Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.111

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.111.1

तासां विलपमानानां तदा राक्षसयोषिताम्।
ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ ६.१११.१ ॥

そのとき、嘆き悲しむ羅刹の女たちのうち、正妻で愛されながらも哀れなマンドーダリーが夫を見つめた。

6.111.2

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा।
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥ ६.१११.२ ॥

不可思議な行いのラーマによって十頭のラーヴァナが殺されたのを見て、哀れなマンドーダリーはそこで夫のために嘆いた。

6.111.3

ननु नाम महाबाहो तव वैश्रवणानुज।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ॥ ६.१११.३ ॥

ああ、大いなる腕を持つ方、ヴァイシュラヴァナ(クベーラ)の弟よ!あなたが怒れば、プランダラ(インドラ)でさえ御前に立つのを恐れたものだ。

6.111.4

ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः।
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥ ६.१११.४ ॥

偉大な聖仙やに名高いガンダルヴァ、そしてチャーラナたちも、あなたへの恐れから四方へ逃げ去ったではありませんか。

6.111.5

स त्वं मानुषमात्रेण रामेण युधि निर्जितः।
न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर ॥ ६.१११.५ ॥

ただの人間であるラーマに戦いで敗れたあなたは、恥ずかしくないのですか、王よ?羅刹王よ、これはいったい何なのですか。

6.111.6

कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्।
अविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ६.१११.६ ॥

三界を制圧し、栄光と武勇に満ちた、征服されざるあなたを、森をさまよう一人の人間がどうして殺せたのでしょうか。

6.111.7

मानुषाणामविषये चरतः कामरूपिणः।
विनाशस्तव रामेण संयुगे नोपपद्यते ॥ ६.१११.७ ॥

人間の及ばぬ所を歩き、望む姿を取るお前が、戦いでラーマによって滅ぼされることはありえない。

6.111.8

न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे।
सर्वतः समुपेतस्य तव तेनाभिमर्षणम् ॥ ६.१११.८ ॥

そして私は、お前が四方を囲まれた軍の先頭にいたときに、ラーマがお前を打ち負かしたというこの行いを信じない。

6.111.9

अथवा रामरूपेण कृतान्तः स्वयमागतः।
मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ ६.१११.९ ॥

あるいは死神ヤマ自身がラーマの姿で現れ、お前を滅ぼすために誰も想像しえなかった幻術を仕掛けたのだ。

6.111.10

अथवा वासवेन त्वं धर्षितोऽसि महाबल।
वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ ६.१११.१० ॥

あるいは、大力の者よ、お前はインドラに打ち負かされたのかもしれない。だが戦場でお前を見ることさえ、インドラにどれほどの力があろうか。

6.111.11

महाबलं महावीर्यं देवशत्रुं महौजसम्।
व्यक्तमेष महायोगी परमात्मा सनातनः ॥ ६.१११.११ ॥

お前のように大力で勇猛な神々の敵、大いなる輝きを持つ者よ。これは明らかに偉大なヨーギンであり、永遠の最高我である。

6.111.12

अनादिमध्यनिधनो महतः परमो महान्।
तमसः परमो धाता शङ्खचक्रगदाधरः ॥ ६.१११.१२ ॥

始めも中間も終わりもなく、大原理よりも高く、偉大なる者。闇の彼方の維持者であり、法螺貝・輪・棍棒を持つ者。

6.111.13

श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः।
मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः ॥ ६.१११.१३ ॥

胸にシュリーヴァトサの印を持ち、常に吉祥に満ち、不敗で、永遠にして不動のヴィシュヌは、真の武勇をもって人の姿をとった。

6.111.14

सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः।
सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया ॥ ६.१११.१४ ॥

猿の姿をとった諸神全員に囲まれ、全世界の主である吉祥なる方は、諸世界の利益を願って(これを行った)。

6.111.15

स राक्षसपरीवारं देवशत्रुं भयावहम्।
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ॥ ६.१११.१५ ॥

