ヴァールミーキのラーマーヤナ · サルガ 6.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.100.1
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ ६.१००.१ ॥
その武器が防がれると、羅刹王ラーヴァナは怒りを倍にし、怒りのまま直ちに別の武器を放った。
6.100.2
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः।
उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे ॥ ६.१००.२ ॥
輝かしいラーヴァナは、マヤが造った別の恐ろしい武器をラグの末裔に向けて放とうとした。
6.100.3
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च।
कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः ॥ ६.१००.३ ॥
そのとき槍と棍棒と鉄槌が飛び出し、弓からは雷のように硬く輝く武器がどの方向にも飛んだ。
6.100.4
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ६.१००.४ ॥
鉄槌、欺きの投げ縄、燃える雷、そして様々な鋭い武器が、劫末の風のように放たれた。
6.100.5
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ६.१००.५ ॥
最上の武器に通じた者の中で第一の栄光あるラグ家の王子は、ガーンダルヴァと呼ばれる至高の武器でそれを打ち砕いた。
6.100.6
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६.१००.६ ॥
その武器が大いなる心のラーガヴァに防がれると、怒りに目を赤くしたラーヴァナは太陽の武器を放った。
6.100.7
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च।
कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः ॥ ६.१००.७ ॥
すると恐るべき速さの、賢き十頭の王の弓から、輝く大きな円盤が飛び出した。
6.100.8
तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ६.१००.८ ॥
四方に落ち、飛び交うその円盤によって空は燃え上がり、日と月の食のように四方が輝いた。
6.100.9
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः।
आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ६.१००.९ ॥
ラーガヴァは矢の雨でそれらの円盤を断ち切り、ラーヴァナの軍の先頭にあった様々な武器をも断ち切った。
6.100.10
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ ६.१००.१० ॥
自らの武器が破壊されたのを見て、羅刹の王ラーヴァナは十本の矢でラーマの急所という急所を射た。
6.100.11
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः।
रावणेन महातेजा न प्राकम्पत राघवः ॥ ६.१००.११ ॥
ラーヴァナの大弓から放たれた十本の矢に射抜かれても、偉大な輝きを持つラーガヴァは微動だにしなかった。
6.100.12
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः।
राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ ६.१००.१२ ॥
すると戦いの勝者ラーガヴァは激しく怒り、ラーヴァナの全身に多くの矢を射かけた。
6.100.13
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली।
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ ६.१००.१३ ॥
その間に、ラーガヴァの力強い弟ラクシュマナは怒り、敵の勇士を討つ者として七本の矢を取った。
6.100.14
तैः सायकैर्महावेगै रावणस्य महाद्युतिः।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ ६.१००.१४ ॥
その速い矢で、輝かしいラクシュマナは、人の頭の印をつけたラーヴァナの旗を幾つにも断ち切った。
6.100.15
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्।
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ ६.१००.१५ ॥
一本の矢で、栄光ある力強いラクシュマナは、羅刹の御者の輝く耳飾りをつけた首を打ち落とした。
6.100.16
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा ॥ ६.१००.१६ ॥
そこでラクシュマナは五本の鋭い矢で、羅刹王の象の鼻のような弓を断ち切った。
6.100.17
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्।
जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ ६.१००.१७ ॥
ヴィビーシャナは飛び跳ねて棍棒で、青い雲のように黒く山のように大きな、ラーヴァナの良馬を打ち倒した。
6.100.18
हताश्वात् तु तदा वेगादवप्लुत्य महारथात्।
कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः ॥ ६.१००.१८ ॥
馬が討たれると、ラーヴァナはすばやく大戦車から飛び降り、弟に激しい怒りを向けた。
6.100.19
ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ ६.१००.१९ ॥
そこで大いなる力と勇気を持つ羅刹王は、雷のように燃え盛る大槍をヴィビーシャナに投げつけた。
6.100.20
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः।
अथोदतिष्ठत् संनादो वानराणां महारणे ॥ ६.१००.२० ॥
槍が届く前に、ラクシュマナは三本の矢でそれを断ち切った。するとその大戦場に、ヴァーナラたちの歓声が湧き起こった。
6.100.21
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ ६.१००.२१ ॥
