ヴァールミーキのラーマーヤナ · サルガ 6.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.103.1
स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो भृशम्।
रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ ६.१०३.१ ॥
そのとき、カークツトゥタ(ラーマ)に激しく苦しめられた、戦場で自慢した羅刹王ラーヴァナは、大いなる怒りに陥った。
6.103.2
स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान्।
अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे ॥ ६.१०३.२ ॥
怒りに燃える目の勇者は弓を引き絞り、激怒して、あの至高の戦いでラーガヴァを攻め立てた。
6.103.3
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्।
राघवं रावणो बाणैस्तटाकमिव पूरयन् ॥ ६.१०३.३ ॥
空から雲が降るように、ラーヴァナはあの千の矢の流れでラーガヴァを矢で満たした、池を水で満たすように。
6.103.4
पूरितः शरजालेन धनुर्मुक्तेन संयुगे।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ ६.१०३.४ ॥
戦いで弓から放たれた矢の網に覆われても、大山のように揺るがぬカークツトゥタは震えない。
6.103.5
स शरैः शरजालानि वारयन् समरे स्थितः।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ६.१०३.५ ॥
戦場に立ち、矢で矢の網を防ぎ、太陽の光線のように、その勇者はそれらを受け止めた。
6.103.6
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६.१०३.६ ॥
そのとき、怒れる素早い手の夜の徘徊者は、偉大な魂のラーガヴァの胸に千の矢を打ち込んだ。
6.103.7
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः।
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ॥ ६.१०३.७ ॥
戦場で血にまみれたラクシュマナの兄は、森に花咲く大きなキンシュカ樹のように見えた。
6.103.8
शराभिघातसंरब्धः सोऽभिजग्राह सायकान्।
काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ॥ ६.१०३.८ ॥
矢の打撃に怒り、彼は矢をつかんだ。カクトゥスタの末裔ラーマは、大いなる威光を放ち、劫末の太陽のように輝いた。
6.103.9
ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ।
शरान्धकारे समरे नोपलक्षयतां तदा ॥ ६.१०३.९ ॥
そこで、怒り狂ったラーマとラーヴァナは互いに襲いかかった。その戦いの矢の闇の中で、二人は互いを見分けることができなかった。
6.103.10
ततः क्रोधसमाविष्टो रामो दशरथात्मजः।
उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ ६.१०३.१० ॥
そのとき、怒りに満ちたダシャラタの子、勇士ラーマは笑いながらラーヴァナに厳しい言葉を告げた。
6.103.11
मम भार्या जनस्थानादज्ञानाद् राक्षसाधम।
हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान् ॥ ६.१०३.११ ॥
羅刹の中で最も卑しい者よ! 無知から、彼女が無力だった時に、お前はジャナスターナから私の妻を奪った。ゆえにお前は勇武の者ではない。
6.103.12
मया विरहितां दीनां वर्तमानां महावने।
वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ ६.१०३.१२ ॥
私から引き離され、哀れにも大森林に住んでいたヴァイデーヒーを力ずくで奪っておきながら、お前は自分を勇者だと思っているのか。
6.103.13
स्त्रीषु शूर विनाथासु परदाराभिमर्शनम्।
कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥ ६.१०३.१३ ॥
勇士よ、守る者のない女たちに対し、他人の妻に触れるという臆病者の行いをしておきながら、お前は自分を勇士だと思っている。
6.103.14
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित।
दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ ६.१०३.१४ ॥
礼を破り、恥を知らず、行いの定まらぬ者よ。傲慢から死を引き寄せておきながら、お前は自分を勇士だと思っている。
6.103.15
शूरेण धनदभ्रात्रा बलैः समुदितेन च।
श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया ॥ ६.१०३.१५ ॥
富を与える者クベーラの兄よ、勇士にして力を備えたお前は、かつて称賛に値し名声をもたらす大いなる行いをした。
6.103.16
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ॥ ६.१०३.१६ ॥
傲慢から生じ、非難され、害をなしたお前の行いの大きな報いを、今日こそ受けよ。
6.103.17
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते।
नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः ॥ ६.१०३.१७ ॥
邪悪な者よ、お前は自分を勇士だと思っているが、盗人のようにシーターを引きずっていくことに、少しの恥も感じないのか。
6.103.18
यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात्।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ ६.१०३.१८ ॥
もし私の目の前でシーターを力ずくで辱めたなら、お前は兄のカラが私の矢に倒れるのを見ただろう。
6.103.19
दिष्ट्यासि मम मन्दात्मंश्चक्षुर्विषयमागतः।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ ६.१०३.१९ ॥
幸いにもお前は私の視界に入った、卑しき者よ。今日、鋭い矢でお前をヤマの館へ送ろう。
6.103.20
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ ६.१०३.२० ॥
今日、我が矢で切り落とされたお前の頭は、輝く耳飾りをつけたまま、戦場の塵に散らばるがよい。肉食の者たちがそれを引きずり去るがよい。
6.103.21
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण।
पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम् ॥ ६.१०३.२१ ॥
ラーヴァナよ、地に投げ出されたお前の胸に秃鷹が降り立ち、矢の傷口から湧き出る血を渇きのままに飲むがよい。
6.103.22
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते।
कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ ६.१०३.२२ ॥
今日、我が矢に貫かれ、命なく倒れたお前の腸を、ガルダのような鳥たちが、大蛇を引くように引きずり出すがよい。
6.103.23
इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ ६.१०३.२३ ॥
このように語った英雄ラーマ、敵を滅ぼす者は、近くに立つラークシャサの王を矢の雨で覆った。
6.103.24
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे।
रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः ॥ ६.१०३.२४ ॥
戦いにおいて、ラーマの勇気、力、喜びは倍増し、敵の滅亡を望む彼の武器の力もまた倍増した。
6.103.25
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ ६.१०३.२५ ॥
自らを知る者ラーマの前に、すべての武器が現れた。大いに輝く者は喜びのゆえに、手がさらに速くなった。
6.103.26
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः।
भूय एवार्दयद् रामो रावणं राक्षसान्तकृत् ॥ ६.१०३.२६ ॥
自らの内に生じたこれら吉兆を知ると、羅刹を滅ぼすラーマは再びラーヴァナを攻めたてた。
6.103.27
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्।
हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ ६.१०३.२७ ॥
猿の石の雨とラーガヴァの矢の雨に打たれ、十頸のダシャグリーヴァの心は揺らいだ。
6.103.28
यदा च शस्त्रं नारेभे न चकर्ष शरासनम्।
नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना ॥ ६.१०३.२८ ॥
武器を取ることも弓を引くこともできなかったとき、動揺した内なる心のために、彼は自らの勇猛を示すことができなかった。
6.103.29
क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च।
मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत ॥ ६.१०३.२९ ॥
彼が速やかに放った矢と様々な武器は死へ向かっている。彼の死の時が訪れていたのだ。
6.103.30
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्।
शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥ ६.१०३.३० ॥
その様子を見た御者は動じることなく、ゆっくりと彼の戦車を戦場から引き返させた。
6.103.31
रथं च तस्याथ जवेन सारथि-
र्निवार्य भीमं जलदस्वनं तदा।
जगाम भीत्या समरान्महीपतिं
निरस्तवीर्यं पतितं समीक्ष्य ॥ ६.१०३.३१ ॥
すると御者は素早く戦車を向け直し、雲のように轟くあの恐ろしい者を押しとどめた。そして勇気を失って倒れた王を見て、恐れから戦場を逃げ去った。