羅刹の眷属とともにいる彼は神々の敵であり、恐怖をもたらす者である。昔、あなたは諸感覚に打ち勝って三界を征服した。

6.111.16

स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः।
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः ॥ ६.१११.१६ ॥

その敵意を思い出すかのように、彼は自らの諸感覚によって打ち負かされた。ちょうどジャナスターナで多くの羅刹に囲まれていた時に。

6.111.17

खरस्तु निहतो भ्राता तदा रामो न मानुषः।
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ॥ ६.१११.१७ ॥

そのとき、あなたの兄カラは殺された。そしてラーマは普通の人間ではなかった。神々でさえ入りがたい都ラṅカーに——

6.111.18

प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्।
क्रियतामविरोधश्च राघवेणेति यन्मया ॥ ६.१११.१८ ॥

ハヌマーンが勇力によって侵入した時、我々は苦悩した。ラーガヴァ(ラーマ)のなすことに妨げがあってはならない——私が言ったのはこのことである。

6.111.19

उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता।
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव ॥ ६.१११.१९ ॥

私が言っても聞き入れない。その結果がもう来たのだ。羅刹の中の最上の者よ、突然おまえはシーターを欲してしまった。

6.111.20

ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च।
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ॥ ६.१११.२० ॥

おまえの権勢と身体と一族の滅びのために、悪しき心の者よ、アルンダティーやローヒニーにも勝るあの女性をおまえは望んでいる。

6.111.21

सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्।
वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम् ॥ ६.१११.२१ ॥

尊敬すべきシーターを辱めたことで、おまえは不相応なことをした。彼女は大地の中の大地、吉祥天女の中の吉祥天女のように、夫を慕う女性なのだ。

6.111.22

सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्।
आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम् ॥ ६.१११.२२ ॥

あらゆる肢体に非のない吉祥なシーターを、人なき森へ欺いて連れ去り、その哀れな女性をさらったことで、おまえは自らを汚した。

6.111.23

अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्।
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥ ६.१११.२३ ॥

マイティリーとの結合の欲望は果たせなかったが、主よ、貞淑な妻の苦行によって、おまえはすでに焼き尽くされているのだ。

6.111.24

तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्।
देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ ६.१११.२४ ॥

あの細い腰の女性を辱めていたその時に焼かれなかったのだから、今やインドラと火神を先頭に、すべての神々がおまえを恐れている。

6.111.25

अवश्यमेव लभते फलं पापस्य कर्मणः।
भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ ६.१११.२५ ॥

罪深い行いをした者は必ずその果報を受ける。夫よ、時が来れば行為者は必ずそれを受けるのであり、これに疑いはない。

6.111.26

शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ ६.१११.२६ ॥

善を行う者は善を得、悪を行う者は悪を受ける。ヴィビーシャナは幸福を得た。だがお前はこのような罪を負ってしまったのだ。

6.111.27

सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः।
अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे ॥ ६.१११.२७ ॥

お前には、美しさで彼女にまさる他の女たちもいる。愛神の支配下に落ちたお前は、迷いのためにそれが分からないのだ。

6.111.28

न कुलेन न रूपेण न दाक्षिण्येन मैथिली।
मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे ॥ ६.१११.२८ ॥

家柄によっても、美貌によっても、温和さによっても、マイティリーは私より優れてもおらず、私と等しくもない。お前はこれを迷いのために理解していない。

6.111.29

सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः।
तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः ॥ ६.१११.२९ ॥

あらゆる存在にとって、死は決して理由なく訪れることはない。お前にとってもこの死は同じであり、マイティリーがその兆しとなったのだ。

6.111.30

सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः।
मैथिली सह रामेण विशोका विहरिष्यति ॥ ६.१११.३० ॥

シーターを原因として生じた死を、お前は遠くから招き寄せたのだ。マイティリーはラーマとともに、憂いなく暮らすであろう。

6.111.31

अल्पपुण्या त्वहं घोरे पतिता शोकसागरे।
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ॥ ६.१११.३१ ॥

