Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.12.1

स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः।
प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ ६.१२.१ ॥

その全議会を見渡し、戦勝者は軍の指揮官プラハスタを促した。

6.12.2

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः।
योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥ ६.१२.२ ॥

将軍よ、四種の技に熟達した戦士たちが都を守るよう、お前は配置すべきだ。

6.12.3

स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्।
विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे ॥ ६.१२.३ ॥

自制心のあるプラハスタは、王命を果たそうと、全軍を外と宮殿の内に配置した。

6.12.4

ततो विनिक्षिप्य बलं सर्वं नगरगुप्तये।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ६.१२.४ ॥

そして都を守るため全軍を配置すると、プラハスタは王の前に座し、言った。

6.12.5

विहितं बहिरन्तश्च बलं बलवतस्तव।
कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते ॥ ६.१२.५ ॥

力ある方よ、あなたの軍は外と内に配置されました。今は落ち着いた心で、お望みのことを速やかになさい。

6.12.6

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः।
सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६.१२.६ ॥

プラハスタの言葉を聞いて、国の繁栄と幸福を願う王ラーヴァナは、友人たちの中で語った。

6.12.7

प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते।
धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ ६.१२.७ ॥

愛しいものと愛しくないもの、幸福と苦悩、利益と損失、益と害、そしてダルマ・カーマ・アルタの窮地において、知るにふさわしいのは汝らである。

6.12.8

सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ६.१२.८ ॥

私のすべての企ては、常に汝らによって始められ、思案と行為にゆだねられてきたが、私にとって一度も実を結ばなかったことはない。

6.12.9

ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः।
भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ६.१२.९ ॥

月と惑星と星宿とともに、マルトたちに囲まれたインドラのように、汝らに大いに支えられた私が、栄光を得ますように。

6.12.10

अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः।
कुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम् ॥ ६.१२.१० ॥

私は確かに汝ら全員を力づける覚悟であった。しかしクムバカルナの眠りについては、この目的のために彼を起こすよう私は命じてはいなかった。

6.12.11

अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः।
सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ ६.१२.११ ॥

この大力のクムバカルナは六か月の間眠っていた。あらゆる武器を持つ者の中で第一の彼は、今や立ち上がったのだ。

6.12.12

इयं च दण्डकारण्याद् रामस्य महिषी प्रिया।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ ६.१२.१२ ॥

そして、ラーマの最愛の正妃、ジャナカの娘は、彼女がさまよっていた場所から、ダンダカの森より羅刹たちによって連れてこられたのだ。

6.12.13

सा मे न शय्यामारोढुमिच्छत्यलसगामिनी।
त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा ॥ ६.१२.१३ ॥

彼女は私の寝台に上がることを望まない。ゆったりと歩む女である。三界の中で、私にとってシーターに並ぶ女は他にいない。

6.12.14

तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना।
हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥ ६.१२.१४ ॥

細い腰と広い腰回りを持ち、顔は秋の月のようだ。金の像のように穏やかで、マヤが作り出した幻のようだ。

6.12.15

सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ ६.१२.१५ ॥

足の裏は深紅で滑らかに、しっかりと据えられている。銅色の爪をもつその足を見ると、私の身に欲望が燃え上がる。

6.12.16

हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम्।
उन्नसं विमलं वल्गु वदनं चारुलोचनम् ॥ ६.१२.१६ ॥

供物の火の炎のように、太陽の光のように輝く。高い鼻筋、清らかで愛らしい顔、美しい瞳を持つ。

6.12.17

पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान्।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥ ६.१२.१७ ॥

彼女を見つめるうちに、私は彼女の支配下に落ち、欲望の虜となった。欲望は怒りと喜びを等しくもたらし、顔色を青ざめさせる。

6.12.18

शोकसंतापनित्येन कामेन कलुषीकृतः।
सा तु संवत्सरं कालं मामयाचत भामिनी ॥ ६.१२.१८ ॥

絶えず憂いと苦しみをもたらす欲望によって、私は汚された。そしてその誇り高い女は、私に一年の猶予を求めたのだ。

6.12.19

प्रतीक्षमाणा भर्तारं राममायतलोचना।
तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ॥ ६.१२.१९ ॥

夫ラーマを待つ、長い目の美しい目の女性に、私は吉兆の言葉を約束していたのだ。

6.12.20

श्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि।
कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः ॥ ६.१२.२० ॥

絶え間ない欲望に私は疲れ果てた、道を走らされた馬のように。あの動かし難い海を、森の住人たちはどうして渡るのだろうか。

6.12.21

बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ।
अथवा कपिनैकेन कृतं नः कदनं महत् ॥ ६.१२.२१ ॥

多くの生き物と魚で満ちたあの海を、ダシャラタの二人の息子は渡るのだろうか。それとも、ただ一匹の猿が我らに大いなる破壊をもたらしたのか。

6.12.22

दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति।
मानुषान्नो भयं नास्ति तथापि तु विमृश्यताम् ॥ ६.१२.२२ ॥

