Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.106.1

सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ ६.१०६.१ ॥

御者欣喜地驱动那辆战车,它能摧毁敌军,犹如乾闼婆城,高高扬起旗帜。

6.106.2

युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ ६.१०६.२ ॥

那辆战车由最优良、戴着金项圈的骏马驾驭,装满了作战器具,并饰有旗帜和幡旗的花环。

6.106.3

ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्।
प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम् ॥ ६.१०६.३ ॥

它仿佛吞噬天空,震响大地;它毁灭敌军,令自军欢喜。

6.106.4

रावणस्य रथं क्षिप्रं चोदयामास सारथिः।
तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ॥ ६.१०६.४ ॥

御者迅速驱动罗波那的战车,它忽然冲来,轰鸣作响,载着大旗。

6.106.5

रथं राक्षसराजस्य नरराजो ददर्श ह।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥ ६.१०६.५ ॥

人王(罗摩)看见罗刹王的战车,由黑马驾驭,闪耀着凶猛的光辉。

6.106.6

दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्।
तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम् ॥ ६.१०६.६ ॥

它在空中闪耀,如同燃烧的飞车,光辉如太阳,满布闪电般的旗帜,带着彩虹展现的光彩。

6.106.7

शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्।
स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ॥ ६.१०६.७ ॥

罗摩看见敌人的战车如云般逼近,如降雨之云般倾泻箭雨,形如云团。

6.106.8

गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्।
विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः ॥ ६.१०६.८ ॥

迅速拉开弓,弓弯如新月,发出如被雷霆劈裂的山岳般的声响。

6.106.9

उवाच मातलिं रामः सहस्राक्षस्य सारथिम्।
मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥ ६.१०६.९ ॥

罗摩对因陀罗(千眼神)的御者摩多利说:“摩多利,看那愤怒逼近的敌人战车。”

6.106.10

यथापसव्यं पतता वेगेन महता पुनः।
समरे हन्तुमात्मानं तथानेन कृता मतिः ॥ ६.१०६.१० ॥

正如他从左侧再次以极大速度扑来,想在战斗中杀我,这一个也决心要击杀我。

6.106.11

तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः।
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ ६.१०६.११ ॥

因此你要保持警惕,迎向敌人的战车。我想要摧毁他,就像风吹散升起的云一样。

6.106.12

अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्।
रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ॥ ६.१०६.१२ ॥

保持镇定,不慌不乱,心志与目光都坚定,稳稳掌握缰绳,迅速驱动战车。

6.106.13

कामं न त्वं समाधेयः पुरंदररथोचितः।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥ ६.१०६.१३ ॥

你确实配得上因陀罗的战车,无需指教。我一心求战,只是提醒你,并非教导你。

6.106.14

परितुष्टः स रामस्य तेन वाक्येन मातलिः।
प्रचोदयामास रथं सुरसारथिरुत्तमः ॥ ६.१०६.१४ ॥

摩多利因罗摩的这番话而欣喜,诸神中最优秀的御者摩多利驱动战车向前。

6.106.15

अपसव्यं ततः कुर्वन् रावणस्य महारथम्।
चक्रसम्भूतरजसा रावणं व्यवधूनयत् ॥ ६.१०६.१५ ॥

随后,他将罗波那的大战车向左转,以车轮扬起的尘土震撼罗波那。

6.106.16

ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः।
रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ ६.१०६.१६ ॥

于是愤怒的十首罗波那,睁大泛红的双眼,以箭矢攻击正对着他战车的罗摩。

6.106.17

धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्।
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ॥ ६.१०६.१७ ॥

罗摩因受辱而愤怒,将镇定化为怒火,在战斗中拿起因陀罗那张速度极快的弓。

6.106.18

शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्।
तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ ६.१०६.१८ ॥

如太阳光芒般明亮的极速箭矢射出,两个都想置对方于死地的人之间爆发了大战,如同两头傲慢的狮子面对面搏斗。

6.106.19

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः ॥ ६.१०६.१९ ॥

于是诸天神、乾闼婆、悉陀与大仙众聚集观看双车之战,渴望罗婆那的毁灭。

6.106.20

समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः।
रावणस्य विनाशाय राघवस्योदयाय च ॥ ६.१०६.२० ॥