わたしは功徳が少なく、恐ろしい悲しみの海に落ちてしまいました。カイラーサ、マンダラ、メール、そしてチャイトララタの森で、わたしは幸せを味わったものです。

6.111.32

देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया।
विमानेनानुरूपेण या याम्यतुलया श्रिया ॥ ६.१११.३२ ॥

あなたと共に神々のすべての園を散策し、ふさわしい空飛ぶ車に乗って、比べるもののない栄華のうちに進んだものでした。

6.111.33

पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा।
भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव ॥ ६.१११.३३ ॥

さまざまな国々を眺め、色とりどりの花輪と衣をまとっていた私は、勇士よ、あなたが殺されたために、その欲望の楽しみから転落してしまいました。

6.111.34

सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम्।
हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ॥ ६.१११.३४ ॥

わたしは同じ者でありながら、今は別の者となってしまいました。王たちの移ろいやすい栄華など、恥ずべきものです。ああ王よ、あなたの繊細で美しい眉、きめ細かな肌、高く整った鼻の御顔よ!

6.111.35

कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः।
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ॥ ६.१११.३५ ॥

輝き、威光、光明において月、蓮、太陽に等しく、冠の頂で輝き、銅色の顔をもち、きらめく耳飾りを付けた(御顔)。

6.111.36

मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु।
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ॥ ६.१११.३६ ॥

酔いに乱れ、瞳を揺らしながら、酒宴の場で色とりどりの花輪をつけ、美しく、めでたく、やさしい微笑みと言葉を交わしていた御姿。

6.111.37

तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो।
रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः ॥ ६.१११.३७ ॥

ああ主よ、今やあなたの顔はかつてのように輝かない。ラーマの矢に貫かれ、血に赤く染まり、血の流れが溢れている。

6.111.38

विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः।
हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी ॥ ६.१११.३८ ॥

脳と髄は散り、戦車の塵に乾き果てた——ああ!私に訪れたこの最後の状態、寡婦となる運命が来てしまった。

6.111.39

या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया।
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ॥ ६.१११.३९ ॥

愚かな私は、これを一度も悟らなかった。父は檀那婆の王、夫は羅刹の主であることを。

6.111.40

पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्।
दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः ॥ ६.१११.४० ॥

「我が子はインドラに勝った者」と思い、私は大いに誇っていた。傲慢な敵を砕く、残忍で、力と勇猛で名高い者たちよ。

6.111.41

अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा।
तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः ॥ ६.१११.४१ ॥

「我が夫たちは誰をも恐れない」——これが私の揺るぎない確信であった。そのように力ある貴方たち、羅刹の中の雄牛よ!

6.111.42

कथं भयमसम्बुद्धं मानुषादिदमागतम्।
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ॥ ६.१११.४२ ॥

人間から来たこの恐怖が、予期せぬままどうして現れたのか。滑らかな青玉のように紺青で、高くそびえる山のように大きい!

6.111.43

केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्।
कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु ॥ ६.१११.४३ ॥

腕輪、腕飾り、猫目石、真珠の首飾りや花輪に輝き、遊楽の園では格別に愛らしく、戦場においても輝きを放っていた。

6.111.44

भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः।
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम् ॥ ६.१११.४४ ॥

飾りの輝きによって稲妻を伴う雨雲のように輝いていたその身体が、今日は鋭い無数の矢に覆われている。

6.111.45

पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते।
श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम् ॥ ६.१११.४५ ॥

今やその身体は再び抱きしめることもできない。触れることさえ難しく、豪猪の針のように、絶え間なく突き刺さった矢に覆われている。

6.111.46

स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्।
क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि ॥ ६.१११.४६ ॥

王よ、要所に深く突き刺さった矢により腱の結びが断たれ、血の色をした黒き御身は地に倒れています。

6.111.47

वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः।
हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ॥ ६.१११.४७ ॥

