Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.67.1

एवमुक्तस्तु हनुमान् राघवेण महात्मना।
सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ ५.६७.१ ॥

偉大なるラーガヴァにこう言われ、ハヌマーンはシーターの言葉をすべてラーガヴァに報告した。

5.67.2

इदमुक्तवती देवी जानकी पुरुषर्षभ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ ५.६७.२ ॥

人中の雄よ、女神ジャーナキーはこう言いました。チトラクータでの以前の出来事こそが、実際にあったとおりの、その目印です。

5.67.3

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता।
वायसः सहसोत्पत्य विददार स्तनान्तरम् ॥ ५.६७.३ ॥

あなたと安らかに眠っていたジャーナキーが最初に起きました。すると一羽のカラスが突然飛んできて、彼女の乳房の間をつつきました。

5.67.4

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज।
पुनश्च किल पक्षी स देव्या जनयति व्यथा ॥ ५.६७.४ ॥

バラタの兄上よ、あなたは交代で女神の膝の上で眠っていました。そしてまたあの鳥が女神に苦痛を与えたのです。

5.67.5

ततः पुनरुपागम्य विददार भृशं किल।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५.६७.५ ॥

するとカラスが戻ってきて、彼女を激しくつつきました。そして彼女があなたを起こすと、あなたは血まみれになっていました。

5.67.6

वायसेन च तेनैवं सततं बाध्यमानया।
बोधितः किल देव्या त्वं सुखसुप्तः परंतप ॥ ५.६७.६ ॥

そのカラスに絶えずこのように苦しめられた女神は、安らかに眠っていたあなたを起こしたのです、敵を焼く者よ。

5.67.7

तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे।
आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान् ॥ ५.६७.७ ॥

大いなる腕の方よ、彼女の両乳の間が裂けているのを見て、あなたは蛇のように怒り、そのとき次の言葉を語った。

5.67.8

नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम्।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ५.६७.८ ॥

臆病な人よ、誰が爪先であなたの両乳の間にこの傷を付けたのか。怒れる五つの口を持つ蛇と戯れているのは誰か。

5.67.9

निरीक्षमाणः सहसा वायसं समुदैक्षथाः।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ५.६७.९ ॥

突然見やって、あなたはその烏を注意深く見つめた。血に染まった鋭い爪を持ち、それは彼女の正面に立っていた。

5.67.10

सुतः किल स शक्रस्य वायसः पततां वरः।
धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ ५.६७.१० ॥

その烏は実にインドラの息子で、鳥の中で最も優れていた。大地の中を速やかに通り抜け、その速さは風に等しかった。

5.67.11

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः।
वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर ॥ ५.६७.११ ॥

そのとき、大いなる腕の方よ、怒りに赤く染まった目で、あなたはその烏に残酷な決意を向けた。知者の中で最も優れた方よ。

5.67.12

स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः।
स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम् ॥ ५.६७.१२ ॥

クシャ草の床から取り上げ、あなたはそれをブラフマーストラで放った。それは死の火のように燃え上がり、その鳥に向かって炎を上げた。

5.67.13

स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ ५.६७.१३ ॥

そこであなたはその烏に燃える吉祥草を投げた。すると燃える吉祥草は烏を追った。

5.67.14

भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः।
त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति ॥ ५.६७.१४ ॥

怯え、すべての神々に見捨てられたその烏は三界を巡ったが、守り手を見つけられなかった。

5.67.15

पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम।
त्वं तं निपतितं भूमौ शरण्यः शरणागतम् ॥ ५.६७.१५ ॥

敵を征服する者よ、彼は再びあなたのもとへ来た。庇護を求める者の守護者であるあなたは、地に倒れ庇護を求める彼を見た。

5.67.16

वधार्हमपि काकुत्स्थ कृपया परिपालयः।
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥ ५.६७.१६ ॥

カークツトの末裔よ、彼は殺されて当然であったが、あなたは慈悲によって彼を守った。ラーガヴァよ、武器を無効にすることはできない。ゆえにそうなったのだ。

5.67.17

भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।
राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च ॥ ५.६७.१७ ॥

あなたはその烏の右目を射抜いた。ラーマよ、烏はあなたと王ダシャラタに礼をして去った。

5.67.18

विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्।
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ॥ ५.६७.१८ ॥

そこで解放された烏は自分の住処へ帰った。このように、あなたは武器に通じた者の中で最もすぐれ、気概と徳を備えた者でもある。

5.67.19

किमर्थमस्त्रं रक्षःसु न योजयसि राघव।
न दानवा न गन्धर्वा नासुरा न मरुद्गणाः ॥ ५.६७.१९ ॥

ラーガヴァよ、なぜ羅刹たちに武器を用いないのですか。ダーナヴァでもなく、ガンダルヴァでもなく、アスラでもなく、マルドゥガナでもないのに。

5.67.20

तव राम रणे शक्तास्तथा प्रतिसमासितुम्।
तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः ॥ ५.६७.२० ॥

ラーマよ、戦場であなたに対抗できる者がいるでしょうか。力あるあなたが私のことで何か懸念を抱いているのなら……

5.67.21

क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः।
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः ॥ ५.६७.२१ ॥

鋭い矢で、戦場にてラーヴァナを速やかに討たせよ。あるいは兄の命を知った、敵を苦しめる者ラクシュマナがそうせよ。

5.67.22

स किमर्थं नरवरो न मां रक्षति राघवः।
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ ५.६७.२२ ॥

