蚁垤《罗摩衍那》 · 篇 5.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.7.1
स वेश्मजालं बलवान् ददर्श
व्यासक्तवैदूर्यसुवर्णजालम्।
यथा महत्प्रावृषि मेघजालं
विद्युत्पिनद्धं सविहङ्गजालम् ॥ ५.७.१ ॥
这位大力者看见一片宫室相连,窗格以青金石和黄金交织,如雨季里被闪电缠绕的大片云团与飞鸟的群集。
5.7.2
निवेशनानां विविधाश्च शालाः
प्रधानशङ्खायुधचापशालाः।
मनोहराश्चापि पुनर्विशाला
ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ ५.७.२ ॥
他看见各处居所的厅堂,其中主要的是存放海螺、兵器与弓的厅堂;他还看见山峦般宫殿之上令人心醉的宽阔月台。
5.7.3
गृहाणि नानावसुराजितानि
देवासुरैश्चापि सुपूजितानि।
सर्वैश्च दोषैः परिवर्जितानि
कपिर्ददर्श स्वबलार्जितानि ॥ ५.७.३ ॥
猴子看见那些房屋,它们由种种财富获得,连天神与阿修罗也多加敬奉,没有任何缺陷,且是凭自身之力所得。
5.7.4
तानि प्रयत्नाभिसमाहितानि
मयेन साक्षादिव निर्मितानि।
महीतले सर्वगुणोत्तराणि
ददर्श लंकाधिपतेर्गृहाणि ॥ ५.७.४ ॥
他看见楞伽之主的那些房屋,精心布置,仿佛亲自由摩耶建造,在大地上的一切品质都最为卓越。
5.7.5
ततो ददर्शोच्छ्रितमेघरूपं
मनोहरं काञ्चनचारुरूपम्।
रक्षोऽधिपस्यात्मबलानुरूपं
गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५.७.५ ॥
随后他看见罗刹之主的最上宫殿,形如高耸的云,令人心醉,有着美丽的金色形态,与其自身之力相称,形貌无可比拟。
5.7.6
महीतले स्वर्गमिव प्रकीर्णं
श्रिया ज्वलन्तं बहुरत्नकीर्णम्।
नानातरूणां कुसुमावकीर्णं
गिरेरिवाग्रं रजसावकीर्णम् ॥ ५.७.६ ॥
如同天堂铺展于大地,光辉灿烂,镶嵌着许多宝石,覆盖着各种树木的花朵,又像尘土覆盖的山峰。
5.7.7
नारीप्रवेकैरिव दीप्यमानं
तडिद्भिरम्भोधरमर्च्यमानम्।
हंसप्रवेकैरिव वाह्यमानं
श्रिया युतं खे सुकृतं विमानम् ॥ ५.७.७ ॥
仿佛被众多女子映照而光辉闪耀,仿佛云彩被闪电所礼拜,仿佛被成群天鹅所承载,天空中一座制作精美、富丽堂皇的天车。
5.7.8
यथा नगाग्रं बहुधातुचित्रं
यथा नभश्च ग्रहचन्द्रचित्रम्।
ददर्श युक्तीकृतचारुमेघ-
चित्रं विमानं बहुरत्नचित्रम् ॥ ५.७.८ ॥
正如山峰被许多矿物点缀得色彩斑斓,天空被行星与月亮装点,他看见那辆天车,以精巧制作的美丽云纹和众多宝石装饰得五彩斑斓。
5.7.9
मही कृता पर्वतराजिपूर्णा
शैलाः कृता वृक्षवितानपूर्णाः।
वृक्षाः कृताः पुष्पवितानपूर्णाः
पुष्पं कृतं केसरपत्रपूर्णम् ॥ ५.७.९ ॥
大地被造成充满山脉;山岭被造成充满树木的华盖;树木被造成充满花朵的华盖;花朵被造成充满花蕊与花瓣。
5.7.10
कृतानि वेश्मानि च पाण्डुराणि
तथा सुपुष्पाण्यपि पुष्कराणि।
पुनश्च पद्मानि सकेसराणि
वनानि चित्राणि सरोवराणि ॥ ५.७.१० ॥
又造了白色的宫殿,也造了开满美丽花朵的莲池;再有带花蕊的莲花、五彩斑斓的森林与湖泊。
5.7.11
पुष्पाह्वयं नाम विराजमानं
रत्नप्रभाभिश्च विघूर्णमानम्।
वेश्मोत्तमानामपि चोच्चमानं
महाकपिस्तत्र महाविमानम् ॥ ५.७.११ ॥
大猴在那里看见一座名为花名的大天宫,光辉灿烂,宝石之光熠熠闪耀,高耸于最华美的殿宇之上。
5.7.12
कृताश्च वैदूर्यमया विहङ्गा
रूप्यप्रवालैश्च तथा विहङ्गाः।
चित्राश्च नानावसुभिर्भुजङ्गा
जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ ५.७.१२ ॥
有用青金石制成的飞禽,也有用银和珊瑚制成的飞禽;有用各种宝石制成的奇异蛇,还有良种的、身形俊美的骏马。
5.7.13
प्रवालजाम्बूनदपुष्पपक्षाः
सलीलमावर्जितजिह्मपक्षाः।
कामस्य साक्षादिव भान्ति पक्षाः
कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ ५.७.१३ ॥
制成的飞禽面容俊美、羽翼精妙,羽翼如珊瑚与閻浮金花,斜曲的翅膀嬉戏地向后弯起,光辉闪耀,仿佛爱神迦摩的亲身羽翼。
5.7.14
नियुज्यमानाश्च गजाः सुहस्ताः
सकेसराश्चोत्पलपत्रहस्ताः।
बभूव देवी च कृतासुहस्ता
लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ ५.७.१४ ॥
装饰着的象鼻美好、鬃毛如蕊的大象也列在那里,象鼻如荷叶;还有一位手臂美好的天女,莲手的吉祥天女(帕德米尼·拉克什米)也被塑造出来。
5.7.15
इतीव तद्गृहमभिगम्य शोभनं
सविस्मयो नगमिव चारुकन्दरम्।
पुनश्च तत्परमसुगन्धि सुन्दरं
हिमात्यये नगमिव चारुकन्दरम् ॥ ५.७.१५ ॥
如此,他走近这座华美的宫殿,惊奇地站立,如同有美丽洞穴的山岳;那座极其芬芳、美好的宫殿,又仿佛寒冬将尽时有美丽洞穴的山岳一般显现出来。
5.7.16
ततः स तां कपिरभिपत्य पूजितां
चरन् पुरीं दशमुखबाहुपालिताम्।
अदृश्य तां जनकसुतां सुपूजितां
सुदुःखितां पतिगुणवेगनिर्जिताम् ॥ ५.७.१६ ॥
于是猴子在十首罗波那双臂守护的城中游走,走向那位备受尊敬的女子;然而,遭受深重悲痛、为丈夫美德之力所慑的罗阇之女不见踪影。
5.7.17
ततस्तदा बहुविधभावितात्मनः
कृतात्मनो जनकसुतां सुवर्त्मनः।
अपश्यतोऽभवदतिदुःखितं मनः
सचक्षुषः प्रविचरतो महात्मनः ॥ ५.७.१७ ॥
于是这位心智历练多方、克己而品行端良的大德者,因不见罗阇之女而心中极为悲痛;他睁大双眼四处寻觅游走。