雷霆の一撃に打たれて砕け散った山のように。ああ、これは夢なのか、真実なのか、お前がラーマに殺されたとは。

6.111.48

त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः।
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ॥ ६.१११.४८ ॥

お前こそは死すらも死なせる者であるべきだった。どうして死の支配下に落ちたのか。三界の富を享受し、三界に恐怖を与えた偉大な方よ。

6.111.49

जेतारं लोकपालानां क्षेप्तारं शंकरस्य च।
दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम् ॥ ६.१११.४९ ॥

彼は世界守護神たちを征服し、シャンカラ(シヴァ)さえも辱めた者、傲慢な者を抑える者であり、その武勇は明らかであった。

6.111.50

लोकक्षोभयितारं च साधुभूतविदारणम्।
ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ ॥ ६.१११.५० ॥

彼は世界を揺るがし、善なる生き物を引き裂く者であり、敵の前で力ずくで傲慢な言葉を吐く者であった。

6.111.51

स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्।
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ॥ ६.१११.५१ ॥

彼は自軍と従者を守る者、残虐な行いをする者を討つ者であり、ダーナヴァの王たちやヤクシャを幾千となく殺した者であった。

6.111.52

निवातकवचानां तु निग्रहीतारमाहवे।
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ॥ ६.१११.५२ ॥

戦いにおいてはニヴァータカヴァチャを制する者、多くの祭祀を破壊する者、そして身内を守る者であった。

6.111.53

धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे।
देवासुरनृकन्यानामाहर्तारं ततस्ततः ॥ ६.१११.५३ ॥

彼はダルマの定めを破り、戦いでは幻術を生み出し、神々・阿修羅・人間の娘たちを幾度となく奪い去った者であった。

6.111.54

शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च।
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ॥ ६.१११.५४ ॥

彼は敵の妻たちに悲嘆を与え、身内の指導者であり、ランカー島の守護者、そして恐ろしい行いをする者であった。

6.111.55

अस्माकं कामभोगानां दातारं रथिनां वरम्।
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ॥ ६.१११.५५ ॥

我らの快楽を与える者、戦車の勇士の中で最も優れ、このような威力を持つ夫が、ラーマによって倒されたのを見て。

6.111.56

स्थिरास्मि या देहमिमं धारयामि हतप्रिया।
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ॥ ६.१११.५६ ॥

愛する者を殺された私は、なおもこの身体を支えて堅固に立っています。ラークシャサの主よ、貴重な寝台に横たわっていたあなた。

6.111.57

इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः।
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि ॥ ६.१११.५७ ॥

どうしてここで土埃にまみれ、地面に眠っているのか。わが子インドラジットが戦いでラクシュマナに倒されたときに。

6.111.58

तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता।
साहं बन्धुजनैर्हीना हीना नाथेन च त्वया ॥ ६.१११.५८ ॥

その時私は激しく打たれ、今日この方の上に倒れてしまいました。親族を失い、あなたという庇護者も失った私は。

6.111.59

विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः।
प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम् ॥ ६.१११.५९ ॥

快楽を失った私は、果てしない年月を嘆き悲しむでしょう。王よ、今日あなたは極めて困難な長い道に旅立ってしまいました。

6.111.60

नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना।
कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि ॥ ६.१११.६० ॥

悲しみに苦しむ私も連れて行ってください。あなたなくして私は生きられません。ここに哀れな私を捨てて、なぜ行こうとするのですか。

6.111.61

दीनां विलपतीं मन्दां किं च मां नाभिभाषसे।
दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम् ॥ ६.१११.६१ ॥

悲しみに沈み嘆き、心も衰えた私に、なぜ語りかけないのですか。ここで覆いもなく立つ私を見ても、本当に怒らないのですか。

6.111.62

निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो।
पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान् ॥ ६.१११.६२ ॥

主よ、市の門から徒歩で出てきた私を見てください。あなたの愛する妻たちも見てください、羞恥の覆いが落ちてしまっています。

6.111.63

बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि।
अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः ॥ ६.१११.६३ ॥

