Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.66.1

एवमुक्तो हनुमता रामो दशरथात्मजः।
तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः ॥ ५.६६.१ ॥

ハヌマーンにこう言われ、ダシャラタの子ラーマは宝珠を胸に当て、ラクシュマナとともに泣いた。

5.66.2

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ ५.६६.२ ॥

その優れた宝珠を見て、悲しみにやつれたラーガヴァは涙に満ちた目でスグリーヴァにこう言った。

5.66.3

यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला।
तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात् ॥ ५.६६.३ ॥

子牛への愛情から乳を流す慈しみ深い牝牛のように、この優れた宝珠を見て私の心も溢れ出している。

5.66.4

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे।
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ५.६६.४ ॥

この宝石は義父がヴァイデーヒーに与えたものだ。花嫁の時に頭に結ばれると、ひときわ輝いた。

5.66.5

अयं हि जलसम्भूतो मणिः प्रवरपूजितः।
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५.६६.५ ॥

水から生まれ、非常に尊ばれたこの宝珠は、祭祀で大いに満足した賢明なシャクラ(インドラ)が与えたものだ。

5.66.6

इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्।
अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ५.६६.६ ॥

この優れた宝珠を見て、父に会ったかのように。優しき者よ、今日私はヴィデーハの王と、あの力ある方を思い出した。

5.66.7

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः।
अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ५.६६.७ ॥

この宝玉は、いとしい人の頭上で輝いていた。今日これを見て、まるで彼女その人を得たかのように思える。

5.66.8

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः।
परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥ ५.६६.८ ॥

やさしき者よ、ヴァイデーヒーのシーターは何と言ったのか。何度でも話してくれ。死に瀕した者に水を注ぐように、君の言葉の水で私を潤してくれ。

5.66.9

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्।
मणिं पश्यामि सौमित्रे वैदेहीमागतां विना ॥ ५.६६.९ ॥

ソーミトリよ、これより悲しいことがあろうか。水から生まれたこの宝玉を見ているのに、ヴァイデーヒーがここにいないとは。

5.66.10

चिरं जीवति वैदेही यदि मासं धरिष्यति।
क्षणं वीर न जीवेयं विना तामसितेक्षणाम् ॥ ५.६६.१० ॥

もしヴァイデーヒーが一か月の間命を保てるなら、長く生きるだろう。勇士よ、黒い瞳のあの人なしには、私は一瞬たりとも生きられない。

5.66.11

नय मामपि तं देशं यत्र दृष्टा मम प्रिया।
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ५.६६.११ ॥

いとしい人が見られたその場所へ、私も連れて行ってくれ。彼女の知らせを受けたからには、一瞬たりともじっとしてはいられない。

5.66.12

कथं सा मम सुश्रोणी भीरुभीरुः सती तदा।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ ५.६६.१२ ॥

わが美しい腰の人、ひどく怯えつつも貞淑なあの人は、恐ろしく人を脅かす羅刹たちの真ん中で、今どうしているのだろうか。

5.66.13

शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः।
आवृतो वदनं तस्या न विराजति साम्प्रतम् ॥ ५.६६.१३ ॥

闇から解き放たれた秋の月が雲に覆われているように、今、彼女の顔は輝いていない。

5.66.14

किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे।
एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ ५.६६.१४ ॥

ハヌマーンよ、シーターは何と言ったのか。真実を私に告げよ。病人が薬で生きるように、これによって私は生きよう。

5.66.15

मधुरा मधुरालापा किमाह मम भामिनी।
मद्विहीना वरारोहा हनुमन् कथयस्व मे।
दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी ॥ ५.६६.१५ ॥

甘く語る私の妃は何と言ったのか。私に別れた美しい腰のひとよ、ハヌマーンよ、私に告げよ。苦しみより大きな苦しみに至って、ジャーナキーはどうして生きているのか。