Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.63.1

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ ५.६३.१ ॥

此时猴中之雄者见这猴子头朝下倒伏,心中惶惶,便说了这些话。

5.63.2

उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम।
अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम् ॥ ५.६३.२ ॥

起来,起来!你为何跪倒在我脚下?我将赐你无畏;请据实说来。

5.63.3

किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद् वक्तुमर्हसि।
कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ५.६३.३ ॥

你如此惶急,所为何事?把该说的全都说来。猴子,蜜林一切可安好?我想听听。

5.63.4

स समाश्वासितस्तेन सुग्रीवेण महात्मना।
उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ५.६३.४ ॥

得到大德的须羯哩婆的安慰,大智的蜜颊起身说出了这些话。

5.63.5

नैवर्क्षरजसा राजन् न त्वया न च वालिना।
वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः ॥ ५.६३.५ ॥

大王啊,蜜林并非被熊族所毁,也非你所毁,更非婆黎所毁;那片先前赐予你的林苑,是被猴子们毁掉的。

5.63.6

न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः।
अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च ॥ ५.६३.६ ॥

我曾阻止了所有人,包括这些林中游荡的猴子;可他们不理会我,欢喜地吃吃喝喝。

5.63.7

एभिः प्रधर्षणायां च वारितं वनपालकैः।
मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः ॥ ५.६३.७ ॥

主人啊,虽然守林人在袭击时加以阻止,这些林中居民却不顾我,仍然大吃特吃。

5.63.8

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे।
निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि ॥ ५.६३.८ ॥

有些人在此把剩下的扔掉,另一些人继续吃;被阻止时,他们都皱起眉头以示不满。

5.63.9

इमे हि संरब्धतरास्तदा तैः सम्प्रधर्षिताः।
निवार्यन्ते वनात् तस्मात् क्रुद्धैर्वानरपुङ्गवैः ॥ ५.६३.९ ॥

这些人当时遭到他们的攻击,更加愤怒;因此,他们被愤怒的猴中俊杰从森林中驱逐。

5.63.10

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः।
संरक्तनयनैः क्रोधाद्धरयः सम्प्रधर्षिताः ॥ ५.६३.१० ॥

于是,那众多眼睛因愤怒而通红的英勇猴子,猴中之牛,怒不可遏地攻击了那些猴子。

5.63.11

पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः।
प्रकृष्टाश्च तदा कामं देवमार्गं च दर्शिताः ॥ ५.६३.११ ॥

有些人被手打死,有些人被膝盖撞伤;随后,任意拖拽,向他们展示了天神之路。

5.63.12

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि।
कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते ॥ ५.६३.१२ ॥

这些英雄就这样被杀死了,而您,主人,就在此地;整个蜜林正任由他们肆意吞食。

5.63.13

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्।
अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ५.६३.१३ ॥

当猴王中的雄牛须佉哩婆被如此告知时,智慧超群、能杀敌中英雄的罗什曼那向他发问。

5.63.14

किमयं वानरो राजन् वनपः प्रत्युपस्थितः।
किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ ५.६३.१४ ॥

国王啊!这位守林的猴子为何来到面前?他因何事、为何目的、悲伤地说出了这些话?

5.63.15

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ ५.६३.१५ ॥

伟大的罗什曼那如此询问后,善于言辞的须佉哩婆对罗什曼那说了这些话。

5.63.16

आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ ५.६३.१६ ॥

尊贵的罗什曼那啊!英雄猴子达底穆迦说,以安伽达为首的诸位英勇的猴子已经吃掉了蜂蜜。

5.63.17

नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः।
वनं यदभिपन्नास्ते साधितं कर्म तद् ध्रुवम् ॥ ५.६३.१७ ॥

未成事之人不会有这样的越轨。他们已抵达林中,因此他们必定已经完成了那件事。

5.63.18

वारयन्तो भृशं प्राप्ताः पाला जानुभिराहताः।
तथा न गणितश्चायं कपिर्दधिमुखो बली ॥ ५.६३.१८ ॥

