蚁垤《罗摩衍那》 · 篇 6.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.11.1
स बभूव कृशो राजा मैथिलीकाममोहितः।
असन्मानाच्च सुहृदां पापः पापेन कर्मणा ॥ ६.११.१ ॥
那位国王因对迈提利的欲望而迷惑,变得消瘦;因为轻慢了朋友,这罪人因罪业而变成如此。
6.11.2
अतीव कामसम्पन्नो वैदेहीमनुचिन्तयन्।
अतीतसमये काले तस्मिन् वै युधि रावणः।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ ६.११.२ ॥
被欲望所支配,不断思念维德希,罗波那与大臣和朋友们商议,认为时机已经成熟,在那场战斗之后经过的时间里。
6.11.3
स हेमजालविततं मणिविद्रुमभूषितम्।
उपगम्य विनीताश्वमारुरोह महारथम् ॥ ६.११.३ ॥
他走近那辆覆盖金网、以宝石和珊瑚装饰、驾着训练有素骏马的大战车,登上了它。
6.11.4
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्।
प्रययौ रक्षसां श्रेष्ठो दशग्रीवः सभां प्रति ॥ ६.११.४ ॥
他登上那辆声如大云的上乘战车,罗刹中最杰出的十首王便朝议事厅出发了。
6.11.5
असिचर्मधरा योधाः सर्वायुधधरास्ततः।
राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥ ६.११.५ ॥
随后,手持刀盾、执掌各种兵器的战士们,走在罗刹王的前方出发了。
6.11.6
नानाविकृतवेषाश्च नानाभूषणभूषिताः।
पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्तदा ॥ ६.११.६ ॥
他们身穿各式怪异的装束,佩戴各种饰物,从两侧和后方将他团团围住,一同前行。
6.11.7
रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ६.११.७ ॥
大战车武士们迅速跟随十首之王升起,乘坐战车、狂躁的良象和嬉戏的骏马。
6.11.8
गदापरिघहस्ताश्च शक्तितोमरपाणयः।
परश्वधधराश्चान्ये तथान्ये शूलपाणयः।
ततस्तूर्यसहस्राणं संजज्ञे निःस्वनो महान् ॥ ६.११.८ ॥
有人手持铁锤与铁棒,有人持长矛与投枪,另一些人执战斧,还有人持三叉戟。这时,成千上万的乐器发出了巨大的轰鸣。
6.11.9
तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे।
स नेमिघोषेण महान् सहसाभिनिनादयन् ॥ ६.११.९ ॥
罗波那前往议事厅时,响起了轰鸣的海螺声。那位大战车武士以车轮的隆隆声,突然使四方回荡。
6.11.10
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः।
विमलं चातपत्रं च प्रगृहीतमशोभत ॥ ६.११.१० ॥
这位大战车武士进入了充满光辉的王道,他头顶高举的洁白伞盖熠熠生辉。
6.11.11
पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा।
हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥ ६.११.११ ॥
罗刹王的白色伞盖如满月般光耀,内部有金色的花束,伞柄是纯净的水晶。
6.11.12
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे।
ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ ६.११.१२ ॥
他的左右两侧闪耀着牦牛尾拂尘。站在地上的所有人都合掌向坐在战车上的他致敬。
6.11.13
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे।
राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिंदमः ॥ ६.११.१३ ॥
诸罗刹向罗刹之最者低首致敬,降伏敌人者被罗刹们以胜利的祝福所赞颂。
6.11.14
आससाद महातेजाः सभां विरचितां तदा।
सुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ॥ ६.११.१४ ॥
于是那位大光辉者进入了那装饰精美的议事厅,厅中铺满金银,内部以纯净水晶砌成。
6.11.15
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम्।
तां पिशाचशतैः षड्भिरभिगुप्तां सदाप्रभाम् ॥ ६.११.१५ ॥
身体光辉耀眼,进入那以金片为顶、常由六百名毕舍遮守护、永恒光明的大厅。
6.11.16
प्रविवेश महातेजाः सुकृतां विश्वकर्मणा।
तस्यां तु वैदूर्यमयं प्रियकाजिनसंवृतम् ॥ ६.११.१६ ॥
