Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.109.1

भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे।
शोकवेगपरीतात्मा विललाप विभीषणः ॥ ६.१०९.१ ॥

毗毗沙那见哥哥死于战场、败倒在地,心被悲痛的浪潮淹没,便悲叹起来。

6.109.2

वीरविक्रान्त विख्यात प्रवीण नयकोविद।
महार्हशयनोपेत किं शेषे निहतो भुवि ॥ ६.१०९.२ ॥

啊,英勇的战士,名声显赫、才干出众、通晓政略者!你本配得上华贵的床榻,为何被杀倒卧在地上?

6.109.3

निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ ६.१०९.३ ॥

他那长长的、不动的双臂,戴着臂钏,被甩落在地;歪斜的王冠闪耀着如太阳般的光辉。

6.109.4

तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्।
काममोहपरीतस्य यत् तन्न रुचितं तव ॥ ६.१०९.४ ॥

啊,英雄!我先前所说的事now发生了;你因被欲望与迷惑所困,并不喜欢我的话。

6.109.5

यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः।
न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः।
न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः ॥ ६.१०९.५ ॥

这是傲慢的结果,而你自己却极为看重它:不是因为普拉哈斯塔,也不是因为因陀罗耆特,也不是因为其他人;不是因为大车将军鸠婆羯罗拿,不是因为阿提迦耶,也不是因为那罗安塔迦。

6.109.6

गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः।
गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता ॥ ६.१०९.६ ॥

善谋者的桥梁已逝;法的化身已逝;勇气的精华已逝;善用双手者的依靠也已逝去。

6.109.7

आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः।
अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे ॥ ६.१०९.७ ॥

当这位持械者中最杰出的英雄倒在地上时,太阳坠落于地,月亮沉入黑暗,火焰熄灭,努力也归于虚无。

6.109.8

किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ६.१०९.८ ॥

如今生气已离此世,还剩下什么呢?战场上,罗刹中的猛虎如同沉睡般躺卧在尘土之中。

6.109.9

धृतिप्रवालः प्रसभाग्र्यपुष्प-
स्तपोबलः शौर्यनिबद्धमूलः।
रणे महान् राक्षसराजवृक्षः
सम्मर्दितो राघवमारुतेन ॥ ६.१०९.९ ॥

罗刹王那棵大树,以坚韧为嫩芽,以猛烈之力为最好的花朵,以苦行之力为力量,根基牢系于勇武,却在战场上被罗怙后裔之风摧折。

6.109.10

तेजोविषाणः कुलवंशवंशः
कोपप्रसादापरगात्रहस्तः।
इक्ष्वाकुसिंहावगृहीतदेहः
सुप्तः क्षितौ रावणगन्धहस्ती ॥ ६.१०९.१० ॥

罗波那的香象,以光辉为象牙,乃家族之中的嫡裔,以怒与恩为其余肢体与鼻,身躯被伊刹婆诃族之狮擒住,如今沉睡于地。

6.109.11

पराक्रमोत्साहविजृम्भितार्चि-
र्निःश्वासधूमः स्वबलप्रतापः।
प्रतापवान् संयति राक्षसाग्नि-
र्निर्वापितो रामपयोधरेण ॥ ६.१०९.११ ॥

那罗刹之火,焰以勇猛与热情燃烧,烟即其气息,威势即其自身之力,如今在战场上被罗摩这朵雨云浇熄。

6.109.12

सिंहर्क्षलाङ्गूलककुद्विषाणः
पराभिजिद्गन्धनगन्धवाहः।
रक्षोवृषश्चापलकर्णचक्षुः
क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ ६.१०९.१२ ॥

狮子、熊、尾、峰与角;征服敌人者,携带无香之香;罗刹中的公牛,耳目不安,被地上之王如虎者击倒,疲惫倒下。

6.109.13

वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ ६.१०९.१३ ॥

对说着有理之言、已确定所见明显之义的毗缚栗拿,陷于悲伤的罗摩如此说道。

6.109.14

नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥ ६.१०९.१४ ॥

他并非在战中毁灭,也非僵然不动;他勇猛无比,志气极为高昂远大。无所畏惧地倒下了。

6.109.15

नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ ६.१०९.१५ ॥

坚守刹帝利之法、怀着上升之望而倒在战场上的人,被杀之后不会这样悲叹。

6.109.16

येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता।
तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥ ६.१०९.१६ ॥

那位智者曾在战中使三界与因陀罗都惊惧;如今他已与时运相连,此时不是悲悼的时候。

6.109.17

नैकान्तविजयो युद्धे भूतपूर्वः कदाचन।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥ ६.१०९.१७ ॥

战斗中从来不曾有绝对的胜利;英雄或被敌人所杀,或在战斗中杀死敌人。

6.109.18

इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता।
क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः ॥ ६.१०९.१८ ॥

这是先祖所定、为刹帝利所认可的道路:战死的刹帝利不值得悲伤,这便是定论。

6.109.19

तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ ६.१०९.१९ ॥

因此,看清这一定论,依于真理,摆脱悲痛的热病,现在应当思考此后该做的职责。

6.109.20

तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः।
उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ॥ ६.१०९.२० ॥

对那位说完话的勇猛王子,被悲痛煎熬的毗भीषण随即为兄长的利益说道:

6.109.21

योऽयं विमर्देष्वविभग्नपूर्वः
सुरैः समस्तैरपि वासवेन।
भवन्तमासाद्य रणे विभग्नो
वेलामिवासाद्य यथा समुद्रः ॥ ६.१०९.२१ ॥

此人在战斗中从未被打败——即便诸神全体、甚至因陀罗也不能使之败北——却在遇到您之后,在战场上溃败,如同大海抵达岸边而碎裂。

6.109.22

अनेन दत्तानि वनीपकेषु
भुक्ताश्च भोगा निभृताश्च भृत्याः।
धनानि मित्रेषु समर्पितानि
वैराण्यमित्रेषु च यापितानि ॥ ६.१०९.२२ ॥

他向乞丐布施,享受欢乐,妥善供养仆从;把财富托付给朋友,而对敌人则延续仇怨。

6.109.23

एषोऽहिताग्निश्च महातपाश्च
वेदान्तगः कर्मसु चाग्र्यशूरः।
एतस्य यत् प्रेतगतस्य कृत्यं
तत् कर्तुमिच्छामि तव प्रसादात् ॥ ६.१०९.२३ ॥

此人持守圣火,是大苦行者,精通吠檀多,在祭祀之事上是第一勇士。我愿蒙您恩准,为他这位已入亡者之境的人行其应有的葬仪。

6.109.24

स तस्य वाक्यैः करुणैर्महात्मा
सम्बोधितः साधु विभीषणेन।
आज्ञापयामास नरेन्द्रसूनुः
स्वर्गीयमाधानमदीनसत्त्वः ॥ ६.१०९.२४ ॥

大智者在毗毗沙那充满怜悯的话语安慰下,这位无畏心志的国王之子下令举行配得上天界的火葬仪式。

6.109.25

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ ६.१०९.२५ ॥

至死方休的仇怨已经了结,我们的目的也已达成。请按照你的方式为他举行葬礼,也让我的葬礼同样如此。