金の飾りを施されたその槍は三つに断たれて落ち、火花を散らし、天から落ちた大流星のように燃えた。
6.100.22
ततः सम्भाविततरां कालेनापि दुरासदाम्।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ ६.१००.२२ ॥
そして彼は、死神にさえ対抗しがたい最も尊ばれた巨大な槍を、自らの輝きで燃え立つままに掴んだ。
6.100.23
सा वेगिता बलवता रावणेन दुरात्मना।
जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा ॥ ६.१००.२३ ॥
力強く邪悪なラーヴァナが勢いよく投げたその槍は、燃え上がった。大いなる輝きを放ち、燃える雷光のごとく。
6.100.24
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ ६.१००.२४ ॥
そのとき勇士ラクシュマナは、命の危険に陥ったヴィビーシャナのもとへ素早く駆けつけた。
6.100.25
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ ६.१००.२५ ॥
彼を救うため、英雄ラクシュマナは弓を引き絞り、手に投槍を持つラーヴァナを矢の雨で覆った。
6.100.26
कीर्यमाणः शरौघेण विसृष्टेन महात्मना।
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ ६.१००.२६ ॥
偉大なるラクシュマナの放った矢の奔流に覆われ、勇気を失った彼は、打ち返す心を起こせなかった。
6.100.27
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ ६.१००.२७ ॥
弟が ラクシュマナに救われたのを見て、ラーヴァナはラクシュマナの正面に立ち、この言葉を語った。
6.100.28
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ ६.१००.२८ ॥
力を誇る者よ! 羅刹ヴィビーシャナをこのように救ったゆえ、この槍がお前に投げ放たれる。
6.100.29
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा।
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ ६.१००.२९ ॥
我が腕の鉄の棍棒から放たれたこの血に染まった槍は、お前の心臓を貫き、命を奪って飛び去るだろう。
6.100.30
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ६.१००.३० ॥
こう言うと、彼は摩耶が幻術で作った、八つの鈴を持ち大音響を立て、外れることなく敵を打ち倒す槍を放った。
6.100.31
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ६.१००.३१ ॥
ラーヴァナは激怒し、輝きに燃えるその槍をラクシュマナに狙いを定めて投げつけ、雄叫びをあげた。
6.100.32
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना।
शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि ॥ ६.१००.३२ ॥
恐ろしい速さで投げられ、雷と稲妻のような音を立てて、その槍は戦場の最前線にいるラクシュマナめがけて勢いよく襲いかかった。
6.100.33
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ६.१००.३३ ॥
襲いかかるその槍に向かって、ラーガヴァは言った。「ラクシュマナに幸あれ!槍よ、無益となれ、その努力は挫かれよ!」
6.100.34
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा।
मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥ ६.१००.३४ ॥
怒れるラーヴァナが戦場で放ったその槍は、毒蛇のようにラクシュマナの身に深く突き刺さった。勇猛な彼ではあったが、その瞬間は恐怖に襲われていた。
6.100.35
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ६.१००.३५ ॥
その槍は猛烈な勢いでラクシュマナの広い胸に落ちた。蛇王の舌のように閃き、大いなる輝きを放ちながら。
6.100.36
ततो रावणवेगेन सुदूरमवगाढया।
शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ६.१००.३६ ॥
そのとき、ラーヴァナの勢いで深く突き刺さった槍に心臓を貫かれ、ラクシュマナは地に倒れた。
6.100.37
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ६.१००.३७ ॥
そのような状態で横たわるラクシュマナを近くで見て、大いなる威光のラーガヴァ(ラーマ)は兄への愛から心を痛めた。
6.100.38
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।
बभूव संरब्धतरो युगान्त इव पावकः ॥ ६.१००.३८ ॥
しばし思いに沈んだかのように、涙に曇った目で、彼は世界の終わりの火のようにいっそう激しく怒り燃え立った。
6.100.39
न विषादस्य कालोऽयमिति संचिन्त्य राघवः।
चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः।
सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च ॥ ६.१००.३९ ॥
「今は悲しみの時ではない」と考え、ラーヴァナを殺す決意をしたラーガヴァは、非常に激しい戦いを繰り広げ、全力でラクシュマナを見つめた。
6.100.40
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ६.१००.४० ॥
そのとき、ラーマは大戦で槍に貫かれ血にまみれたラクシュマナを見た。蛇のいる山のようであった。
6.100.41
तामपि प्रहितां शक्तिं रावणेन बलीयसा।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ ६.१००.४१ ॥
強大なラーヴァナが放ったその槍さえ、猿の勇士たちは力を尽くしても砕くことができなかった。
6.100.42
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्।
सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ ६.१००.४२ ॥
羅刹たちの巧みな矢の雨に打たれたが、その槍はラクシュマナを貫き、大地の中へ入っていった。