大光辉者进入了由毗首羯摩精心建造的大厅;厅中有一座青玉宝座,覆以普利雅卡鹿皮。
6.11.17
महत्सोपाश्रयं भेजे रावणः परमासनम्।
ततः शशासेश्वरवद्दूताँल्लघुपराक्रमान् ॥ ६.११.१७ ॥
罗波那坐上那张带靠背的大宝座,即至尊之座;随后如同主宰,他命令那些勇武敏捷的使者。
6.11.18
समानयत मे क्षिप्रमिहैतान् राक्षसानिति।
कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ॥ ६.११.१८ ॥
“速将这些罗刹带到我这里来。”我知道,因为敌人,有一件大事要去做。
6.11.19
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः।
अनुगेहमवस्थाय विहारशयनेषु च।
उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ ६.११.१९ ॥
罗刹们听到这道命令,便在楼卡城中四处巡行,逐家驻守,在游乐之处、寝室之中以及园林里,鼓励其他罗刹,仿佛无所畏惧。
6.11.20
ते रथान्तचरा एके दृप्तानेके दृढान् हयान्।
नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ ६.११.२० ॥
其中一些在战车之间行走;一些人骑上高傲而强健的骏马,一些人骑上大象,另一些人则步行前往。
6.11.21
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः।
सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ ६.११.२१ ॥
那座城市里满是战车、象和马;它们俯冲而下,闪耀如同布满金翅鸟的天空。
6.11.22
ते वाहनान्यवस्थाय यानानि विविधानि च।
सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ ६.११.२२ ॥
他们留下坐骑和各种车辆,步行进入议事厅,如同狮子走进山洞。
6.11.23
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ ६.११.२३ ॥
他们拜倒抱住国王的双足,受到国王的礼遇。有人坐在座位上,有人坐在草席上,也有人坐在地上。
6.11.24
ते समेत्य सभायां वै राक्षसा राजशासनात्।
यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ ६.११.२४ ॥
依国王的命令,那些罗刹在议事厅中聚集,并按各自的身份,前来侍奉罗刹之主罗波那。
6.11.25
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ ६.११.२५ ॥
精通既定事务的首席谋士,以及具备美德、通晓一切、见识明达的大臣,也都聚集到了那里。
6.11.26
समीयुस्तत्र शतशः शूराश्च बहवस्तथा।
सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥ ६.११.२६ ॥
数以百计的勇士和其他许多人在那金色的大殿中聚集,为了一切事务的安康。
6.11.27
ततो महात्मा विपुलं सुयुग्यं
रथं वरं हेमविचित्रिताङ्गम्।
शुभं समास्थाय ययौ यशस्वी
विभीषणः संसदमग्रजस्य ॥ ६.११.२७ ॥
于是,心胸宏大、名声显赫的维毗沙那登上一辆宽敞、驾驭良好、华美吉祥、车身饰有金色纹饰的战车,前往兄长的议事大会。
6.11.28
स पूर्वजायावरजः शशंस
नामाथ पश्चाच्चरणौ ववन्दे।
शुकः प्रहस्तश्च तथैव तेभ्यो
ददौ यथार्हं पृथगासनानि ॥ ६.११.२८ ॥
这位弟弟先通报了自己的姓名,然后在兄长足下礼拜;他又给了шука、普拉哈斯塔以及其他人各自适宜的座位。
6.11.29
सुवर्णनानामणिभूषणानां
सुवाससां संसदि राक्षसानाम्।
तेषां परार्घ्यागुरुचन्दनानां
स्रजां च गन्धाः प्रववुः समन्तात् ॥ ६.११.२९ ॥
在那些身佩金饰与各色宝珠、衣着华美的罗刹的议会中,上好的沉香与檀香花环的芬芳四面弥漫。
6.11.30
न चुक्रुशुर्नानृतमाह कश्चित्
सभासदो नापि जजल्पुरुच्चैः।
संसिद्धार्थाः सर्व एवोग्रवीर्या
भर्तुः सर्वे ददृशुश्चाननं ते ॥ ६.११.३० ॥
无人喧哗,无人妄言,议会成员也不大声交谈。那些勇猛异常、目的已达的人,都注视着他们君主的面容。
6.11.31
स रावणः शस्त्रभृतां मनस्विनां
महाबलानां समितौ मनस्वी।
तस्यां सभायां प्रभया चकाशे
मध्ये वसूनामिव वज्रहस्तः ॥ ६.११.३१ ॥
在那群执持兵器、大力而意志坚定的勇士集会中,意志坚定的罗婆那以其光辉闪耀,犹如手持金刚杵的因陀罗在诸婆苏之中。