Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.6.1

स निकामं विमानेषु विचरन् कामरूपधृक्।
विचचार कपिर्लङ्कां लाघवेन समन्वितः ॥ ५.६.१ ॥

他可随意变化形貌,在空中楼阁之间自由穿行,那只猴子以敏捷之姿游走于楞伽城中。

5.6.2

आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ ५.६.२ ॥

这位光辉的使者来到罗刹王的居所,它被一道如太阳颜色、闪闪发光的围墙环绕。

5.6.3

रक्षितं राक्षसैर्भीमैः सिंहैरिव महद् वनम्।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ५.६.३ ॥

这座宫殿由凶猛的罗刹把守,犹如被狮子守护的大森林;猴中之象仔细观察着宫殿,光彩照人。

5.6.4

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ ५.६.४ ॥

其四周环绕着镶嵌白银、饰以黄金的精美门楼,有多样的庭院与华丽的门户。

5.6.5

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५.६.५ ॥

此处驻守着骑在象背上的大象官、疲惫不倦的勇士,以及拉着战车、不可征服的骏马。

5.6.6

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतीः।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ५.६.६ ॥

此处总有各色战车往来,车声隆隆,车甲作狮虎之形,镶嵌象牙、黄金与白银。

5.6.7

बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम्।
महारथसमावापं महारथमहासनम् ॥ ५.६.७ ॥

此殿堂装满众多珍宝,饰以极为珍贵的座席,车驾众多,并为大车将设有宏大的座椅。

5.6.8

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ ५.६.८ ॥

四面八方都充满了数以千计、种类繁多、极其壮美的景致,以及各式各样的鹿与鸟。

5.6.9

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ५.६.९ ॥

由训练有素的边境守卫与罗刹妥善守护,四面八方都充满了身份尊贵、品貌出众的女子。

5.6.10

मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्।
वराभरणसंह्रादैः समुद्रस्वननिःस्वनम् ॥ ५.६.१० ॥

这里是罗刹之王的居所,欢乐的女子中有如珍宝者;精美饰物的叮当之声,回荡如海潮的轰鸣。

5.6.11

तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः।
महाजनसमाकीर्णं सिंहैरिव महद् वनम् ॥ ५.६.११ ॥

那座宫殿具有王者的威仪,散发着上好檀香的芬芳,挤满了众多人群,如同布满狮子的大森林。

5.6.12

भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्।
नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा ॥ ५.६.१२ ॥

这里回荡着大鼓与小鼓的声音,响彻海螺的鸣声;每日受人供奉,在节庆之日备受尊崇,并始终被罗刹们敬拜。

5.6.13

समुद्रमिव गम्भीरं समुद्रसमनिःस्वनम्।
महात्मनो महद् वेश्म महारत्नपरिच्छदम् ॥ ५.६.१३ ॥

深邃如大海,声响如同大海的,是那位大德者的宏伟宅邸,饰以众多珍贵宝石。

5.6.14

महारत्नसमाकीर्णं ददर्श स महाकपिः।
विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ ५.६.१४ ॥

这位大猿看到那座宫殿,满布着大宝石,以其容貌光彩照人,充斥着象、马与战车。

5.6.15

लंकाभरणमित्येव सोऽमन्यत महाकपिः।
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ ५.६.१५ ॥

这位大猿认为那正是楞伽的装饰。哈努曼便在罗波那附近游走。

5.6.16

गृहाद् गृहं राक्षसानामुद्यानानि च सर्वशः।
वीक्षमाणोऽप्यसंत्रस्तः प्रासादांश्च चचार सः ॥ ५.६.१६ ॥

他从一个罗刹的屋子走到另一个屋子,四处观看园林,毫无惧色,也在宫殿之间游走。

5.6.17

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ ५.६.१७ ॥

他以极快的速度跳下,进入了普拉哈斯塔的住所;然后这位勇猛者又跳到了另一座宅邸,即摩訶波尔什瓦的府第。

5.6.18

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्।
विभीषणस्य च तथा पुप्लुवे स महाकपिः ॥ ५.६.१८ ॥

此后,这位大猿跳到了如云般的鸠婆羯罗的宅邸,同样也跳到了维毗沙那的宅邸。

5.6.19

महोदरस्य च तथा विरूपाक्षस्य चैव हि।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥ ५.६.१९ ॥

他也搜寻了摩诃陀罗、毗卢叉、电舌以及电鬘的居所。

5.6.20

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
शुकस्य च महावेगः सारणस्य च धीमतः ॥ ५.६.२० ॥

那位大猴同样跃过了金刚牙的居所;那位迅捷者又跃过了舍俱与智者娑罗那的居所。

5.6.21

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ ५.६.२१ ॥

随后,猴群的统帅前往因陀罗耆的居所,而群猴中最优秀者前往赞浮摩利与苏摩利的居所。

5.6.22

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ ५.६.२२ ॥

那位大猴跃过了光鬘与日敌的居所,同样也跃过了金刚身的居所。

5.6.23

धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ ५.६.२३ ॥

随后,风之子前往烟目与散帝的居所,又前往电形、怖畏、密与无密的居所。

5.6.24

शुकनाभस्य चक्रस्य शठस्य कपटस्य च।
ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः ॥ ५.६.२४ ॥

