Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.104.1

स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः।
क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥ ६.१०४.१ ॥

しかしラーヴァナは迷妄のため激しく怒り、死神の力に駆られ、怒りに赤く染まった目で御者に言った。

6.104.2

हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्।
भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ ६.१०४.२ ॥

まるで勇気を欠き、無力で、男らしさを失い、臆病で、卑しく、気概がなく、輝きを失った者のようだ。

6.104.3

विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्।
मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ ६.१०४.३ ॥

幻術に見捨てられ、武器に追い払われた者のようだ。私を侮って、愚か者よ、お前は自分の判断で動いている。

6.104.4

किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च।
त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ॥ ६.१०४.४ ॥

なぜ私を侮り、私の望みを顧みず、敵の前で私の戦車を退けたのか。

6.104.5

त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्।
यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ ६.१०४.५ ॥

今日、お前こそが、卑しい者よ、私が長く得てきた名声、勇武、輝き、信望を壊したのだ。

6.104.6

शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः।
पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६.१०४.६ ॥

武勇の名高く、その勇ましさに人の心を奪う敵を、戦いを望んで見つめていた私を、お前は臆病者にしてしまった。

6.104.7

यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते।
सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ६.१०४.७ ॥

愚かな者よ、もし迷いからそれを負っていなければ、どうしてこうなるだろうか。私の推測は正しい。お前は他者にそそのかされたのだ。

6.104.8

नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः।
रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम् ॥ ६.१०४.८ ॥

お前の幸せを願う友にはこのような行いはない。お前が行ったことは、敵の所業に等しい。

6.104.9

निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः।
यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः ॥ ६.१०४.९ ॥

私の敵が去ってしまう前に、急いで戦車を引き返せ。もしお前が私と共に暮らしたことがあり、私の徳を覚えているなら、そうせよ。

6.104.10

एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना।
अब्रवीद् रावणं सूतो हितं सानुनयं वचः ॥ ६.१०४.१० ॥

愚かなラーヴァナにこのように厳しく言われても、善意の御者はラーヴァナに、穏やかで有益な言葉を語った。

6.104.11

न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः।
न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥ ६.१०४.११ ॥

私は恐れてはいない、迷ってもいない、敵に惑わされてもいない。怠慢でも、情がないのでも、礼を失したのでもない。

6.104.12

मया तु हितकामेन यशश्च परिरक्षता।
स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम् ॥ ६.१०४.१२ ॥

しかし私は、お前の幸せを願い、お前の名誉を守ろうとして、情に満ちた心から、有益だと信じて言ったのだ。たとえそれが不快であっても。

6.104.13

नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्।
कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ ६.१०४.१३ ॥

大王よ、この件において、愛しいものの利益に励む私を、軽薄で卑しい者のように咎めるべきではありません。

6.104.14

श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः।
नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥ ६.१०४.१४ ॥

お聞きください。戦いで私が戦車を引き返させた理由を申し上げます。川の激流が水によって押し戻されるように。

6.104.15

श्रमं तवावगच्छामि महता रणकर्मणा।
नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये ॥ ६.१०४.१५ ॥

大きな戦いの務めによりあなたが疲れておられるのは分かります。しかし、あなたの武勇の卓越と輝きが衰えたとは私には見えません。

6.104.16

रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः।
दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ ६.१०४.१६ ॥

戦車を引いて疲れ果てた私の馬たちは倒れてしまいました。暑さに疲れ、雨に打たれた牛のように哀れな姿です。

6.104.17

निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः।
तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ ६.१०४.१७ ॥

私たちの前には多くの前兆が現れています。それぞれが起こるたびに、私はそれが左へ逸れた不吉なものだと見ています。

6.104.18

देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च।
दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥ ६.१०४.१८ ॥

場所と時、徴候と身振り、落胆、喜び、悲しみ、そして御者の強さと弱さをも知るべきです。

6.104.19

स्थलनिम्नानि भूमेश्च समानि विषमाणि च।
युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ ६.१०४.१९ ॥

大地の高低、平坦と起伏のある場所、戦いの時機、そして敵の隙を見抜くことを知るべきである。

6.104.20

उपयानापयाने च स्थानं प्रत्यपसर्पणम्।
सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ ६.१०४.२० ॥

進むこと退くこと、位置を取ること、そして順に退くこと——これらすべてを、戦車に立つ者と御者は知っておくべきである。

6.104.21

तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्।
रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥ ६.१०४.२१ ॥

あなたの休息のため、またこの戦車の馬たちを激しい疲労から守るため、私はこれを適切に行ったのです。

6.104.22

स्वेच्छया न मया वीर रथोऽयमपवाहितः।
भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो ॥ ६.१०४.२२ ॥

勇士よ、私が自分の意志でこの戦車を引き返させたのではありません。主よ、主君への愛に満たされて私がしたのはこのことです。

6.104.23

आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन।
तत् करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ ६.१०४.२३ ॥

敵を滅ぼす方よ、あなたが真にお望みになる通りにご命令ください。勇士よ、恩義の負い目を持たぬ心で、私はそれを成し遂げましょう。

6.104.24

संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः।
प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ ६.१०४.२४ ॥

御者のその言葉に満足したラーヴァナは、彼をさまざまに称賛し、戦いを渇望しつつこう言った。

6.104.25

रथं शीघ्रमिमं सूत राघवाभिमुखं नय।
नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥ ६.१०४.२५ ॥

御者よ、この戦車を速やかにラグha(ラーマ)の方へ走らせよ。戦いで敵を討つまで、ラーヴァナは引き返さぬ。

6.104.26

एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः।
ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्।
श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत ॥ ६.१०४.२६ ॥

このように言って、羅刹王ラーヴァナは戦車に立つ御者に、美しく優れた腕飾りを一つ与えた。ラーヴァナの言葉を聞き、御者は引き返した。

6.104.27

ततो द्रुतं रावणवाक्यचोदितः
प्रचोदयामास हयान् स सारथिः।
स राक्षसेन्द्रस्य ततो महारथः
क्षणेन रामस्य रणाग्रतोऽभवत् ॥ ६.१०४.२७ ॥

するとラーヴァナの言葉に促され、御者はすばやく馬を駆った。その大戦車の御者は、たちまちラーマの戦場の最前線の前に至った。