外に出てきたこの人々すべてを見ても、どうして怒らないのですか。あなたの遊び仲間であるこの民は、庇護者もなく嘆き悲しんでいます。

6.111.64

न चैनमाश्वासयसि किं वा न बहुमन्यसे।
यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः ॥ ६.१११.६४ ॥

彼を慰めないのですか、それとも彼を重んじないのですか。王よ、あなたは良家の女性を一人ならず多くの寡婦にしてきました。

6.111.65

पतिव्रता धर्मरता गुरुशुश्रूषणे रताः।
ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ ६.१११.६५ ॥

夫に忠実で法に専心し、年長者に仕えるあの女性たちは、悲嘆に焼かれてあなたを呪い、あなたは他者の支配下に落ちたのです。

6.111.66

त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्।
प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप ॥ ६.१११.६६ ॥

あなたに辱められた女性たちは、そのときあなたを呪い、その呪いは即座に実現しました。王よ、あなたについてのこの噂は、大方真実なのです。

6.111.67

पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले।
कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा ॥ ६.१११.६७ ॥

貞淑な妻の涙は、理由もなく地に落ちることはない。王よ、力で諸世界を征服したお前が、どうしてこのようなことをしたのか。

6.111.68

नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना।
अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया ॥ ६.१११.६८ ॥

武勇を誇るお前は、鹿の姿の計略でラーマを庵から遠ざけ、この卑劣な女盗みを行った。

6.111.69

आनीता रामपत्नी सा अपनीय च लक्ष्मणम्।
कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम् ॥ ६.१११.६९ ॥

ラクシュマナをも遠ざけて、ラーマの妻を連れ去った。しかし戦いにおけるお前の臆病さを、私は一度も思い出さない。

6.111.70

तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम्।
अतीतानागतार्थज्ञो वर्तमानविचक्षणः ॥ ६.१११.७० ॥

それは運命の逆転によって、お前の滅亡の熟した兆しに違いない。過去と未来を知り、現在にも賢いお前が、これを行ったのだ。

6.111.71

मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्।
सत्यवाक् स महाबाहो देवरो मे यदब्रवीत् ॥ ६.१११.७१ ॥

マイティリーが連れ去られたのを見て、思案し、深く溜息をついて、大腕の者よ、言葉に偽りのない私の義弟が言ったとおりであった。

6.111.72

अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः।
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ ६.१११.७२ ॥

欲望と怒りから生じ、執着に絡みつく災いにより、主だった羅刹たちの破滅がすでに迫っている。

6.111.73

निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान्।
त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम् ॥ ६.१११.७३ ॥

お前の行いによってこの目的は終わった。これは根を断つ大いなる破滅だ。お前がこれをすべて行い、羅刹の一族を庇護なきものとした。

6.111.74

नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः।
स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते ॥ ६.१११.७४ ॥

力と勇武で名高いお前のために、私は嘆くべきではない。けれど女の性として、私の心は憐れみへと傾く。

6.111.75

सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः।
आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम् ॥ ६.१११.७५ ॥

善行と悪行を携えて、お前は自らの道へ去った。お前の滅びに苦しむ私は、自分自身のために嘆いている。

6.111.76

सुहृदां हितकामानां न श्रुतं वचनं त्वया।
भ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन ॥ ६.१११.७६ ॥

十の頭を持つ者よ!お前は、お前の幸福を願う友の言葉を聞かず、兄弟たちが余すところなく述べた益ある忠告にも耳を貸さなかった。

6.111.77

हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्।
विभीषणेनाभिहितं न कृतं हेतुमत् त्वया ॥ ६.१११.७७ ॥

ヴィビーシャナが理に適い、正しい道理によって、益をもたらし、厳しさのない言葉で語った忠告を、お前は理にかなうものとして行わなかった。

6.111.78

मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा।
न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ ६.१११.७८ ॥

