Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.116.1

एवमुक्ता तु वैदेही परुषं रोमहर्षणम्।
राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत् ॥ ६.११६.१ ॥

ラーガヴァが怒りのうちにこのような厳しく身の毛もよだつ言葉を語ると、ヴァイデーヒーはそれを聞いて深く苦しんだ。

6.116.2

सा तदाश्रुतपूर्वं हि जने महति मैथिली।
श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत् ॥ ६.११६.२ ॥

その大勢の人々の前で、かつて聞いたこともない夫の恐ろしい言葉を聞き、マイティリーは恥じて身を伏せた。

6.116.3

प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा।
वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ६.११६.३ ॥

その言葉の矢が自分の体に突き刺さるかのように、棘で刺し貫かれたかのように、ジャナカの娘は激しく涙を流した。

6.116.4

ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ ६.११६.४ ॥

そして涙に濡れた顔をぬぐいながら、ゆっくりと嗚咽まじりの声で夫にこう言った。

6.116.5

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ६.११६.५ ॥

勇士よ、なぜ私にこのような不相応で耳に痛く粗暴な言葉を聞かせるのですか。ありふれた男がありふれた女に話すように。

6.116.6

न तथास्मि महाबाहो यथा मामवगच्छसि।
प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे ॥ ६.११६.६ ॥

大いなる腕を持つ方よ、あなたが私をそう思っているような者ではありません。私自身の行いを信じてください。あなたに誓います。

6.116.7

पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे।
परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ६.११६.७ ॥

女性一般の振る舞いを見て私の本性を疑うのなら、もし私を試したのなら、その疑いを捨てなさい。

6.116.8

यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो।
कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ६.११६.८ ॥

主よ、私が受けた身体の接触において、私は無力でした。そこに私自身の意志の過ちはありません。その点では運命が咎められるべきです。

6.116.9

मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते।
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी ॥ ६.११६.९ ॥

私の心は私の意のままになり、あなたのもとにあります。しかし私の身体が他者に支配されたとき、無力な私に何ができたでしょうか。

6.116.10

सह संवृद्धभावेन संसर्गेण च मानद।
यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम् ॥ ६.११६.१० ॥

誉れを与える方よ、共に育んだ愛情と共に過ごした日々によってさえ、あなたが私を知らなかったのなら、そのために私は永遠に滅びたのです。

6.116.11

प्रेषितस्ते महावीरो हनुमानवलोककः।
लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता ॥ ६.११६.११ ॥

王よ、あなたが斥候として遣わした大勇士ハヌマーンが、ラṅカーにいた私を見つけたとき、なぜその時に私を解放しなかったのですか。

6.116.12

प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्।
त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥ ६.११६.१२ ॥

英雄よ、この猿の目の前で、その言葉の直後にあなたが私を見捨てていたなら、私は自ら命を絶っていたでしょう。

6.116.13

न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्।
सुहृज्जनपरिक्लेशो न चायं विफलस्तव ॥ ६.११६.१३ ॥

お前のこの努力は無駄にはならない、命を危うくしたとしても。そして友人たちの苦労もお前にとって無駄ではない。

6.116.14

त्वया तु नृपशार्दूल रोषमेवानुवर्तता।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ ६.११६.१४ ॥

しかし王の中の虎よ、お前はただ怒りに従い、つまらぬ人間のように、女であることだけを前面に置いてしまった。

6.116.15

अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्।
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ ६.११६.१५ ॥

ジャナカからではなく大地から生まれたという口実のもと、ああ行いを知る者よ、お前は私の行いをほとんど顧みなかった。

6.116.16

न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः।
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ ६.११६.१६ ॥

若い頃に私が握ったその手を、お前は証拠とは認めなかった。私の信心も品行も、すべてお前は背後に置いてしまった。

6.116.17

उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम् ॥ ६.११६.१७ ॥

悲しみに沈み、思いに耽る ラクシュマナに、シーターは語った。

6.116.18

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्।
मिथ्यापवादोपहता नाहं जीवितुमुत्सहे ॥ ६.११६.१८ ॥

スミトラーの子よ、私のために火葬の薪を用意せよ。これがこの苦難の薬である。偽りの中傷に打ちひしがれた私には、生きる勇気がない。

6.116.19

अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि।
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ ६.११६.१९ ॥