6.100.43
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ ६.१००.४३ ॥
怒りに燃えた力強いラーマは、その恐ろしい槍を両手で掴み、戦いの中でへし折り、力任せに引き抜いた。
6.100.44
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ६.१००.४४ ॥
力強いラーヴァナがその槍を引き抜こうとしたとき、急所を貫く矢が彼の全身に射込まれた。
6.100.45
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्।
अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम् ॥ ६.१००.४५ ॥
それらの矢を意に介さず、ラクシュマナを抱きしめ、ハヌマーンと大猿スグリーヴァに語りかけた。
6.100.46
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः।
पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ॥ ६.१००.४६ ॥
最も優れた猿たちよ、このようにラクシュマナを囲んで立っていなさい。私が長く望んでいた武勇の時が、今ようやく訪れたのだ。
6.100.47
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः।
कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम् ॥ ६.१००.४७ ॥
邪悪な心と悪しき決意を持つこの十頭の者は討たれるべきだ。夏の終わりに慈雨の鳥が雲を見ることを切望するように、私はこれを切望している。
6.100.48
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः।
अरावणमरामं वा जगद् द्रक्ष्यथ वानराः ॥ ६.१००.४८ ॥
今この瞬間、間もなく、私は真実をもって誓う。猿たちよ、お前たちは、ラーヴァナのいない世界か、ラーマのいない世界を目にすることになるだろう。
6.100.49
राज्यनाशं वने वासं दण्डके परिधावनम्।
वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम् ॥ ६.१००.४९ ॥
王国の喪失、森での暮らし、ダンダカの森をさまようこと、ヴァイデーヒーの奪取、そしてラークシャサとの遭遇。
6.100.50
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ ६.१००.५० ॥
私が耐えてきた恐ろしい苦しみと地獄のような苦悩を、今日戦場でラーヴァナを討って終わらせよう。
6.100.51
यदर्थं वानरं सैन्यं समानीतमिदं मया।
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥ ६.१००.५१ ॥
そのために私はこの猿の軍勢を集め、スグリーヴァを王位につけ、戦いでヴァーリンを倒し、大海を渡り、海に橋を架けたのだ。
6.100.52
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः।
चक्षुर्विषयमागत्य नायं जीवितुमर्हति ॥ ६.१००.५२ ॥
その悪人は今日戦場で私の視界に入った。私の視界に入った以上、彼は生きる資格がない。
6.100.53
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः।
यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः ॥ ६.१००.५३ ॥
毒の眼を持つ蛇が私の視界に入るように、あるいはヴィナターの子ガルダの視界に蛇が入るように、ラーヴァナは私の視界に入ったのだ。
6.100.54
सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ६.१००.५४ ॥
ああ、手ごわき猿の勇者たちよ、山の頂に座して、私とラーヴァナのこの戦いを安らかに見よ。
6.100.55
अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ६.१००.५५ ॥
今日、三界の者たち、ガンダルヴァ、神々、聖仙、チャーラナたちは、戦いにおける私のラーマらしさを見よ。
6.100.56
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः।
सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ६.१००.५६ ॥
今日、私は大地が続く限り、動くものと動かぬものの世界と神々が語り継ぐような行いをしよう──この世でいかに戦いが行われたかを。
6.100.57
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः।
आजघान रणे रामो दशग्रीवं समाहितः ॥ ६.१००.५७ ॥
こう言って、集中したラーマは、熱した金の飾りを付けた鋭い矢で、戦場にて十頭のラーヴァナを打った。
6.100.58
तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः।
अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः ॥ ६.१००.५८ ॥
同様に、燃える鉄の矢と棍棒で、ラーヴァナはそのとき雨雲が豪雨を降らすようにラーマに降り注いだ。
6.100.59
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्।
वराणां च शराणां च बभूव तुमुलः स्वनः ॥ ६.१००.५९ ॥
ラーマとラーヴァナが互いに打ち合って放った優れた矢から、騒然たる音が起こった。
6.100.60
विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६.१००.६० ॥
ラーマとラーヴァナの矢は折れて散り、燃える先端を持って空から大地に落ちた。
6.100.61
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ ६.१००.६१ ॥
ラーマとラーヴァナの弓弦の大きな響きは、すべての生き物を恐れさせ、驚異のようであった。
6.100.62
स कीर्यमाणः शरजालवृष्टिभि-
र्महात्मना दीप्तधनुष्मतार्दितः।
भयात् प्रदुद्राव समेत्य रावणो
यथानिलेनाभिहतो बलाहकः ॥ ६.१००.६२ ॥
輝く弓を持つ大いなる魂の者が放つ矢の網の雨に苦しめられたラーヴァナは、風に打たれた雲のように恐れて逃げた。