マーリーチャとクンバカルナの言葉、そして私の父の言葉も、お前は行わなかった。力の驕りに酔ったお前には、これがその報いなのだ。

6.111.79

नीलजीमूतसंकाश पीताम्बर शुभाङ्गद।
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः ॥ ६.१११.७९ ॥

青い雨雲のような君、黄色い衣をまとい美しい腕輪をつけた君よ、体を投げ出し血にまみれてなぜ横たわっているのか。

6.111.80

प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे।
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ॥ ६.१११.८० ॥

深く眠っているかのように、悲しみに沈む私に何故答えないのか。大いなる勇気を持ち、戦いに巧みで、決して逃げなかった君よ!

6.111.81

यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे।
उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते ॥ ६.१११.८१ ॥

羅刹の孫娘である私に、なぜ答えないのか。起きよ、起きよ!新たな敗北がもたらされたのに、なぜ横たわっているのか。

6.111.82

अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः।
येन सूदयसे शत्रून् समरे सूर्यवर्चसा ॥ ६.१११.८२ ॥

今日、太陽の光線が恐れもなくラーンカーに入ってきた。君が太陽のように輝き、戦いで敵を滅ぼしていた、その輝きによって。

6.111.83

वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः।
रणे बहुप्रहरणो हेमजालपरिष्कृतः ॥ ६.१११.८३ ॥

雷霆を持つ者(インドラ)の金剛杵のように、君が常に敬ってきたその弓は、戦場で多くの武器を備え、黄金の網で飾られている。

6.111.84

परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा।
प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम् ॥ ६.१११.८४ ॥

君の鉄棍は矢に切り裂かれ千々に砕けて散乱している。愛しい人を抱くように、戦場の大地を抱いてなぜ横たわっているのか。

6.111.85

अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्।
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ॥ ६.१११.८५ ॥

なぜ私を疎んだ女のように、話すことさえ望まないのか。この私の心が千々に砕けないとは、なんと恥ずべきことか!

6.111.86

त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्।
इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा ॥ ६.१११.८६ ॥

「あなたが五大に還ってしまった今、悲しみに苛まれたこの心は張り裂けそうです!」こう嘆き悲しむ彼女の目は涙にあふれ、

6.111.87

स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्।
कश्मलाभिहता सन्ना बभौ सा रावणोरसि ॥ ६.१११.८७ ॥

愛情に満たされた心の彼女は、そのとき気を失った。失神に打たれて崩れ落ちた彼女は、ラーヴァナの胸の上で輝いた。

6.111.88

संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला।
तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः ॥ ६.१११.८८ ॥

夕焼けに染まった雲の上で輝く稲妻のように、彼女は倒れて横たわっていた。彼女を抱き起こした他の妃たちは、深く動揺した。

6.111.89

पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्।
किं ते न विदिता देवि लोकानां स्थितिरध्रुवा ॥ ६.१११.८९ ॥

泣いている他の妃たちは、ひどく泣き続ける彼女を慰めようとした。「女神よ、世界の在り方は無常であることを、あなたは知らないのですか」

6.111.90

दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः।
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ॥ ६.१११.९० ॥

「まことに王の栄華は、十の境遇の移り変わりの中で移ろいやすいものです」。このように言われても、彼女は声を上げて泣き出した。

6.111.91

स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्।
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ॥ ६.१११.९१ ॥

彼女は涙で胸と非常に清らかな顔を洗っていた。そのあいだに、ラーマはヴィビーシャナに言った。

6.111.92

संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्।
तमुवाच ततो धीमान् विभीषण इदं वचः ॥ ६.१११.९२ ॥

兄の葬儀を執り行い、女たちを慰めてください。すると賢明なヴィビーシャナは彼にこの言葉を述べた。

6.111.93

विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्।
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ॥ ६.१११.९३ ॥

