蚁垤《罗摩衍那》 · 篇 5.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.57.1
आप्लुत्य च महावेगः पक्षवानिव पर्वतः।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ५.५७.१ ॥
他以极快的速度跃起,如同长翅的山岳,飞越那些被蛇、夜叉和乾闼婆唤醒的莲花与睡莲之上。
5.57.2
स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्।
तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम् ॥ ५.५७.२ ॥
他穿行于天空之中——那里有明月与月下睡莲,有太阳与迦兰陀鸭,有tiṣya与śravaṇa星宿与迦丹婆鸟,有云苔与草地,美丽而吉祥。
5.57.3
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्।
ऐरावतमहाद्वीपं स्वातीहंसविलासितम् ॥ ५.५७.३ ॥
在天空中,有富婆陀的大鱼,大行星赤身(火星),大洲爱罗婆多,以及斯瓦提的天鹅嬉戏。
5.57.4
वातसंघातजालोर्मिचन्द्रांशुशिशिराम्बुमत्।
हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥ ५.५७.४ ॥
哈奴曼毫不疲倦,穿越了天空之海,那里的水因月光而清凉,波浪如同聚集的风织成的网。
5.57.5
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्।
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ ५.५७.५ ॥
仿佛吞没天空,掠过星辰之主(月亮),并连同星宿与日轮一起夺取天空。
5.57.6
अपारमपरिश्रान्तश्चाम्बुधिं समगाहत।
हनूमान् मेघजालानि विकर्षन्निव गच्छति ॥ ५.५७.६ ॥
哈奴曼不知疲倦,投身于无边的海洋并穿越而过,前行时仿佛拨开了云网。
5.57.7
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ ५.५७.७ ॥
淡白泛红、深蓝与茜红、青绿泛红的巨大云团闪耀起来。
5.57.8
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः।
प्रकाशश्चाप्रकाशश्च चन्द्रमा इव दृश्यते ॥ ५.५७.८ ॥
他时而进入云团,时而再次钻出,时隐时现,如同月亮一般可见。
5.57.9
विविधाभ्रघनापन्नगोचरो धवलाम्बरः।
दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे ॥ ५.५७.९ ॥
那位身着白衣的英雄穿行于各色浓密的云团之间,身形时隐时现,在天空中如月亮般闪耀。
5.57.10
तार्क्ष््यायमाणो गगने स बभौ वायुनन्दनः।
दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ॥ ५.५७.१० ॥
风神之子在天空中如金翅鸟般闪耀,劈开云团,又一次次从中飞跃而出。
5.57.11
नदन् नादेन महता मेघस्वनमहास्वनः।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ ५.५७.११ ॥
以如云雷般的巨大吼声咆哮,斩杀了最勇猛的罗刹,并宣扬了自己的名号。
5.57.12
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्।
अर्दयित्वा महावीरान् वैदेहीमभिवाद्य च ॥ ५.५७.१२ ॥
使城市陷入混乱,惊吓了罗波那,折磨了众位大勇士,并恭敬地向毗提诃公主致礼。
5.57.13
आजगाम महातेजाः पुनर्मध्येन सागरम्।
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ ५.५७.१३ ॥
大光明而勇猛的他再次穿越大海中央而来,触及山王苏那跋之后继续前行。
5.57.14
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागमत्।
स किंचिदारात् सम्प्राप्तः समालोक्य महागिरिम् ॥ ५.५७.१४ ॥
如箭离弦,以极大的速度靠近;远远望见那座大山,便来到了那里。
5.57.15
महेन्द्रं मेघसंकाशं ननाद स महाकपिः।
स पूरयामास कपिर्दिशो दश समन्ततः ॥ ५.५७.१५ ॥
在如云的大摩罗耶山(摩亨德拉山)上,那大猴发出吼声;这猴子从四面八方充满了十方。
5.57.16
नदन् नादेन महता मेघस्वनमहास्वनः।
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ॥ ५.५७.१६ ॥
以如云中雷鸣般的巨大声音吼叫,渴望见到朋友,他来到了那个地方。
5.57.17
ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत्।
तस्य नानद्यमानस्य सुपर्णाचरिते पथि ॥ ५.५७.१७ ॥
他发出极大的吼声,也摆动了尾巴;当他在鸟神金翅鸟所行的那条道路上吼叫时,
5.57.18
फलतीवास्य घोषेण गगनं सार्कमण्डलम्।
ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः ॥ ५.५७.१८ ॥
他的吼声仿佛使天空连同日轮都要裂开。而那海洋北岸的那些大力者——
5.57.19