徳に満足しない夫によって人々の集まりで捨てられた私にとって、ふさわしい道は火に入ることです。

6.116.20

एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा।
अमर्षवशमापन्नो राघवं समुदैक्षत ॥ ६.११६.२० ॥

ヴァイデーヒーがこう言うと、敵の勇士を討つラクシュマナは憤りに支配され、ラーガヴァを見つめた。

6.116.21

स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्।
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ ६.११६.२१ ॥

ラーマの心の願いを、その様子から察して、勇猛なサウミトリはラーマの意に従って火葬の薪を築いた。

6.116.22

नहि रामं तदा कश्चित् कालान्तकयमोपमम्।
अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत् सुहृत् ॥ ६.११६.२२ ॥

そのとき、死と閻魔のようなラーマを慰めたり、話しかけたり、見つめたりさえできる友はいなかった。

6.116.23

अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्।
उपावर्तत वैदेही दीप्यमानं हुताशनम् ॥ ६.११६.२३ ॥

うつむいて立つラーマを右回りに回ってから、ヴァイデーヒーは燃え盛る火へと向き直った。

6.116.24

प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ ६.११६.२४ ॥

神々とバラモンに礼拝し、マイティリーは合掌して火のそばでこう言った。

6.116.25

यथा मे हृदयं नित्यं नापसर्पति राघवात्।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ ६.११६.२५ ॥

私の心が常にラーガヴァから離れなかったように、世界の証人であるパーヴァカが私を四方から守りますように。

6.116.26

यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ ६.११६.२६ ॥

ラーガヴァが私を邪ではなく清浄な行いの者と知っておられるように、世界の証人であるパーヴァカが私を四方から守りますように。

6.116.27

कर्मणा मनसा वाचा यथा नातिचराम्यहम्।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ ६.११६.२७ ॥

行い、心、言葉において、一切の法を知るラーガヴァに背いたことがないように、パーヴァカが私を守りますように。

6.116.28

आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च।
अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा।
यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् ॥ ६.११६.२८ ॥

尊き太陽、風、方角、月、昼、二つの夕暮れ、夜、大地、そして他の者たちも、私が善い行いを備えていることを知ってくださいますように。

6.116.29

एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्।
विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना ॥ ६.११६.२९ ॥

このように言って、ヴァイデーヒーは火を右回りに巡り、恐れのない心で燃え盛る炎に入った。

6.116.30

जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः।
ददर्श मैथिलीं दीप्तां प्रविशन्तीं हुताशनम् ॥ ६.११६.३० ॥

そこでは子供と老人に満ちた大勢の人々が、輝くマイティリーが火に入るのを見た。

6.116.31

सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा।
पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ ॥ ६.११६.३१ ॥

熱せられた新しい金のような輝きを放ち、熱せられた金の装身具で飾られた彼女は、全世界の前で燃え盛る火に身を投じた。

6.116.32

ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम्।
सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा ॥ ६.११६.३२ ॥

大きな目のシーターが供物の火に落ちていくのを、人々は見た。その時、彼女はあらゆる姿で黄金の祭壇のように輝いていた。

6.116.33

ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्।
ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव ॥ ६.११६.३३ ॥

聖者たち、神々、ガンダルヴァたちは、この大いなる福徳の女性が火に入るのを見た。まるで供犠で最後の供物が捧げられるかのようであった。

6.116.34

प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने।
पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ॥ ६.११६.३४ ॥

彼女が火に落ちるのを見て、女性たちは皆声を上げて泣き叫んだ。マントラによって清められた彼女は、供犠で注がれる供物の流れのように落ちた。

6.116.35

ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः।
शप्तां पतन्तीं निरये त्रिदिवाद् देवतामिव ॥ ६.११६.३५ ॥

三界、神々、ガンダルヴァ、ダーナヴァたちが彼女を見た。まるで呪われた女神が天から地獄へ落ちていくかのようであった。

6.116.36

तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ६.११६.३६ ॥

彼女が火に入ると、羅刹と猿たちの間から「ああ!」という大きな叫びが上がった。それは驚くべき出来事のようであった。