知恵をもって熟慮し、謙虚に、ダルマと利益にかなった有益な言葉を述べた。ダルマと誓戒を捨て、残酷で無慈悲で偽りを語る者について。

6.111.94

नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्।
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥ ६.१११.९४ ॥

他人の妻に触れた者の葬儀を執り行うには、私はふさわしくない。兄の姿をしてはいたが、彼は私の敵であり、すべての者に害を与えることを喜んでいた。

6.111.95

रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्।
नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि ॥ ६.१११.९५ ॥

ラーヴァナは尊敬に値しない。年長者としての敬意からは尊ばれるべき人であっても。ラーマよ、地上の人々は私を残酷だと言うだろう。

6.111.96

श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः।
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ॥ ६.१११.९६ ॥

彼の罪過を聞けば、人々は再びこれを善行と呼ぶであろう。それを聞いて、ダルマを守る者の中で最も優れたラーマは大いに喜んだ。

6.111.97

विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः।
तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम् ॥ ६.१११.९७ ॥

言葉に長けたラーマは、言葉を解するヴィビーシャナに言った。「お前の力によって私は勝った。お前にとって大切なことも成し遂げられよう。」

6.111.98

अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर।
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ॥ ६.१११.९८ ॥

「羅刹の王よ、私は必ずお前に相応しいことを言わねばならない。この夜の徘徊者は不法と虚偽に結びついていた。」

6.111.99

तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः।
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥ ६.१११.९९ ॥

「彼は輝かしく、力強く、戦いでは常に勇敢である。百祭の主(インドラ)を先頭とする神々によっても敗れたことはないと聞く。」

6.111.100

महात्मा बलसम्पन्नो रावणो लोकरावणः।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥ ६.१११.१०० ॥

「偉大で力に満ちたラーヴァナ、世界を泣かせる者――敵意は死によってのみ終わる。我らの目的は成就した。」

6.111.101

क्रियतामस्य संस्कारो ममाप्येष यथा तव।
त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् ॥ ६.१११.१०१ ॥

「彼の葬儀を、お前のためにも私のためにもするように行おう。ああ、大いなる腕の者よ、お前の手で作法に従って執り行え。」

6.111.102

क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि।
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥ ६.१११.१०२ ॥

「速やかに法に従ってこれを行え。そうすればお前は栄誉にあずかるだろう。」ラーガヴァの言葉を聞き、ヴィビーシャナは急いで立ち去った。

6.111.103

संस्कारयितुमारेभे भ्रातरं रावणं हतम्।
स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः ॥ ६.१११.१०३ ॥

殺された兄ラーヴァナの葬儀を始めた。羅刹の王ヴィビーシャナはラṅカーの城に入り。

6.111.104

रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्।
शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा ॥ ६.१११.१०४ ॥

彼は急いでラーヴァナの祭火の道具を運び出させた。木製の車、祭火、そして祭官たちも。

6.111.105

तथा चन्दनकाष्ठानि काष्ठानि विविधानि च।
अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ॥ ६.१११.१०५ ॥

同様に白檀の薪と様々な木材、沈香、芳しい品々と香りも。

6.111.106

मणिमुक्ताप्रवालानि निर्यापयति राक्षसः।
आजगाम मुहूर्तेन राक्षसैः परिवारितः ॥ ६.१११.१०६ ॥

その羅刹は宝石・真珠・珊瑚を運び出させた。瞬く間に羅刹たちに囲まれて彼は到着した。

6.111.107

ततो माल्यवता सार्धं क्रियामेव चकार सः।
सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम् ॥ ६.१११.१०७ ॥

その後マーリヤヴァーンとともにその儀式を行った。神聖な金の輿に、絹の衣を着せて彼を載せ、

6.111.108

रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः।
तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥ ६.१११.१०८ ॥

羅刹の王ラーヴァナは、涙に濡れた顔のバラモンたちに、様々な楽器の音の中で賛美されて敬われた。

6.111.109

पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्।
उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥ ६.१११.१०९ ॥