行動の道筋は知り難い。各々その見識に応じて述べよ。人間を恐れる理由はないが、これを熟慮せよ。

6.12.23

तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥ ६.१२.२३ ॥

その時、神々とアスラの戦いにおいて、あなたがたと共にいた私は無敵であった。彼らは私の、あなたがた皆、そしてスグリーヴァを筆頭とする猿の王たちもまた……

6.12.24

परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ।
सीतायाः पदवीं प्राप्य सम्प्राप्तौ वरुणालयम् ॥ ६.१२.२४ ॥

海の彼方に着いた二人の王子は、シーターの足跡を見つけ、それを先導として、ヴァルナの住処に到達した。

6.12.25

अदेया च यथा सीता वध्यौ दशरथात्मजौ।
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ ६.१२.२५ ॥

シーターは返すことができず、ダシャラタの二人の息子は殺されねばならない。あなたがたは協議し、良い策を述べよ。

6.12.26

नहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्।
सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥ ६.१२.२६ ॥

世界で他の誰にも力があるとは私には見えない。猿たちが海を渡ったとしても、私の勝利は確実だ。

6.12.27

तस्य कामपरीतस्य निशम्य परिदेवितम्।
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ ६.१२.२७ ॥

欲望に苛まれた彼の嘆きを聞いて、クンバカルナは怒り、これらの言葉を述べた。

6.12.28

यदा तु रामस्य सलक्ष्मणस्य
प्रसह्य सीता खलु सा इहाहृता।
सकृत् समीक्ष्यैव सुनिश्चितं तदा
भजेत चित्तं यमुनेव यामुनम् ॥ ६.१२.२८ ॥

ラーマとラクシュマナの目の前で、シーターは力ずくでここに連れて来られた。一度見れば心は必ず彼女に執着するだろう、ヤムナーの水がヤムナーに流れ込むように。

6.12.29

सर्वमेतन्महाराज कृतमप्रतिमं तव।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ ६.१२.२९ ॥

大王よ、これらすべてはあなたが比類なく成し遂げたことです。この事業の初めに、私たちはともにそれを整えましょう。

6.12.30

न्यायेन राजकार्याणि यः करोति दशानन।
न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ ६.१२.३० ॥

十の顔を持つ者よ、国事を正しく行い、目的に心を定めた王は、後に悔いることはない。

6.12.31

अनुपायेन कर्माणि विपरीतानि यानि च।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६.१२.३१ ॥

不適切な手段で、また逆のやり方で行われた行為は、不浄な者が捧げた供物のように穢れてしまう。

6.12.32

यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति।
पूर्वं चापरकार्याणि स न वेद नयानयौ ॥ ६.१२.३२ ॥

先になすべきことを後に、後になすべきことを先にしようとする者は、正しい政策と誤った政策を知らない。

6.12.33

चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ६.१२.३३ ॥

軽率な者の事業における大きな力をよく見極めた上で、他者はその隙を突く。あたかも鳥がクラウンチャ鳥の空を突くように。

6.12.34

त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्।
दिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम् ॥ ६.१२.३४ ॥

あなたは十分に考えずにこの大事業を始めた。幸運にもラーマはあなたを討たなかった。毒を混ぜた肉を食べないように。

6.12.35

तस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः।
अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥ ६.१२.३५ ॥

それゆえ、罪なき者よ、あなたが敵に対して始めた比類なき行いを、私は敵を討って正そう。

6.12.36

अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ।
तावहं योधयिष्यामि कुबेरवरुणावपि ॥ ६.१२.३६ ॥

夜の徘徊者よ、私はあなたの敵を根絶やしにしよう。インドラと太陽、火神と風神が味方していても、私は彼らとも戦う。クベーラとヴァルナでさえも。

6.12.37

गिरिमात्रशरीरस्य महापरिघयोधिनः।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः ॥ ६.१२.३७ ॥

身体は山のように大きく、大きな鉄の棍棒で戦い、吠え、鋭い牙を持つ彼には、プラindraさえも恐れるであろう。

6.12.38

पुनर्मां स द्वितीयेन शरेण निहनिष्यति।
ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ६.१२.३८ ॥

もし彼が再び第二の矢で私を殺すなら、その時は私が彼の血を飲みましょう。どうぞ心安らかにお過ごしください。

6.12.39

वधेन वै दाशरथेः सुखावहं
जयं तवाहर्तुमहं यतिष्ये।
हत्वा च रामं सह लक्ष्मणेन
खादामि सर्वान् हरियूथमुख्यान् ॥ ६.१२.३९ ॥

ダシャラタの息子(ラーマ)を殺して、あなたに幸福をもたらす勝利を得るよう努めましょう。ラーマとラクシュマナを殺した後、猿の群れの主だった指導者たちを皆食らってしまいましょう。

6.12.40

रमस्व कामं पिब चाग्र्यवारुणीं
कुरुष्व कार्याणि हितानि विज्वरः।
मया तु रामे गमिते यमक्षयं
चिराय सीता वशगा भविष्यति ॥ ६.१२.४० ॥

思いのままに楽しみ、最上の酒を飲み、憂いなく有益な務めを果たしてください。私がラーマをヤマの住処へ送った後、シーターは長きにわたりあなたの支配下に入るでしょう。