Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.101.1

शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा।
लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम् ॥ ६.१०१.१ ॥

见英勇的罗什曼那在战斗中被罗波那的强大长矛击倒,浑身浸满血流,

6.101.2

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः।
विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत् ॥ ६.१०१.२ ॥

与恶毒的罗波那激战之后,他一边射出箭雨,一边对苏舍那说道:

6.101.3

एष रावणवीर्येण लक्ष्मणः पतितो भुवि।
सर्पवच्चेष्टते वीरो मम शोकमुदीरयन् ॥ ६.१०१.३ ॥

这位罗什曼那因罗波那的威力倒在地上;英雄像蛇一样扭动,在我心中激起悲痛。

6.101.4

शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ६.१०१.४ ॥

眼见这位浑身浸血、比我的生命更珍贵的英雄,心神如此慌乱的我,哪里还有作战的力量?

6.101.5

अयं स समरश्लाघी भ्राता मे शुभलक्षणः।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा ॥ ६.१०१.५ ॥

若我这位在战场上自豪、有吉祥之相的兄弟已然殒命,我的生命还有何乐可言?

6.101.6

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ॥ ६.१०१.६ ॥

我的勇力仿佛在羞愧,弓仿佛要从手中滑落;箭矢无力下坠,我的视线已被泪水所控制。

6.101.7

अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव।
चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते ॥ ६.१०१.७ ॥

我的肢体渐渐无力,仿佛人陷入梦中的沉睡。我的剧烈忧虑日益增长,又生出了求死之念。

6.101.8

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना।
विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम् ॥ ६.१०१.८ ॥

我看见弟弟被恶毒的罗波那杀害,因悲痛而辗转挣扎,要害处受到重击。

6.101.9

राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्।
दुःखेन महताविष्टो ध्यानशोकपरायणः ॥ ६.१०१.९ ॥

罗怙婆看见他心爱的弟弟,生命之气似乎正要离开身体。被巨大悲痛所笼罩的罗怙婆,陷入沉思与哀伤之中。

6.101.10

परं विषादमापन्नो विललापाकुलेन्द्रियः।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ ६.१०१.१० ॥

陷入深重的绝望,心神迷乱的罗怙婆,看见弟弟罗什曼那倒卧在战场尘土中,便悲恸哭泣。

6.101.11

विजयोऽपि हि मे शूर न प्रियायोपकल्पते।
अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति ॥ ६.१०१.११ ॥

勇士啊,没有了心爱之人,即便胜利对我也毫无意义。眼睛看不见的月亮,又能带来什么欢喜呢?

6.101.12

किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते।
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ६.१०१.१२ ॥

战斗于我有何益处,性命又有何用?在战场前线,罗什曼那倒地身亡之处,战斗已再无意义。

6.101.13

यथैव मां वनं यान्तमनुयाति महाद्युतिः।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ ६.१०१.१३ ॥

正如光辉的罗什曼那当年随我入林,我也将随他前往阎摩的居所。

6.101.14

इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः।
इमामवस्थां गमितो राक्षसैः कूटयोधिभिः ॥ ६.१०१.१४ ॥

这位始终忠于我的亲爱族人,被那些以诡计作战的罗刹们害到了这般地步。

6.101.15

देशे देशे कलत्राणि देशे देशे च बान्धवाः।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ ६.१०१.१५ ॥

每个地方都有妻子,每个地方都有亲族;然而,我看不到哪里还有同胞兄弟。

6.101.16

किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम।
कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम् ॥ ६.१०१.१६ ॥

没有难以战胜的罗什曼那,这王国对我有什么用?我该如何对慈爱儿子的母亲苏弥special说呢?

6.101.17

उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया।
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ॥ ६.१०१.१७ ॥

苏弥special托付给我的罗什曼那,我无法承受她的责备。我该对母亲考莎利雅说什么,又该对吉迦伊说什么呢?

6.101.18

भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्।
सह तेन वनं यातो विना तेनागतः कथम् ॥ ६.१०१.१८ ॥

我该对婆罗多和大力的设睹卢祇说什么呢?与我同往林中的人,如今没有他,我怎能回来?

