ヴァールミーキのラーマーヤナ · サルガ 6.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.119.1
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्।
ततः शुभतरं वाक्यं व्याजहार महेश्वरः ॥ ६.११९.१ ॥
ラーガヴァ(ラーマ)が答えたこの吉祥の言葉を聞き、そしてマヘーシュヴァラはさらに吉祥な言葉を語った。
6.119.2
पुष्कराक्ष महाबाहो महावक्षः परंतप।
दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर ॥ ६.११९.२ ॥
蓮華眼の者よ、大臂の者よ、広い胸の者よ、敵を焼く者よ!幸いにも、そなたはこの業を成し遂げた。法を守る者の中の最上の者よ。
6.119.3
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः।
अपवृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ६.११९.३ ॥
幸いにも、ラーマよ、そなたは戦において、諸世界に広がった恐ろしい闇と、ラーヴァナから生じた恐怖を払いのけた。
6.119.4
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ६.११९.४ ॥
悲しむバラタを慰め、名高いカウサリヤー、カイケーイー、そしてラクシュマナの母スミトラーに会って。
6.119.5
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्।
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥ ६.११९.५ ॥
アヨーディヤーで王国を得て、友と親族を喜ばせ、イクシュヴァーク族に血統を確立して、大力の者よ。
6.119.6
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः।
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥ ६.११९.६ ॥
馬の供犠を行い、無比の名声を得て、バラモンに財を施した今、そなたは天界に行くにふさわしい。
6.119.7
एष राजा दशरथो विमानस्थः पिता तव।
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ ६.११९.७ ॥
カークツトゥスタよ、天車に立つこの王ダシャラタはお前の父であり、人間界ではお前の尊師であり、大いなる名声を持つ。
6.119.8
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ ६.११९.८ ॥
威光ある彼はインドラの天界へ行き、息子であるお前によって救われた。弟ラクシュマナと共に、彼に礼拝せよ。
6.119.9
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः।
विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥ ६.११९.९ ॥
大神の言葉を聞いたラーガヴァ(ラーマ)は、ラクシュマナと共に天車の頂に立つ父に礼拝した。
6.119.10
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः ॥ ६.११९.१० ॥
主ラーマは弟ラクシュマナと共に、自らの輝きに満ち、汚れなき衣をまとった父を見た。
6.119.11
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः।
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ ६.११९.११ ॥
天車に立つ大地の主ダシャラタは、命よりも愛しい息子を見て、大いなる喜びに満たされた。
6.119.12
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः।
बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥ ६.११९.१२ ॥
大いなる腕の主は、見事な座に坐して息子を膝に抱き上げ、両腕で強く抱きしめ、それから言葉を発し始めた。
6.119.13
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः।
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ ६.११९.१३ ॥
ラーマよ、お前を失えば、天界も神々の最高の者たちが与える栄誉も、私には大切ではない。このことを真実としてお前に誓う。
6.119.14
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्।
निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ॥ ६.११९.१४ ॥
今日、敵を討ち、心を満たし、森の流謫を終えて戻ったお前を見て、私には無上の喜びがある。
6.119.15
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर।
तव प्रव्राजनार्थानि स्थितानि हृदये मम ॥ ६.११९.१५ ॥
語る者の中で最も優れた者よ、カイケーイーがお前の追放のために言った言葉は、今も私の心に残っている。
6.119.16
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्।
अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः ॥ ६.११९.१६ ॥
ラクシュマナと共に無事なお前を見て抱きしめ、今日私は悲しみから解き放たれた。霧から太陽が解き放たれるように。
6.119.17
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना।
अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा ॥ ६.११९.१७ ॥
息子よ、大いなる魂の良き息子アシュターヴァクラが、法にかなった婆羅門カホーダを救ったように、お前は私を救ったのだ。
6.119.18
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः।
वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ॥ ६.११९.१८ ॥
穏やかな者よ、今わかった。神々の主たちが、ラーヴァナを討つためにお前を最高の人として定めたのだ。
6.119.19
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्।
वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम् ॥ ६.११९.१९ ॥
ラーマよ、森から戻り家に来たあなた、敵を滅ぼす者を、カウサリヤーは必ず喜んで見るでしょう。彼女の願いは成就しました。
6.119.20
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्।
राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम् ॥ ६.११९.२० ॥
ラーマよ、都に戻り王国で灌頂を受けて大地の主となったあなたを見る人々は、まことに願いが成就するでしょう。
6.119.21
अनुरक्तेन बलिना शुचिना धर्मचारिणा।
इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ॥ ६.११९.२१ ॥
献身的で力強く、清らかで法に従うバラタと共にいるあなたに、私は会いたいと願います。
6.119.22
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया।
वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च ॥ ६.११९.२२ ॥
穏やかな人よ、あなたは十四年を森で過ごし、私への愛からシーターとラクシュマナと共に暮らしました。
6.119.23
निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया।
रावणं च रणे हत्वा देवताः परितोषिताः ॥ ६.११९.२३ ॥
あなたは森の流浪から帰還しました。戦場でラーヴァナを倒し、誓いを果たしたので、神々は満足しています。
6.119.24
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन।
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥ ६.११९.२४ ॥
敵を滅ぼす者よ、あなたは称賛に値する行いを成し遂げ、名声を得ました。兄弟たちと共に王国に座し、長寿を得てください。
6.119.25
कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च ॥ ६.११९.२५ ॥
ダルマを知る者よ、カイケーイーとバラタに慈悲を示したまえ。
6.119.26
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया।
स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥ ६.११९.२६ ॥
「息子もろともおまえを捨てる」と、そなたがカイケーイーに告げた恐ろしい呪い、主よ、それが息子ともどもカイケーイーに触れませぬように。
6.119.27
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ ६.११९.२७ ॥
合掌して立つラーマに「そうなれ」と告げ、大王はラクシュマナを抱きしめて、再び言葉を発した。
6.119.28
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ ६.११९.२८ ॥
ヴァイデーヒーの姫シーターとともに、信愛をもってラーマに仕えたことで、そなたは私に大きな喜びを与え、ダルマの果報も得たのだ。
6.119.29
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि।
रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम् ॥ ६.११९.२९ ॥
ダルマを知る者よ、そなたはダルマと地上での大いなる名声を得るだろう。ラーマが喜べば、天界と無上の栄光も得よう。
6.119.30
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन।
रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा ॥ ६.११९.३० ॥
スミトラーの喜びを増す者よ、そなたに幸いあれ。ラーマに仕えよ。ラーマはつねにすべての世界の福利に専念している。
6.119.31
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः।
अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥ ६.११९.३१ ॥
インドラとともにこの三界、成就者たち、最高の聖仙たちは、かの偉大なる魂に礼拝し、人中最上の方を供養する。
6.119.32
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्।
देवानां हृदयं सौम्य गुह्यं रामः परंतपः ॥ ६.११९.३२ ॥
これこそ語られた不顕現で不滅、梵に等しきもの。神々の心、温和なる者よ、秘密である。敵を焼く者、ラーマである。
6.119.33
अवाप्तधर्माचरणं यशश्च विपुलं त्वया।
एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया ॥ ६.११९.३३ ॥
あなたは法の実践と大いなる名声を得た。このようにヴァイデーヒーのシーターとともに動じることなく奉仕して。
6.119.34
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्।
पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह ॥ ६.११९.३४ ॥
ラクシュマナにこう言ってから、王は合掌して立つ嫁を「娘よ」と呼び、優しく静かに彼女に語った。
6.119.35
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति।
रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा ॥ ६.११९.३५ ॥
ヴァイデーヒーよ、この放逐に怒りを抱いてはならない。あなたの幸せを願うラーマが、あなたの清浄のためにこれを行ったのだ。
6.119.36
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्।
कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति ॥ ६.११९.३६ ॥
娘よ、これは非常に困難なことだ。あなたの品行の証としてなされたものであり、必ずや他の女性たちの名声を凌ぐであろう。
6.119.37
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति।
अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥ ६.११९.३७ ॥
あなたは自分の気ままに夫への奉仕から背を向けてはならない。だが私は必ず言わねばならない、これこそがあなたの至高の神なのだと。
6.119.38
इन्द्रलोकं विमानेन ययौ दशरथो नृपः ॥ ६.११९.३८ ॥
王ダシャラタは天上の車に乗ってインドラの世界へ行った。
6.119.39
विमानमास्थाय महानुभावः
श्रिया च संहृष्टतनुर्नृपोत्तमः।
आमन्त्र्य पुत्रौ सह सीतया च
जगाम देवप्रवरस्य लोकम् ॥ ६.११९.३९ ॥
偉大な威力をもつ王の中の王は天上の車に乗り、輝きに身を震わせ、二人の息子とシーターに別れを告げて、神々の長の世界へ去った。