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः।
महतो वायुनुन्नस्य तोयदस्येव निःस्वनम्।
शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ ५.५७.१९ ॥
先前就坐着、渴望见到风神之子的勇猛猴众,此时听到了那如被风吹动的巨大云团轰鸣般的声响——那是由哈努曼双腿的力量所发出的呼喊。
5.57.20
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः।
वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥ ५.५७.२० ॥
那些心怀忧伤的林中猴众,都听到了猴王那如雨云雷鸣般的吼声。
5.57.21
निशम्य नदतो नादं वानरास्ते समन्ततः।
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ ५.५७.२१ ॥
听到那吼声,众猴从四面八方都急切起来,渴望见到自己的朋友。
5.57.22
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः।
उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥ ५.५७.२२ ॥
猴中之最的遮婆陀,心中充满爱与喜悦,召唤众猴,说出了这些话。
5.57.23
सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः।
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ ५.५७.२३ ॥
哈努曼已经完全完成了使命,这毫无疑问。未完成使命之人的吼声,不会是这样的。
5.57.24
तस्य बाहूरुवेगं च निनादं च महात्मनः।
निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः ॥ ५.५७.२४ ॥
众猴听到那大德者的臂力、腿力与吼声,欢喜地四处跃起。
5.57.25
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च।
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ ५.५७.२५ ॥
他们欣喜若狂,渴望见到哈努曼,从一座山峰跳到另一座山峰,从一个山顶到另一个山顶。
5.57.26
ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः।
वासांसि च प्रकाशानि समाविध्यन्त वानराः ॥ ५.५७.२६ ॥
猴子们欣喜地站在树梢,抓着树枝,挥动着鲜亮的衣服。
5.57.27
गिरिगह्वरसंलीनो यथा गर्जति मारुतः।
एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ ५.५७.२७ ॥
就像隐藏在山洞中的风呼啸一样,强大的风之子哈努曼吼叫起来。
5.57.28
तमभ्रघनसंकाशमापतन्तं महाकपिम्।
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ ५.५७.२८ ॥
看到这位大猴如浓云般降下,众猴便合掌恭立。
5.57.29
ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः।
निपपात गिरेस्तस्य शिखरे पादपाकुले ॥ ५.५७.२९ ॥
于是这位迅捷的英雄,如山一般的大猴,落在了那座树木繁茂的山峰之上。
5.57.30
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे।
छिन्नपक्ष इवाकाशात् पपात धरणीधरः ॥ ५.५७.३० ॥
他满心欢喜,在一条美丽的山溪旁从天空坠落,犹如被斩断双翼的山峰。
5.57.31
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः।
हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥ ५.५७.३१ ॥
于是众位猴中之雄,心怀欢喜,围绕伟大的哈努曼,站立在他身边。
5.57.32
परिवार्य च ते सर्वे परां प्रीतिमुपागताः।
प्रहृष्टवदनाः सर्वे तमागतमुपागमन् ॥ ५.५७.३२ ॥
众人围绕着他,都获得了无上的喜悦;他们面带喜色,都走近了归来的他。
5.57.33
उपायनानि चादाय मूलानि च फलानि च।
प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ ५.५७.३३ ॥
他们取来根茎与果实作为供奉,以礼相待猴中之最,风神之子。
5.57.34
विनेदुर्मुदिताः केचित् केचित् किलकिलां तथा।
हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ॥ ५.५७.३४ ॥
有的欢喜地吼叫,有的发出欢呼声;猴中之雄欢欣雀跃,带来了树枝。
5.57.35
हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा।
कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ ५.५७.३५ ॥
于是大猴哈努曼向以遮婆伐那为首的长老们,以及少王子安伽陀行礼。
5.57.36
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः।
दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ५.५७.३६ ॥