なぜあの人中の最上者ラーガヴァは私を守らないのか。あの二人の人中の虎は力があり、風と火に等しい威光を持つ。

5.67.23

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ॥ ५.६७.२३ ॥

神々にさえ打ち破れぬあの二人は、なぜ私を顧みないのか。私には何か大きな過ちがあるのだろう、疑いはない。

5.67.24

समर्थौ सहितौ यन्मां न रक्षेते परंतपौ।
वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम् ॥ ५.६७.२४ ॥

力があり共にいる、敵を苦しめる二人は、私を守らない。ヴァイデーヒーの哀れで巧みな言葉を聞いて……

5.67.25

पुनरप्यहमार्यां तामिदं वचनमब्रुवम्।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ ५.६७.२५ ॥

私は再びあの高貴な女性にこう言った。女神よ、ラーマはあなたへの悲しみから離れています。真実にかけて誓います。

5.67.26

रामे दुःखाभिभूते च लक्ष्मणः परितप्यते।
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ॥ ५.६७.२६ ॥

ラーマは悲しみに打ちのめされ、ラクシュマナも苦しんでいます。あなたはどうにか見つけられました。今は嘆くべき時ではありません。

5.67.27

अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि।
तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ ॥ ५.६७.२७ ॥

輝ける方よ、この瞬間にあなたは苦しみの終わりを見るでしょう。あの二人の王子、人中の虎、敵を焼き尽くす者たちです。

5.67.28

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।
हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥ ५.६७.२८ ॥

あなたを見て奮い立ち、あの二人はラン カーを灰にするでしょう。戦場で恐ろしいラーヴァナを親族もろとも討ち取って。

5.67.29

राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम्।
यत् तु रामो विजानीयादभिज्ञानमनिन्दिते ॥ ५.६७.२९ ॥

ラーガヴァは必ずやあなたを自らの都へ連れて行くでしょう。清らかな方よ、ラーマが認める証は何か教えてください。

5.67.30

प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि।
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ॥ ५.६७.३० ॥

彼に喜びを与えるその証を、あなたは渡すべきです。すると彼女は四方を見渡し、見事な編み髪の結び目をほどきました。

5.67.31

मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल।
प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय ॥ ५.६७.३१ ॥

力強き者よ、彼女は衣からそれを解いて、この宝玉を私に渡しました。ラグ族の愛しき方よ、あなたのために、この宝玉を両腕で受け取ってください。

5.67.32

शिरसा सम्प्रणम्यैनामहमागमने त्वरे।
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥ ५.६७.३२ ॥

頭を垂れて彼女に礼をし、私は帰ろうと急いだ。私が出発に意気込んでいるのを見て、その美しい肌の女性(シーター)は、

5.67.33

विवर्धमानं च हि मामुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी ॥ ५.६७.३३ ॥

私の意気が高まるのを見て、ジャナカの娘は、涙に濡れた顔で、悲しみに沈み、涙にむせぶ声で私に語りかけた。

5.67.34

ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता।
मामुवाच ततः सीता सभाग्योऽसि महाकपे ॥ ५.६७.३४ ॥

私の跳躍に動揺し、悲しみの激しさに打たれたシーターは、私に言った。大いなる猿よ、あなたは幸運だ。

5.67.35

यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम्।
लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम् ॥ ५.६७.३५ ॥

あなたは力強い腕を持つ、蓮華のような目のラーマを見るでしょう。また、力強い腕を持つ、私の栄光ある義弟ラクシュマナをも見るでしょう。

5.67.36

सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा।
पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दनि ॥ ५.६७.३६ ॥

シーターがこう言ったので、私もマイティリーに同じように言った。女神よ、ジャナカの娘よ、早く私の背に乗ってください。

5.67.37

यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्।
राघवं च महाभागे भर्तारमसितेक्षणे ॥ ५.६७.३७ ॥

大いなる幸いを持つ者よ、黒い瞳の方よ。今すぐ、スグリーヴァとラクシュマナとともに、あなたの夫ラーガヴァをお見せしましょう。

5.67.38

साब्रवीन्मां ततो देवी नैष धर्मो महाकपे।
यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥ ५.६७.३८ ॥

すると、その女神は私に言った。「大いなる猿よ、これは正しい行いではない。猿の中の最良の者よ、私が自らの意志であなたの背に乗るなどということは。」

5.67.39

पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा।
तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥ ५.६७.३९ ॥

勇士よ、以前その羅刹が私の体に触れたとき、私に何ができたでしょうか。私は時の力に押しひしがれていたのです。

5.67.40

गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ।
इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता ॥ ५.६७.४० ॥

「猿の中の虎よ、あの王の二人の御子のいるところへ行きなさい。」こう言って、彼女はまた伝言を託そうと身構えた。

5.67.41

हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् ॥ ५.६७.४१ ॥

ハヌマーンよ、獅子のような二人、ラーマとラクシュマナ、そして大臣たちとともにいるスグリーヴァ、その皆にあなたは私の安否を伝えなさい。

5.67.42

यथा च स महाबाहुर्मां तारयति राघवः।
अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि ॥ ५.६७.४२ ॥

この悲しみの海のような囚われから、あの大いなる腕を持つラーガヴァが私をどのように救い出されるのか、そのことをあなたは彼に伝えるべきです。

5.67.43

इदं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ५.६७.४३ ॥

ラーマのもとへ行き、私の激しい悲しみの奔流とこれら羅刹の脅しを伝えよ。猿の勇士よ、汝の道が吉祥であらんことを。

5.67.44

एतत् तवार्या नृप संयता सा
सीता वचः प्राह विषादपूर्वम्।
एतच्च बुद्ध्वा गदितं यथा त्वं
श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ५.६७.४४ ॥

王よ、自制した尊きシーターは悲しみをもってこの言葉を述べた。汝の言ったことを知り、シーターが無事で完全であると信じよ。