可怖而令人毛骨悚然的凶兆出现,预示罗婆那的毁灭与罗怙之裔的兴起。

6.106.21

ववर्ष रुधिरं देवो रावणस्य रथोपरि।
वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः ॥ ६.१०६.२१ ॥

天神向罗婆那的战车降下血雨;猛烈的旋风逆向(自右向左)回旋。

6.106.22

महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले।
येन येन रथो याति तेन तेन प्रधावति ॥ ६.१०६.२२ ॥

天空中盘旋的一大群秃鹫跟随着他;战车驶向何处,它们便向那里俯冲。

6.106.23

संध्यया चावृता लङ्का जपापुष्पनिकाशया।
दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा ॥ ६.१०६.२३ ॥

楞伽被如扶桑花色的暮霞笼罩,即使在白昼,大地也仿佛燃烧起来。

6.106.24

सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः।
विषादयंस्ते रक्षांसि रावणस्य तदाहिताः ॥ ६.१०६.२४ ॥

巨大的流星伴随着雷鸣与巨响坠落,降临在罗婆那的罗刹身上,使他们陷入忧惧。

6.106.25

रावणश्च यतस्तत्र प्रचचाल वसुंधरा।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ ६.१०६.२५ ॥

罗波那所在之处大地震动,击打中的罗刹们的手臂仿佛被抓住一般。

6.106.26

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः।
दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः ॥ ६.१०६.२६ ॥

铜红、黄、黑、白色的太阳光线坠落,在罗波那面前看起来如同山中的矿脉。

6.106.27

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ ६.१०६.२७ ॥

秃鹫紧随其后,母豺从口中喷出火焰,望着他愤怒而不祥的脸,发出嚎叫。

6.106.28

प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्।
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ॥ ६.१०६.२८ ॥

战场上刮起逆风,扬起尘土,使那罗刹王无法视物。

6.106.29

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः।
दुर्विषह्यस्वरा घोरा विना जलधरोदयम् ॥ ६.१०६.२९ ॥

没有云层升起,因陀罗的雷electric 以难以忍受的可怕巨响从四面落在他的军队上。

6.106.30

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ ६.१०६.३० ॥

所有方向和次方向都被黑暗笼罩;巨大的尘雨使天空难以看清。

6.106.31

कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति।
निपेतुः शतशस्तत्र दारुणा दारुणारुताः ॥ ६.१०६.३१ ॥

群群八哥发出可怕的喧嚣,成百上千地向那辆战车坠落,发出凄厉的叫声。

6.106.32

जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ ६.१०६.३२ ॥

他的马从后股迸出火花,从眼中不断流下泪水,火与水同样涌出。

6.106.33

एवंप्रकारा बहवः समुत्पाता भयावहाः।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥ ६.१०६.३३ ॥

此类令人恐惧的种种可怕征兆,为罗波那的毁灭而显现。

6.106.34

रामस्यापि निमित्तानि सौम्यानि च शिवानि च।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ ६.१०६.३४ ॥

罗摩也出现了吉祥与善兆,处处预示着胜利。

6.106.35

निमित्तानीह सौम्यानि राघवः स्वजयाय वै।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ ६.१०६.३५ ॥

罗怙之后见到此地的吉兆,视为自己胜利的征兆,极为欢喜,以为罗波那已经被杀。

6.106.36

ततो निरीक्ष्यात्मगतानि राघवो
रणे निमित्तानि निमित्तकोविदः।
जगाम हर्षं च परां च निर्वृतिं
चकार युद्धे ह्यधिकं च विक्रमम् ॥ ६.१०६.३६ ॥

于是精通兆象的罗怙之后,在战场上看到与自己相关的种种兆象,获得了至高的喜悦与安宁,并在战斗中展现出更大的勇武。