蚁垤《罗摩衍那》 · 篇 6.113
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.113.1
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ६.११३.१ ॥
他受到夜行者们的敬重,走进了楞伽城。
6.113.2
प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम्।
ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥ ६.११३.२ ॥
进入楞伽城并向维毗沙那告别后,他得到了允许,于是哈奴曼前往树园。
6.113.3
सम्प्रविश्य यथान्यायं सीताया विदितो हरिः।
ददर्श मृजया हीनां सातङ्कां रोहिणीमिव ॥ ६.११३.३ ॥
哈奴曼按规矩进入,这位为悉多所熟识的猴子,看见她没有装饰、恐惧不安,如同罗希尼星。
6.113.4
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम्।
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ ६.११३.४ ॥
在树下,她被罗刹女们包围,毫无喜悦。他谦卑地、恭敬地俯身上前,向她恭敬地行礼。
6.113.5
दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम्।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा ॥ ६.११३.५ ॥
看见前来的大力哈奴曼,女神悉多当时默然而坐;看见他并想起了往事,她当时便欢喜起来。
6.113.6
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६.११३.६ ॥
哈奴曼看见她温和的面容,这位跳跃猴中的最杰出者,开始转述罗摩的全部话语。
6.113.7
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः।
कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित् ॥ ६.११३.७ ॥
悉多啊,罗摩与须羯里瓦和罗什曼那平安无事。罗摩已完成所愿,杀死了敌人,征服了仇敌,他问候你的平安。
6.113.8
विभीषणसहायेन रामेण हरिभिः सह।
निहतो रावणो देवि लक्ष्मणेन च वीर्यवान् ॥ ६.११३.८ ॥
女神啊,在毗भीषण相助下,罗摩与猴众一同,罗什曼那也一起,杀死了英勇的罗婆那。
6.113.9
प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये।
तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे ॥ ६.११३.९ ॥
女神啊,我带来喜讯,并再次向你致敬。知法者啊,凭借你的威德,罗摩在战斗中成就了伟大的功业。
6.113.10
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा।
रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता ॥ ६.११३.१० ॥
悉多啊,此次胜利已经获得。安心吧,免除忧苦。敌人罗婆那已被杀死,楞伽也已被征服。
6.113.11
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये।
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥ ६.११३.११ ॥
为了你的解救,我立下誓愿,夜不成眠。在大海上架起桥梁,我已完成了这一誓愿。
6.113.12
सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ ६.११३.१२ ॥
你居于罗婆那的住处,不必惊慌,因为楞伽的权柄如今已交由毗भीषण掌管。
6.113.13
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे।
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ ६.११३.१३ ॥
因此,请安心放心;你身在自己的家中。他满心欢喜,急切地想见你,正在前来。
6.113.14
एवमुक्ता तु सा देवी सीता शशिनिभानना।
प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह ॥ ६.११३.१४ ॥
月面的女神悉多听后,被喜悦充满,竟不能说话。
6.113.15
ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम्।
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥ ६.११३.१५ ॥
于是猴中之最对不回答的悉多说道:"女神,你在想什么?为何不与我说话?"
6.113.16
एवमुक्ता हनुमता सीता धर्मपथे स्थिता।
अब्रवीत् परमप्रीता बाष्पगद्गदया गिरा ॥ ६.११३.१६ ॥
哈奴曼如此说后,安住于法道的悉多极为欢喜,以饱含泪水哽咽的声音说道。
6.113.17
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्।
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥ ६.११३.१७ ॥
听到夫君获胜的这一喜讯,我被喜悦所支配,一时竟无言以对。
6.113.18
नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम।
आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम् ॥ ६.११३.१८ ॥
跳跃之最,我思来想去,也找不到足以回报你带来这喜讯的合适之物。
6.113.19
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर।
सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् ॥ ६.११३.१९ ॥
温柔的人啊,猴子啊,即使在大地上,我也看不到能与你讲述这喜讯相称、足以使你快乐的东西。
6.113.20
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च।
राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम् ॥ ६.११३.२० ॥
黄金、金币、种种珠宝,甚至三界的王国,也不足以相当于这番话。
6.113.21
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ ६.११३.२१ ॥
维代希这样说完,猴子满心欢喜,合掌站在悉多面前回答道。
6.113.22
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते ॥ ६.११३.२२ ॥
无可指摘的人啊,你一心为夫君的福祉与欢乐,盼望他获胜,唯有你配说出这样温柔的话语。
6.113.23
तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च।
रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते ॥ ६.११३.२३ ॥
温柔的人啊,你的这番话既有深意又充满温情,胜过堆积如山的种种珠宝,甚至胜过天神的王国。
6.113.24
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ ६.११३.२४ ॥
实在说,我已获得了天国王位等种种福泽,因为我看到罗摩已杀死敌人、大获全胜,安然稳立。
6.113.25
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ ६.११३.२५ ॥
闻其言已,蔓提利(悉多)乃对风之子说了更为吉祥的话。
6.113.26
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम्।
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ ६.११३.२६ ॥
具足殊胜之相,以柔和之德为饰,兼具八支之智,唯汝方堪如此言说。
6.113.27
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः।
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥ ६.११३.२७ ॥
风之子啊,你值得赞美,极为正直;力量、勇武、学识、坚毅、威勇与殊胜的才干,皆在你身。
6.113.28
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः।
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ ६.११३.२८ ॥
光辉、宽容、坚定、沉稳与谦逊,毫无疑问;这些及众多其他德性,唯在汝身上焕然生辉。
6.113.29
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ ६.११३.२९ ॥
于是,他从容而谦恭,欢喜合掌,立于悉多面前,又对悉多说道。
6.113.30
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे।
हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा ॥ ६.११३.३० ॥
若汝许可,我愿杀尽这些昔日威吓过汝的罗刹女。
6.113.31
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ ६.११३.३१ ॥
这些形貌与行为都极为可怖、残忍且目光更加凶狠的罗刹女,正在折磨你——你以夫为神,已来到阿输迦园中。
6.113.32
इह श्रुता मया देवि राक्षस्यो विकृताननाः।
असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया ॥ ६.११३.३२ ॥
女神啊,我在此听见那些面目扭曲的罗刹女奉罗波那之命,一再说出严厉的话。
6.113.33
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ६.११३.३३ ॥
这些形貌扭曲、发丝与目光残酷、极其可怖的罗刹女——我想用种种打击将她们杀死。
6.113.34
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे।
मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः ॥ ६.११३.३४ ॥
说着可怕言语的罗刹女们啊,请赐予我这个恩典:用拳头、用脚跟、用我宽阔的双臂击打她们!
