Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.118.1

एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्।
अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥ ६.११८.१ ॥

毗婆婆苏(阿耆尼)听到祖父所说的这吉祥之言,便抱着毗提诃公主升起。

6.118.2

विधूयाथ चितां तां तु वैदेहीं हव्यवाहनः।
उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ ६.११८.२ ॥

于是持供火者(阿耆尼)抖落那柴堆,即刻以具象之身站起,抱住了遮那迦之女毗提诃。

6.118.3

तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्।
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ ६.११८.३ ॥

她如初升的太阳般光彩照人,佩戴精炼黄金的饰品,身穿红衣,年轻,乌黑卷曲的长发。

6.118.4

अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम्।
ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ ६.११८.४ ॥

阿耆尼将身佩不凋花环与饰物、形貌如旧、无可指摘的毗提诃置于膝上,交还给罗摩。

6.118.5

अब्रवीत् तु तदा रामं साक्षी लोकस्य पावकः।
एषा ते राम वैदेही पापमस्यां न विद्यते ॥ ६.११८.५ ॥

于是作为世界见证的净火(阿耆尼)对罗摩说:「罗摩啊,此即你的毗提诃;她身上没有罪过。」

6.118.6

नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा।
सुवृत्ता वृत्तशौटीर्यं न त्वामत्यचरच्छुभा ॥ ६.११८.६ ॥

无论以言语、以心意、以智慧,还是以目光,这位吉祥而品行端正的女子从未违背对你的操守坚定。

6.118.7

रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा।
त्वया विरहिता दीना विवशा निर्जने सती ॥ ६.११८.७ ॥

这位忠贞的女子与你分离,悲苦无助,被以武力自负的罗刹罗波那在荒僻之处掳走。

6.118.8

रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा।
रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः ॥ ६.११८.८ ॥

她被囚禁在内宫中,受到严密看守,心中只有你,一心依靠你,由心肠残忍、面目凶恶的罗刹女们看守。

6.118.9

प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली।
नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ ६.११८.९ ॥

尽管被多般诱惑、威胁,弥提利却从未想到那罗刹,因为她的内心唯有你。

6.118.10

विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम्।
न किंचिदभिधातव्या अहमाज्ञापयामि ते ॥ ६.११८.१० ॥

请接纳纯洁无罪的弥提利;不可对她说任何苛刻的话。我命令你。

6.118.11

ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः।
दध्यौ मुहूर्तं धर्मात्मा हर्षव्याकुललोचनः ॥ ६.११८.११ ॥

于是心中欢喜的罗摩,是善言者中最优秀的,听罢此言,沉思片刻;这位正法之人的双眼因喜悦而湿润。

6.118.12

एवमुक्तो महातेजा धृतिमानुरुविक्रमः।
उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥ ६.११८.१२ ॥

如此被言,光辉伟大、坚定、威勇非凡的罗摩,正法守护者中最优秀的,对诸神中最杰出者说道。

6.118.13

अवश्यं चापि लोकेषु सीता पावनमर्हति।
दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ॥ ६.११८.१३ ॥

在三界之中,悉多的确应当被证明清白,因为这位吉祥的女子久居罗波那的后宫。

6.118.15

बालिशो बत कामात्मा रामो दशरथात्मजः।
अनन्यहृदयां सीतां मच्चित्तपरिरक्षिणीम्।
अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ॥ ६.११८.१५ ॥

唉,达舍罗陀之子罗摩愚昧而被欲望驱使;然而我也知道,遮那迦之女弥提利心无旁骛,她守护着我的心。

6.118.16

इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा।
रावणो नातिवर्तेत वेलामिव महोदधिः ॥ ६.११८.१६ ॥

即使是这位大眼睛的女子,由他自己的光辉守护,罗波那也不能逾越,正如大海不越过它的岸边。

6.118.17

प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः।
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥ ६.११८.१७ ॥

为使三界信服,我依凭真实,将任由毗提诃女走入火中。

6.118.18

न हि शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम्।
प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव ॥ ६.११८.१८ ॥

这个心术邪恶的人,即使在心中也无法侵犯弥提利;她如同熊熊火焰,不可接近。

6.118.19

नेयमर्हति वैक्लव्यं रावणान्तःपुरे सती।
अनन्या हि मया सीता भास्करस्य प्रभा यथा ॥ ६.११८.१९ ॥

这位贞洁的女子即使身处罗波那的后宫,也不应陷于痛苦;悉多对我专一无二,如同日光只属于太阳。

6.118.20

विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा।
न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ ६.११८.२० ॥

三界之中纯洁无瑕的遮那伽之女迈提丽,我不能抛弃,正如自制之人不能舍弃自己的名誉。

6.118.21

अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्।
स्निग्धानां लोकनाथानामेवं च वदतां हितम् ॥ ६.११८.२१ ॥

你们一切有益的话语,我必须遵从;那些慈爱的世界之主以及如此说出有益之言的人,他们的话也必须遵循。

6.118.22

इत्येवमुक्त्वा विजयी महाबलः
प्रशस्यमानः स्वकृतेन कर्मणा।
समेत्य रामः प्रियया महायशाः
सुखं सुखार्होऽनुबभूव राघवः ॥ ६.११८.२२ ॥

说完这话,凭自身功绩受到称赞的战胜者、大力的罗摩与他心爱的人相见,值得享有幸福的罗怙之后裔享受了幸福。