6.101.19

इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्।
किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ॥ ६.१०१.१९ ॥

宁可在此死去,也不愿受亲族的责备。我在前世做了什么恶行?

6.101.20

येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः।
हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो ॥ ६.१०१.२० ॥

杀死我那站在我面前的正直兄弟的人啊!唉,兄长,人中之最,英雄之首,我的主上!

6.101.21

एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि।
विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ॥ ६.१०१.२१ ॥

你要抛下我独自前往另一个世界吗?兄长,我如此悲泣,你为何不回应我?

6.101.22

उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा।
शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ॥ ६.१०१.२२ ॥

起来,看看!你为何躺着?请用你的眼睛看看我这悲苦之人,因忧伤而痛苦、在山林间如狂人般游荡。

6.101.23

विषण्णस्य महाबाहो समाश्वासयिता मम।
राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम् ॥ ६.१०१.२३ ॥

啊,悲伤之人,大臂者,我的安慰者!罗摩如此说着,心神为悲痛所扰乱。

6.101.24

आश्वासयन्नुवाचेदं सुषेणः परमं वचः।
त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम् ॥ ६.१०१.२४ ॥

苏舍那安慰罗摩,说出这至高的话语:人中之虎啊,放弃这使人绝望的念头吧。

6.101.25

शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे।
नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ॥ ६.१०१.२५ ॥

如同在军前因箭矢而生的、令人悲痛的忧虑,增添吉祥的罗什曼那并未死去。

6.101.26

नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्।
सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम् ॥ ६.१०१.२६ ॥

他的面容既未扭曲,也未变黑;他的面容明亮而安详,请看一看。

6.101.27

पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने।
नेदृशं दृश्यते रूपं गतासूनां विशां पते ॥ ६.१०१.२७ ॥

他的双手如莲叶之底,双眼十分安详;人主啊,死者的模样不是这样的。

6.101.28

विषादं मा कृथा वीर सप्राणोऽयमरिंदम।
आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले ॥ ६.१०१.२८ ॥

勇士啊,不要悲伤;降伏敌人的人啊,他还活着。他看起来就像躺在地上、四肢松弛入睡的人。

6.101.29

सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः।
एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः ॥ ६.१०१.२९ ॥

勇士啊,他的心随着呼吸一次又一次地颤动。大智者苏舍那如此说罢,对罗怙后裔说了这些话。

6.101.30

समीपस्थमुवाचेदं हनूमन्तं महाकपिम्।
सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम् ॥ ६.१०१.३० ॥

他对站在旁边的大猿哈努曼说了这些话:贤者啊,请从此地迅速前往那座大兴盛之山……

6.101.31

पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव।
दक्षिणे शिखरे जातां महौषधिमिहानय ॥ ६.१०१.३१ ॥

勇士啊,把贾姆巴凡先前向你描述的、生长在南峰上的那株大药草带来这里。

6.101.32

विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा।
संजीवकरणीं वीर संधानीं च महौषधीम् ॥ ६.१०१.३२ ॥

勇士啊,那名为毗沙利耶迦兰尼、萨瓦尔尼耶迦兰尼、桑吉瓦迦兰尼和桑达尼的大药草。

6.101.33

संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय।
इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः ॥ ६.१०१.३३ ॥

被如此吩咐后,光荣的哈努曼前往药草山,却因不识那些大药草而陷入困惑。

6.101.34

तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः।
इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ ६.१०१.३४ ॥

无量威力的摩鲁提心中生起一念:我要把这座山峰整个带走。

6.101.35

अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्।
प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत् ॥ ६.१०१.३५ ॥

生长在这座山峰上、带来安康的那株药草,我凭推断可以认出;苏舍那也这样说过。

6.101.36

अगृह्य यदि गच्छामि विशल्यकरणीमहम्।
कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत् ॥ ६.१०१.३६ ॥

若我不取毗沙利耶迦兰尼便回去,耽搁时日将造成过失,并生出极大的忧惧。

6.101.37

आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ॥ ६.१०१.३७ ॥

他到达最高的山峰,三次震动了山头。

6.101.38

फुल्लनानातरुगणं समुत्पाट्य महाबलः।
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥ ६.१०१.३८ ॥