守林者们拼命想阻止他们,结果被膝盖击打;他们甚至没有把这位强壮的猴子达底穆迦放在眼里。

5.63.19

पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम्।
दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ ५.६३.१९ ॥

这位林苑之主是我们亲自任命的。女神确是被哈努曼所见,毫无疑问,并非他人。

5.63.20

न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः।
कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गवे ॥ ५.६३.२० ॥

完成此事并无他因。事业之成在于哈努曼,决断也系于这位最优秀的猴王。

5.63.21

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्।
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ॥ ५.६३.२१ ॥

若贤哲的竖比多为领袖,且大力的安伽达在场,决心、勇力与学识便也稳固确立。

5.63.22

हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा।
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥ ५.६३.२२ ॥

哈努曼本人便是那里的主事者,别无他途。以安伽达为首的英雄们确已摧毁了蜜林。

5.63.23

विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः।
आगतैश्चाप्रधृष्यं तद्धतं मधुवनं हि तैः ॥ ५.६३.२३ ॥

诸位猴中之最,搜寻南方归来后,毁灭了那不可侵犯的蜜林。

5.63.24

धर्षितं च वनं कृत्स्नमुपयुक्तं तु वानरैः।
पातिता वनपालास्ते तदा जानुभिराहताः ॥ ५.६३.२४ ॥

众猴攻入整片林苑并尽情享用;那时林中守卫被膝击击倒在地。

5.63.25

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ ५.६३.२५ ॥

为此目的,一位言语甜美者来到此处,名叫达提牟佳,是一位以勇武闻名的猴子。

5.63.26

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः।
अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥ ५.६३.२६ ॥

悉多已被看见,请如实看,大臂的萨尤米特里啊。正如众猴前往饮蜜,他们已到达那里。

5.63.27

न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ ५.६३.२७ ॥

若未见到维代希,人中之杰啊,那些获得神授恩典、名闻遐迩的林中猴众,绝不会去毁坏这片神圣的森林。

5.63.28

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः।
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ॥ ५.६३.२८ ॥

于是,正直的罗什曼那与罗怙之后一同,听到从须揭哩婆口中说出、悦耳动听的话语,极为欢喜。

5.63.29

प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः।
श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहृष्य च ॥ ५.६३.२९ ॥

具大名望的罗摩与罗什曼那极为欢喜;听到达提牟佳如此的话,须揭哩婆也欢喜起来。

5.63.30

वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत।
प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः ॥ ५.६३.३० ॥

须揭哩婆又对护林者说道:“那些完成了此事、享用了这片森林的人,我对他们感到欣喜。”

5.63.31

धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्।
गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि।
शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन् ॥ ५.६३.३१ ॥

他们所犯的冒犯与所作所为是可以原谅的。你快去亲自守护蜜林,立即派遣以哈努曼为首的所有猴子。

5.63.32

इच्छामि शीघ्रं हनुमत्प्रधानान्-
शाखामृगांस्तान् मृगराजदर्पान्।
प्रष्टुं कृतार्थान् सह राघवाभ्यां
श्रोतुं च सीताधिगमे प्रयत्नम् ॥ ५.६३.३२ ॥

我想尽快询问那些以哈努曼为首、如狮子般骄傲的树栖猴子,并与两位罗怙族王子一同,听取那些已完成使命者讲述寻找悉多所作的努力。

5.63.33

प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ
दृष्ट्वा सिद्धार्थौ वानराणां च राजा।
अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा
बाह्वोरासन्नामतिमात्रं ननन्द ॥ ५.६३.३३ ॥

见两位王子目光因喜爱而睁大、十分欢欣,二人皆已成功,又从他们欢喜的身形知晓事情已成,猴王看到他们走近自己的臂膀,极为欢喜。