Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.10.1

ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः।
राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ ६.१०.१ ॥

黎明时分,已确定法与利之志的、行事可怖的毗毗沙那,前往罗刹王的宫殿。

6.10.2

शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम्।
सुविभक्तमहाकक्षं महाजनपरिग्रहम् ॥ ६.१०.२ ॥

它像群山之巅的堆叠,高耸如山峰,有划分得很好的大厅,住着众多人。

6.10.3

मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्।
राक्षसैराप्तपर्याप्तैः सर्वतः परिरक्षितम् ॥ ६.१०.३ ॥

它由明智忠诚的大臣们治理,四面由可靠而足够的罗刹守卫。

6.10.4

मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम्।
शङ्खघोषमहाघोषं तूर्यसम्बाधनादितम् ॥ ६.१०.४ ॥

空气因醉象的喘息而翻动,回荡着海螺的巨响和乐器密集的喧鸣。

6.10.5

प्रमदाजनसम्बाधं प्रजल्पितमहापथम्।
तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥ ६.१०.५ ॥

它挤满了妇女,大道上满是喧谈,有熔金做的排水口,并以上好的饰物装点。

6.10.6

गन्धर्वाणामिवावासमालयं मरुतामिव।
रत्नसंचयसम्बाधं भवनं भोगिनामिव ॥ ६.१०.६ ॥

它如同乾闼婆的居所,如同摩录多的住处,堆满珠宝,又如蛇族的宫殿。

6.10.7

तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्।
अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ६.१०.७ ॥

如太阳进入大云,光芒四射,那位大光辉的英雄走进了他哥哥的居所。

6.10.8

पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्।
शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ६.१०.८ ॥

这位大光辉者听到了精通吠陀者所宣唱的吉祥祝福之声,皆关乎其兄的胜利。

6.10.9

पूजितान् दधिपात्रैश्च सर्पिभिः सुमनोक्षतैः।
मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥ ६.१०.९ ॥

那位大力者看见了精通咒语与吠陀的婆罗门,他们以凝乳之器、酥油、美丽的花朵和完整的谷粒受到供养。

6.10.10

स पूज्यमानो रक्षोभिर्दीप्यमानं स्वतेजसा।
आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ ६.१०.१० ॥

受罗刹们尊奉的那位大臂者,向坐在宝座上、以自身光辉闪耀的财神(俱毗罗)之弟行礼。

6.10.11

स राजदृष्टिसम्पन्नमासनं हेमभूषितम्।
जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ६.१०.११ ॥

他走近那张饰以黄金、具有王者风范的宝座,依照礼数行事,因他精通礼仪。

6.10.12

स रावणं महात्मानं विजने मन्त्रिसंनिधौ।
उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ ६.१०.१२ ॥

他在密处、大臣在场时,对大度的罗波那说了极其有益、以理由确立的话。

6.10.13

प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः।
देशकालार्थसंवादि दृष्टलोकपरावरः ॥ ६.१०.१३ ॥

以安抚平息了长兄的怒气,依次上前,说出合乎地点、时机与目的的话语,他曾见过上界与下界。

6.10.14

यदाप्रभृति वैदेही सम्प्राप्तेह परंतप।
तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥ ६.१०.१४ ॥

噢,降伏敌人者,自从维德哈公主来到这里,我们便看见了不祥的征兆。

6.10.15

सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः।
मन्त्रसंधुक्षितोऽप्यग्निर्न सम्यगभिवर्धते ॥ ६.१०.१५ ॥

虽有火星、烟焰,却烟雾浑浊地升起,即使以咒语点燃,火也不能好好地旺盛起来。

6.10.16

अग्निष्टेष्वग्निशालासु तथा ब्रह्मस्थलीषु च।
सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ ६.१०.१६ ॥

在那些火堂以及梵地祭坛上,可见爬行之物;供奉的祭品中也有蚂蚁出现。

6.10.17

गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः।
दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः ॥ ६.१०.१७ ॥

牛奶溢流而出;优良的象失去了发情的狂性;喜爱新草的马哀鸣嘶叫。

6.10.18

खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति च।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥ ६.१०.१८ ॥

君王啊,驴、骆驼和骡子竖起毛发,渗出液体;即使以法术谋划,它们也不能保持本性。

6.10.19

वायसाः संघशः क्रूरा व्याहरन्ति समन्ततः।
समवेताश्च दृश्यन्ते विमानाग्रेषु संघशः ॥ ६.१०.१९ ॥

凶恶的乌鸦成群地从四面八方鸣叫,人们看见它们成群聚集在宫殿的顶端。

6.10.20

गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः।
उपपन्नाश्च संध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ ६.१०.२० ॥

秃鹫聚集成群停在城市上空,而在两个黄昏时分到来的豺狼则发出不祥的嚎叫。

6.10.21

क्रव्यादानां मृगाणां च पुरीद्वारेषु संघशः।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥ ६.१०.२१ ॥

城门口成群的食肉动物和野兽发出巨大的吼声,夹杂着咆哮和雷鸣般的响声。

6.10.22

तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्।
रोचये वीर वैदेही राघवाय प्रदीयताम् ॥ ६.१०.२२ ॥

既然此事已经提出,这便是适当的补赎。英雄啊,我赞同:应将毗提诃之女交还罗ghava。

6.10.23

इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया।
तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ ६.१०.२३ ॥

即使我是因迷惑或贪婪而说出此言,伟大的君王啊,您也不应因此归咎于我。

6.10.24

अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते।
रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ ६.१०.२४ ॥

这一过失在城中所有人身上都能看到:罗刹与罗刹女之中,城内,乃至内宫之中也是如此。

6.10.25

प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः।
अवश्यं च मया वाच्यं यद् दृष्टमथवा श्रुतम्।
सम्प्रधार्य यथान्यायं तद् भवान् कर्तुमर्हति ॥ ६.१०.२५ ॥

此议执行完毕后,所有大臣都退下了。我必须说出我所见或所闻之事。请您仔细考虑,依据道理,做应当做的事。

6.10.26

रावणं रक्षसां श्रेष्ठं पथ्यमेतद् विभीषणः ॥ ६.१०.२६ ॥

Vibhīṣaṇa 对罗刹中最优秀的罗波那说了这些有益的话。

6.10.27

हितं महार्थं मृदु हेतुसंहितं
व्यतीतकालायतिसम्प्रतिक्षमम्।
निशम्य तद्वाक्यमुपस्थितज्वरः
प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ ६.१०.२७ ॥

罗波那听了这番有益、意义重大、温和、有理有据、并合乎过去、未来与现在之理的话,怒火如发热般升起,便依情境如此回答道。

6.10.28

भयं न पश्यामि कुतश्चिदप्यहं
न राघवः प्राप्स्यति जातु मैथिलीम्।
सुरैः सहेन्द्रैरपि संगरे कथं
ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ ६.१०.२८ ॥

我毫无惧怕之处。罗怙之子绝不会得到迈提利。即使与因陀罗及诸天在战场相遇,罗什曼那的兄长又怎能站在我面前?

6.10.29

इत्येवमुक्त्वा सुरसैन्यनाशनो
महाबलः संयति चण्डविक्रमः।
दशाननो भ्रातरमाप्तवादिनं
विसर्जयामास तदा विभीषणम् ॥ ६.१०.२९ ॥

说完这些,摧毁天神军队、大力且在战场上威勇凌厉的十首罗波那,便遣走了讲真话的兄弟维毗沙那。