6.113.35
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः।
कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ६.११३.३५ ॥
击打她们的大腿与膝盖,砸碎她们的牙齿,割掉她们的耳朵和鼻子,同样地拔掉她们的头发。
6.113.36
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः।
एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि ॥ ६.११३.३६ ॥
我想将那些对你做过恶事的罗刹女击倒并杀死。光荣的女士啊,如此以众多打击……
6.113.37
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा।
इत्युक्ता सा हनुमता कृपणा दीनवत्सला ॥ ६.११३.३७ ॥
“我本会让那些形貌可怖、先前威胁过你的罗刹女被杀掉。”哈奴曼如此说道,怜惜弱者的悲伤的悉多...
6.113.38
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च।
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ॥ ६.११३.३८ ॥
悉多思量之后,对哈奴曼说道:“那些依附于王庭、奉他人之命行事的人……
6.113.39
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम।
भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च ॥ ६.११३.३९ ॥
哦,猴中最优者!谁会对顺从的侍女发怒呢?正是由于命运不齐与前世的恶业之过……
6.113.40
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते।
मैवं वद महाबाहो दैवी ह्येषा परा गतिः ॥ ६.११३.४० ॥
我所得的一切,皆因自作之业而受果报。大臂者啊,不要这样说;这是神圣而至高的归宿。
6.113.41
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ६.११३.४१ ॥
此事我必得承受,这已注定,由境遇的聚合而成。在罗波那的侍女之中,我虚弱地忍受于此。
6.113.42
आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम्।
हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज ॥ ६.११३.४२ ॥
在罗刹的命令下,这里的罗刹女威胁我。风之子啊,他被杀之后,她们便不再威胁了。
6.113.43
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः।
ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम ॥ ६.११३.४३ ॥
这里有一首古老的、充满法(dharma)的诗句,是熊在老虎身边唱的。听着吧,跳跃者啊。
6.113.44
न परः पापमादत्ते परेषां पापकर्मणाम्।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ६.११३.४४ ॥
善人不会承担作恶者的罪过。应当守护自己的誓约,因为善人以良好的品行为装饰。
6.113.45
पापानां वा शुभानां वा वधार्हाणामथापि वा।
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ ६.११३.४५ ॥
无论是有罪之人、善良之人,还是应当处死之人,高尚者都应施以慈悲;无人应当冒犯。
6.113.46
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ६.११३.४६ ॥
即使那些以伤害世界为乐的残忍罪人作恶,也绝不可做不体面的事。
6.113.47
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः।
प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम् ॥ ६.११३.४७ ॥
悉多如此说完,善于言辞的哈努曼便回答了这位无可指摘的罗摩之妻悉多。
6.113.48
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता।
प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥ ६.११३.४८ ॥
您值得罗摩,是具备德行的正妻。女神啊,请给我带个口信;我将前往罗怙之王所在之处。
6.113.49
एवमुक्ता हनुमता वैदेही जनकात्मजा।
साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम् ॥ ६.११३.४९ ॥
哈奴曼如此说后,迦那迦之女毗提诃说:我想见我那钟爱信徒的夫君。
6.113.50
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः।
हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः ॥ ६.११३.५० ॥
哈奴曼听了她的话,以此欢喜慰藉弥提利,说了这番话。
6.113.51
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्।
स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम् ॥ ६.११३.५१ ॥
今日你将见到面如满月的罗摩,与罗什曼那同在,身边有盟友相伴,已歼灭敌人,犹如诸神之主因陀罗与舍质同在。
6.113.52
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम्।
आजगाम महातेजा हनूमान् यत्र राघवः ॥ ६.११३.५२ ॥
哈奴曼对宛如吉祥天女的悉多如此说后,这位大光明者便前往罗怙之后所在之处。
6.113.53
सपदि हरिवरस्ततो हनूमान्
प्रतिवचनं जनकेश्वरात्मजायाः।
कथितमकथयद् यथाक्रमेण
त्रिदशवरप्रतिमाय राघवाय ॥ ६.११३.५३ ॥
于是,猴中之最哈奴曼立即将阎那伽之主的女儿的回答,依次禀告给如天神中之最的罗怙之后。