他连根拔起一丛盛开的各种树木,这位大力的猴中猛虎双手抓住它并掂量平衡。

6.101.39

स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्।
उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः ॥ ६.१०१.३९ ॥

如同充满水的黑色雨云,他从天空升起;抓住山峰的顶端,哈努曼向上跃起。

6.101.40

समागम्य महावेगः संन्यस्य शिखरं गिरेः।
विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत् ॥ ६.१०१.४० ॥

他以极快的速度赶到,放下山峰,稍作休息后,哈努曼对苏舍那说了这些话。

6.101.41

औषधीर्नावगच्छामि ता अहं हरिपुङ्गव।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ ६.१०१.४१ ॥

猴中之最啊,我不认得那些草药,所以我把那座山的整个山峰都带来了。

6.101.42

एवं कथयमानं तु प्रशस्य पवनात्मजम्।
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः ॥ ६.१०१.४२ ॥

赞美这样说话的风之子哈努曼之后,猴中最优秀的苏舍那拔起草药,将其取走。

6.101.43

विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः।
दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम् ॥ ६.१०१.४३ ॥

众位猴中之杰见到哈努曼的壮举——即便诸神也难以完成——无不惊异。

6.101.44

ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः।
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥ ६.१०१.४४ ॥

随后,猴中最杰出的苏舍那,光辉极盛,将那草药捣碎,放入罗什曼那的鼻孔中。

6.101.45

सशल्यः स समाघ्राय लक्ष्मणः परवीरहा।
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ ६.१०१.४५ ॥

罗什曼那虽仍带着箭,嗅闻了那草药,便即刻摆脱箭矢与痛苦,从地上站起,他是敌方英雄的杀手。

6.101.46

तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्।
साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन् ॥ ६.१०१.४६ ॥

众猴见罗什曼那从地上站起,甚为欢喜,齐呼“善哉,善哉”,向罗什曼那致敬。

6.101.47

एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा।
सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः ॥ ६.१०१.४७ ॥

罗摩说“过来,过来”,这敌方英雄的杀手紧紧拥抱罗什曼那,双眼满是泪水。

6.101.48

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा।
दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ॥ ६.१०१.४८ ॥

于是罗怙之裔拥抱苏弥德罗,说道:“勇士啊,幸得天佑,我见你从死亡中归来。”

6.101.49

नहि मे जीवितेनार्थः सीतया च जयेन वा।
को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ॥ ६.१०१.४९ ॥

若你已归于死亡,我的生命、悉多,乃至胜利,对我都毫无意义。

6.101.50

इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः।
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ ६.१०१.५० ॥

伟大的罗怙后裔如此说话时,悲伤的罗什曼那以微弱的声音说道。

6.101.51

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम।
लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि ॥ ६.१०१.५१ ॥

真正勇猛的人啊,请想起你先前所立的誓言。你不该像轻浮软弱之人那样说话。

6.101.52

नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ ६.१०१.५२ ॥

说真话的人不立虚假的誓言。信守誓言,正是伟大的标志。

6.101.53

नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ६.१०१.५३ ॥

无罪之人啊,你不该为了我而陷入绝望。今天就杀死罗波那,履行你的誓言吧。

6.101.54

न जीवन् यास्यते शत्रुस्तव बाणपथं गतः।
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ६.१०१.५४ ॥

落入你箭路的敌人不会活着离去,正如巨象遇见张着利齿怒吼的雄狮。

6.101.55

अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ६.१०१.५५ ॥

我想迅速除掉这个恶人,趁这完成其职责的太阳尚未落下。

6.101.56

यदि वधमिच्छसि रावणस्य संख्ये
यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्।
यदि तव राजसुताभिलाष आर्य
कुरु च वचो मम शीघ्रमद्य वीर ॥ ६.१०१.५६ ॥

若你渴望在战场上诛杀罗波那,若你想履行你所许下的誓言,若你渴望王女,高贵的英雄啊,那么今日就迅速听从我的话吧。