哈努曼受到那两位的尊敬,也令众猴欢喜,这位值得敬重的英勇者简略地禀告道:「我已见到了女神。」
5.57.37
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्।
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥ ५.५७.३७ ॥
于是他握着波林之子的手,在摩亨德拉山一处可爱的林地坐下。
5.57.38
हनूमानब्रवीत् पृष्टस्तदा तान् वानरर्षभान्।
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥ ५.५७.३८ ॥
被问及时,哈努曼对那些猴族的雄牛般的首领说:“住在无忧林中的遮那伽之女已被看见。”
5.57.39
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता।
एकवेणीधरा बाला रामदर्शनलालसा ॥ ५.५७.३९ ॥
这位无可指责的女子被极为可怖的罗刹女看守,她仅束一根发辫,渴望见到罗摩。
5.57.40
उपवासपरिश्रान्ता मलिना जटिला कृशा।
ततो दृष्टेति वचनं महार्थममृतोपमम् ॥ ५.५७.४० ॥
因绝食而疲惫、憔悴、蓬发消瘦;于是这“已被看见”的话,意义重大,如同甘露——
5.57.41
निशम्य मारुतेः सर्वे मुदिता वानराभवन्।
क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ॥ ५.५७.४१ ॥
众猴听到摩如底之子的话,皆欢喜;有的吼叫,有的呼喊,有的大力者咆哮如雷。
5.57.42
चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे।
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ॥ ५.५७.४२ ॥
有的发出“咭咭”的欢叫,有的回应咆哮;一些猴中的象尾巴高举,欢喜不已。
5.57.43
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः।
अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम् ॥ ५.५७.४३ ॥
有些猴子用力摇动它们长而弯曲伸展的尾巴,另一些则望向光辉的猴中之最——哈奴曼。
5.57.44
आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः।
उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ॥ ५.५७.४४ ॥
他们欢欣地跃上山峰,触碰哈奴曼;这时先前发言的angada对哈奴曼说道。
5.57.45
सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्।
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ॥ ५.५७.४५ ॥
在所有英勇的猴子之中,你的话无与伦比;猴子啊,论勇气与力量,无人能与你相比。
5.57.46
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः।
जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ॥ ५.५७.४६ ॥
你跃过广阔的大海又返回了,猴中之最啊,唯独你是赐予我们生命的人。
5.57.47
त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह।
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ॥ ५.५७.४७ ॥
凭你的恩德,我们将完成使命,与罗伽瓦重逢。啊,你对主人的忠诚!啊,你的勇力!啊,你的坚毅!
5.57.48
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी।
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ॥ ५.५७.४८ ॥
幸而你见到了光荣的女神、罗摩的妻子;幸而迦恭特之子将摆脱因与悉多分离而生的悲伤。
5.57.49
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः।
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥ ५.५७.४९ ॥
于是欢喜的猴子们围绕着安伽陀、哈努曼和遮巴梵,来到宽阔的岩石上。
5.57.50
उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते।
श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ ५.५७.५० ॥
那些猴中的精英坐在山上宽阔的岩石上,想听听跨越大海的经过。
5.57.51
दर्शनं चापि लङ्कायाः सीताया रावणस्य च।
तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ॥ ५.५७.५१ ॥
为了听闻看见楞伽、悉多与罗波那的经过,众猴都合掌站立,面向哈努曼的脸。
5.57.52
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५.५७.५२ ॥
光辉的安伽陀站在那里,被众多猴子环绕,如天上诸神侍奉天帝一般。
5.57.53
हनूमता कीर्तिमता यशस्विना
तथाङ्गदेनाङ्गदनद्धबाहुना।
मुदा तदाध्यासितमुन्नतं मह-
न्महीधराग्रं ज्वलितं श्रियाभवत् ॥ ५.५७.५३ ॥
那座巨大山峰的高耸顶端,被名声显赫、光辉荣耀的哈努曼和臂戴臂钏的安伽陀欢喜地占据,闪耀着光辉。