色とりどりの旗と花で飾られた輿を持ち上げ、ヴィビーシャナを先頭に、彼らは進んだ。

6.111.110

दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे।
अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः ॥ ६.१११.११० ॥

皆は南を向き、薪を取って進んだ。そして祭官アドゥヴァリュが燃え上がらせた輝く火もまた進んだ。

6.111.111

शरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः।
अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ॥ ६.१११.१११ ॥

彼に庇護を求めた者たちは皆、彼の前を進んだ。そして後宮の女たちは皆、泣きながら急いで先へ進んだ。

6.111.112

पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः।
रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥ ६.१११.११२ ॥

彼女らは後ろに従い、四方から駆け寄った。深く嘆き悲しみながら、彼女らはラーヴァナを用意された場所に安置した。

6.111.113

चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः।
ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम् ॥ ६.१११.११३ ॥

彼らは白檀の薪、蓮、ヴェティヴェル、白檀を用いて、梵天の儀礼に従って薪を積み上げ、ラーンカヴァ鹿の皮で覆った。

6.111.114

प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्।
वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम् ॥ ६.१११.११४ ॥

彼らは羅刹王のために至高の祖霊祭を行い、南東に向いた祭壇を設け、火を正しい場所に据えた。

6.111.115

पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः।
पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा ॥ ६.१११.११५ ॥

凝乳と澄ましバターに満ちたスルヴァを肩に載せ、足もとに車を運び、そして腿の上に臼を置いた。

6.111.116

दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्।
दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः ॥ ६.१११.११६ ॥

木の器すべて、下の火きり木と上の火きり木、そしてもう一つの杵を置いて、すべてを所定の場所に整えた。

6.111.117

शास्त्रदृष्टेन विधिना महर्षिविहितेन च।
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥ ६.१११.११७ ॥

そこで羅刹たちは、聖典に見られ大仙が定めた儀軌に従い、羅刹王のために祭祀にふさわしい家畜を屠った。

6.111.118

परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्।
गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः ॥ ६.१११.११८ ॥

王のためにギーを塗った敷物を敷き、悲しみに沈んだ心で、ラーヴァナを香と花輪で飾り、その上に横たえた。

6.111.119

विभीषणसहायास्ते वस्त्रैश्च विविधैरपि।
लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा ॥ ६.१११.११९ ॥

ヴィビーシャナとその従者たちは、様々な布で彼を覆い、炒り米を撒いた。その顔は涙に満ちていた。

6.111.120

स ददौ पावकं तस्य विधियुक्तं विभीषणः।
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान् ॥ ६.१११.१२० ॥

ヴィビーシャナは儀軌に従って彼に火を与え、沐浴して濡れた衣をまとい、ダルバ草を混ぜたゴマを捧げた。

6.111.121

उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्।
ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः ॥ ६.१११.१२१ ॥

水に混ぜたものを作法どおりに供え、あの女たちを幾度も慰めてなだめた。

6.111.122

गम्यतामिति ताः सर्वा विविशुर्नगरं ततः।
प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः।
रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत् ॥ ६.१११.१२२ ॥

「行け」と言うと、女たちはみな城内へ入った。女たちが城に入ると、羅刹王ヴィビーシャナはラーマのそばに近づき、謙虚に立った。

6.111.123

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः।
हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा ॥ ६.१११.१२३ ॥

ラーマもまた、軍勢、スグリーヴァ、ラクシュマナとともに、敵を倒して喜びを得た。金剛を持つ者がヴリトラを殺して喜んだように。

6.111.124

ततो विमुक्त्वा सशरं शरासनं
महेन्द्रदत्तं कवचं स तन्महत्।
विमुच्य रोषं रिपुनिग्रहात् ततो
रामः स सौम्यत्वमुपागतोऽरिहा ॥ ६.१११.१२४ ॥

そののち、矢を番えた弓と、マヘーンドラから授かったあの大きな鎧を置き、敵を制圧した後に怒りを捨てて、敵を倒すラーマは穏やかな境地に至った。