英雄、风之子登上了那座山。
5.56.41
ददर्श सागरं भीमं भीमोरगनिषेवितम्।
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ॥ ५.५६.४१ ॥
他看到那片可怖的大海,满是骇人的巨蛇。这位由风之本体所生的风之子,准备像风一样穿越天空。
5.56.42
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्।
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ॥ ५.५६.४२ ॥
那位猴中之狮从南方朝北方的方向前行。那时,这座最卓越的山,被那只猴子压迫着,
5.56.43
ररास विविधैर्भूतैः प्राविशद् वसुधातलम्।
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ ५.५६.४३ ॥
各种生灵大声哀号;颤抖的山峰与倒下的树木一起,它陷入大地之中。
5.56.44
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः।
निपेतुर्भूतले भग्नाः शक्रायुधहता इव ॥ ५.५६.४४ ॥
被它巨大冲力拔起的花树折断,倒在地上,仿佛被因陀罗的金刚杵击中。
5.56.45
कन्दरोदरसंस्थानां पीडितानां महौजसाम्।
सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे ॥ ५.५६.४५ ॥
居于洞穴与幽谷中、受苦的大力雄狮发出可怕的吼声,划破天空,清晰可闻。
5.56.46
त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः।
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ ५.५६.४६ ॥
惊恐之中衣衫凌乱、首饰散乱的持明女子,骤然从那座山上飞腾而起。
5.56.47
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः।
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥ ५.५६.४७ ॥
巨大强健的大蛇,舌头燃烧、剧毒无比,头颈都被压碎,缠绕在它身上。
5.56.48
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा।
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ५.५६.४८ ॥
紧那罗、大蛇、乾闼婆、夜叉与持明也离开了那座受苦的殊胜之山,停留在空中。
5.56.49
स च भूमिधरः श्रीमान् बलिना तेन पीडितः।
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥ ५.५६.४९ ॥
那座光辉的山岳被那位强大者压迫,虽有树木与山峰高耸,仍潜入了下界罗萨塔拉。
5.56.50
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः।
धरण्यां समतां यातः स बभूव धराधरः ॥ ५.५६.५० ॥
那座宽十由旬、高三十由旬的山,与大地齐平了;它成为了承载大地的“持地者”。
5.56.51
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥ ५.५६.५१ ॥
他想要轻松地跨越那可怖的咸水大海,来到波涛拍打的岸边,猴子哈里便跃向天空。