蚁垤《罗摩衍那》 · 篇 5.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.61.1
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ ५.६१.१ ॥
于是,林中的猴众接受了熊王遮婆梵的话:以安伽陀为首的英雄们,以及大猴哈努曼。
5.61.2
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः।
महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः ॥ ५.६१.२ ॥
于是众猴欢喜,以风之子为首,从摩呵因陀罗山顶腾身跃起,诸猴中的俊杰纷纷跳跃而出。
5.61.3
मेरुमन्दरसंकाशा मत्ता इव महागजाः।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ ५.६१.३ ॥
他们如须弥山与曼陀罗山一般,如癫狂的大象,身躯巨大、力量雄壮,仿佛遮蔽了天空。
5.61.4
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ५.६१.४ ॥
哈努曼为众生所敬重,自持克己,大力而迅疾,众猴仿佛以目光托起了他。
5.61.5
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५.६१.५ ॥
他们决心完成罗怙之子的使命、赢得至高的荣誉;因行事成功而目的已达,于是意气昂扬。
5.61.6
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ ५.६१.६ ॥
众猴皆渴望传来喜讯,皆乐于征战,皆决意为罗摩报仇,个个都是心志高远的英雄。
5.61.7
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः।
नन्दनोपममासेदुर्वनं द्रुमशतायुतम् ॥ ५.६१.७ ॥
这些林中的猴子在空中跳跃,来到了一片如同难陀园、拥有数十万棵树木的森林。
5.61.8
यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ५.६१.८ ॥
那片名为蜜园(Madhuvana)的森林,由须羯哩婆妥善守护,对一切生灵都不可侵犯,又令一切生灵的心为之倾倒。
5.61.9
यद् रक्षति महावीरः सदा दधिमुखः कपिः।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ५.६१.९ ॥
这片林子始终由大英雄、猴子达提穆佳守护;他是猴王中的尊者、大心者须羯哩婆的舅父。
5.61.10
ते तद् वनमुपागम्य बभूवुः परमोत्कटाः।
वानरा वानरेन्द्रस्य मनःकान्तं महावनम् ॥ ५.६१.१० ॥
猴子们来到那片森林,个个欢欣雀跃;那是令猴王心生喜爱的大森林。
5.61.11
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ५.६१.११ ॥
于是,那些欣喜的猴子望见这片大蜜林,个个毛色如蜜般黄褐,便向王子(安伽陀)讨要蜂蜜。
5.61.12
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ ५.६१.१२ ॥
于是王子(安伽陀)尊敬以耆比凡为首的老猴们,准许他们享用蜂蜜。
5.61.13
ते निसृष्टाः कुमारेण धीमता वालिसूनुना।
हरयः समपद्यन्त द्रुमान् मधुकराकुलान् ॥ ५.६१.१३ ॥
那些猴子被智慧的瓦利之子王子释放后,便朝着满是蜜蜂的树木奔去。
5.61.14
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च।
जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः ॥ ५.६१.१४ ॥
他们吃着芳香的根茎和果实,个个欢欣鼓舞,因沉醉而变得狂放不羁。
5.61.15
ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः।
मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ॥ ५.६१.१५ ॥
于是,得到许可后,那些林中的猴子个个欢喜雀跃,四处舞蹈起来。
5.61.16
गायन्ति केचित् प्रहसन्ति केचि-
न्नृत्यन्ति केचित् प्रणमन्ति केचित्।
पतन्ति केचित् प्रचरन्ति केचित्
प्लवन्ति केचित् प्रलपन्ति केचित् ॥ ५.६१.१६ ॥
有的歌唱,有的大笑,有的起舞,有的叩拜,有的跌倒,有的四处游荡,有的跳跃,有的胡言乱语。
5.61.17
परस्परं केचिदुपाश्रयन्ति
परस्परं केचिदतिब्रुवन्ति।
द्रुमाद् द्रुमं केचिदभिद्रवन्ति
क्षितौ नगाग्रान्निपतन्ति केचित् ॥ ५.६१.१७ ॥
有的彼此依偎,有的彼此嘲讽对语;有的从一棵树奔向另一棵树,有的从山峰之巅跌落在地。
5.61.18
महीतलात् केचिदुदीर्णवेगा
महाद्रुमाग्राण्यभिसम्पतन्ति।
गायन्तमन्यः प्रहसन्नुपैति
हसन्तमन्यः प्ररुदन्नुपैति ॥ ५.६१.१८ ॥
有的从地面奋力跃起,扑向大树的树梢;有的走向歌唱者时在笑,有的走向欢笑者时却在哭。
5.61.19
तुदन्तमन्यः प्रणदन्नुपैति
समाकुलं तत् कपिसैन्यमासीत्।
न चात्र कश्चिन्न बभूव मत्तो
न चात्र कश्चिन्न बभूव दृप्तः ॥ ५.६१.१९ ॥
另一些猴子一边击打他者,一边大声吼叫着上前。那支猴军陷入极大的混乱。那里没有一个不是醉意昏沉的,也没有一个不是骄傲自负的。
5.61.20
ततो वनं तत् परिभक्ष्यमाणं
द्रुमांश्च विध्वंसितपत्रपुष्पान्।
समीक्ष्य कोपाद् दधिवक्त्रनामा
निवारयामास कपिः कपींस्तान् ॥ ५.६१.२० ॥
那时,看到那片森林正被摧毁,树木的叶子和花朵都已凋零,名为达提婆克特罗的猴子怒火中烧,制止了那些猴子。
5.61.21
स तैः प्रवृद्धैः परिभर्त्स्यमानो
वनस्य गोप्ता हरिवृद्धवीरः।
चकार भूयो मतिमुग्रतेजा
वनस्य रक्षां प्रति वानरेभ्यः ॥ ५.६१.२१ ॥
尽管受到那些强大猴子的威胁,这位守护森林的英勇老猴,怀着猛烈的光辉,再次坚定决心要保护森林,对抗那些猴子。
5.61.22
उवाच कांश्चित् परुषाण्यभीत-
मसक्तमन्यांश्च तलैर्जघान।
समेत्य कैश्चित् कलहं चकार
तथैव साम्नोपजगाम कांश्चित् ॥ ५.६१.२२ ॥
他对一些不畏惧的猴子说了严厉的话,又毫不节制地用手掌打其他猴子。他与一些猴子相遇并发生争吵,同样也有一些猴子他以和解的言语前去接近。
5.61.23
स तैर्मदादप्रतिवार्यवेगै-
र्बलाच्च तेन प्रतिवार्यमाणैः।
प्रधर्षणे त्यक्तभयैः समेत्य
प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ ५.६१.२३ ॥
在醉意之中,那些力量不可阻挡的猴子,以及被他们强行阻止的他,无所畏惧地在攻击中聚集起来,他被拖拽着前行,而不顾其过错。
5.61.24
नखैस्तुदन्तो दशनैर्दशन्त-
स्तलैश्च पादैश्च समापयन्तः।
मदात् कपिं ते कपयः समन्ता-
न्महावनं निर्विषयं च चक्रुः ॥ ५.६१.२४ ॥
群猴因狂怒,以指甲撕扯,以牙齿啃咬,以手掌和双脚击打,从四面八方包围了那只猴子(哈努曼),使大森林变得荒芜空寂。