他搜寻了罗刹鸱颈、轮、欺、诈、短耳、牙与毛的居所。

5.6.25

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः।
विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च ॥ ५.६.२५ ॥

还有好战狂者、狂者、旗颈、骑手,以及电舌、双舌、象面等人的府邸。

5.6.26

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।
प्लवमानः क्रमेणैव हनुमान् मारुतात्मजः ॥ ५.६.२६ ॥

还有迦罗罗、毕舍遮与血眼等人的府邸。风之子哈奴曼依次跳跃前行。

5.6.27

तेषु तेषु महार्हेषु भवनेषु महायशाः।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ ५.६.२७ ॥

在那些珍贵的府邸中,这位大名远扬的大猴看见了那些富足者的财富。

5.6.28

सर्वेषां समतिक्रम्य भवनानि समन्ततः।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ ५.६.२८ ॥

他从四面绕过所有府邸,这位光辉者终于到达罗刹王的住所。

5.6.29

रावणस्योपशायिन्यो ददर्श हरिसत्तमः।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥ ५.६.२९ ॥

这位猴中最优者、猴中猛虎在四处行走时,看见罗波那身边沉睡的罗刹女们,她们的眼睛扭曲变形。

5.6.30

शूलमुद्गरहस्तांश्च शक्तितोमरधारिणः।
ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ ५.६.३० ॥

在那罗刹王的府中,他看见各种军队,手持长矛与铁棒,携带投枪与短矛。

5.6.31

राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान्।
रक्तान् श्वेतान् सितांश्चापि हरींश्चापि महाजवान् ॥ ५.६.३१ ॥

他看见身躯庞大的罗刹们,举着各种兵器,有红色、白色、黑色的,还有迅捷无比的猴子。

5.6.32

कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान्।
शिक्षितान् गजशिक्षायामैरावतसमान् युधि ॥ ५.६.३२ ॥

他看见血统高贵、外形俊美的大象,能够冲击敌方的象群,受过驯象之术的训练,在战场上与爱罗婆多相当。

5.6.33

निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ॥ ५.६.३३ ॥

在那座宅第里,他看见摧毁敌军的勇士,如同滴雨的云、奔流的山。

5.6.34

मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ ५.६.३४ ॥

那里有千队人马,声如雷鸣,在战场上敌人无法战胜,以阎浮河之金装饰。

5.6.35

हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ५.६.३५ ॥

在罗刹王罗波那的宅邸中,他看见了它们:以金网环绕,连绵不绝,如初升的太阳般光辉。

5.6.36

शिबिका विविधाकाराः स कपिर्मारुतात्मजः।
लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥ ५.६.३६ ॥

各式各样的轿子;那只猴子,风之子,看见了藤萝亭阁、奇妙的画廊与彩绘厅堂。

5.6.37

क्रीडागृहाणि चान्यानि दारुपर्वतकानि च।
कामस्य गृहकं रम्यं दिवागृहकमेव च ॥ ५.६.३७ ॥

那里有游乐的楼阁,还有如木制山峦般的其他建筑;有爱神迦摩的华美居所,也有白日休憩的房舍。

5.6.38

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।
स मन्दरसमप्रख्यं मयूरस्थानसंकुलम् ॥ ५.६.३८ ॥

他在罗刹王罗波那的宫殿中看到:那宫殿如曼陀罗山,布满了孔雀栖息之所。

5.6.39

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्।
अनन्तरत्ननिचयं निधिजालं समन्ततः।
धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव ॥ ५.६.३९ ॥

他看到那座宏伟的宫殿,满是旗杆;四周堆满无尽的宝石,遍布财宝之网;其构件稳固而精巧,如同众生之主毗沙门(俱毗罗)的居所。

5.6.40

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।
विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः ॥ ५.६.४० ॥

那座宫殿因宝石的光辉与罗波那的威光而熠熠生辉,如同太阳以光芒照耀。

5.6.41

जाम्बूनदमयान्येव शयनान्यासनानि च।
भाजनानि च शुभ्राणि ददर्श हरियूथपः ॥ ५.६.४१ ॥

猴群之主看到了用纯净的閻浮檀金制成的床榻与座椅,还有闪亮的器皿。

5.6.42

मध्वासवकृतक्लेदं मणिभाजनसंकुलम्।
मनोरममसम्बाधं कुबेरभवनं यथा ॥ ५.६.४२ ॥

沾满蜂蜜与美酒,宝器盈满,令人心悦而宽敞,如同毗沙门的宫殿。

5.6.43

नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च।
मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम् ॥ ५.६.४३ ॥

宅邸中回荡着脚镯的叮当声、腰带的铃响,以及用手掌敲击的鼓声。

5.6.44

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्।
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ॥ ५.६.४४ ॥

哈奴曼走进了这座大宅,它与众多楼阁相连,聚集着数百位如珠宝般的女子,庭院布置得井然有序。