Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.120.1

प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः।
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ ६.१२०.१ ॥

迦古特斯特ha离去后,击败帕迦的因陀罗极为欢喜,对合掌站立的罗怙婆说道。

6.120.2

अमोघं दर्शनं राम तवास्माकं नरर्षभ।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम् ॥ ६.१२०.२ ॥

啊罗摩,人中之雄,你我今日相见并非徒然。我们对你充满喜爱;请说出你心中所愿。

6.120.3

एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना।
सुप्रसन्नमना हृष्टो वचनं प्राह राघवः ॥ ६.१२०.३ ॥

伟大的摩亨德拉如此喜悦地向他说话后,心中十分欢喜的罗怙婆说出了这些话。

6.120.4

यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर।
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर ॥ ६.१२०.४ ॥

诸天之主啊,若你对我生起了爱意,请真正实现我所说的话,言辞中最优秀者啊。

6.120.5

मम हेतोः पराक्रान्ता ये गता यमसादनम्।
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ६.१२०.५ ॥

凡为我而勇敢战斗、已前往阎摩居所的猴子们,愿他们都重获生命,站立起来。

6.120.6

मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः।
तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद ॥ ६.१२०.६ ॥

为了我而与子女、妻子分离的猴子们,我愿以欢喜之心一一见到他们,赐予尊荣者啊。

6.120.7

विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च।
कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर ॥ ६.१२०.७ ॥

那些勇猛而英武、不顾生死、奋力而倒下的人,啊补兰陀罗,请使他们复活。

6.120.8

मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये।
त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे ॥ ६.१२०.८ ॥

那些对我所爱之人忠诚、不顾生死的人,愿因你的恩典再度相聚;这份恩赐我恳请。

6.120.9

नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्।
गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद ॥ ६.१२०.९ ॥

无病无伤、力量与勇气俱足的猴子与熊,我愿见到他们,啊赐予尊荣者。

6.120.10

अकाले चापि पुष्पाणि मूलानि च फलानि च।
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥ ६.१२०.१० ॥

即使不当其时,也要有花、根与果实;猴子所居之处,愿清澈的河流流淌。

6.120.11

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः।
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम् ॥ ६.१२०.११ ॥

听了伟大的罗伽婆的这番话,摩哂陀罗以充满慈爱的言辞回答道。

6.120.12

महानयं वरस्तात यस्त्वयोक्तो रघूत्तम।
द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति ॥ ६.१२०.१२ ॥

亲爱的,罗伽族中最杰出的人,你所求的这份恩赐甚大;我以前从未、也不曾两次这样说过,因此它必将实现。

6.120.13

समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः।
ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः ॥ ६.१२०.१३ ॥

愿所有在战斗中被罗刹杀死的人都起来,连同那些脸和手臂被砍断的熊和长尾猴一起起来。

6.120.14

नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः।
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥ ६.१२०.१४ ॥

没有疼痛、没有伤口,充满力量与勇气,猴子们将如睡眠结束的人醒来一般站起。

6.120.15

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च।
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ ६.१२०.१५ ॥

朋友、亲属、族人和自己的人,都将在极大的喜悦中重新团聚。

6.120.16

अकाले पुष्पशबलाः फलवन्तश्च पादपाः।
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ ६.१२०.१६ ॥

大弓箭手啊!树木将在非时开满斑斓的花,结满果实;河流也将充满流水。

6.120.17

सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः।
ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः ॥ ६.१२०.१७ ॥

先前负伤的身体如今已无伤痕、恢复如初;于是所有最优秀的猴子都站了起来,仿佛从睡梦中醒来。

6.120.18

बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः।
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ॥ ६.१२०.१८ ॥

所有猴子惊异地说:“这是什么?”所有最优秀的神灵见到目的已达成的迦古特斯塔后裔罗摩,也都惊叹不已。

6.120.19

अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम्।
गच्छायोध्यामितो राजन् विसर्जय च वानरान् ॥ ६.१२०.१९ ॥

他们极为欢喜,赞颂罗摩与罗什曼那后说道:“大王啊,请从此地返回阿逾陀,并遣散诸猴众。”

6.120.20

मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम्।
भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम् ॥ ६.१२०.२० ॥

请安慰这位荣耀而忠贞的弥蒂利,并看看因思念你而持戒的兄弟婆罗多。

6.120.21

शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप।
अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ॥ ६.१२०.२१ ॥

请去见伟大的沙特鲁格那与所有母亲;灭敌者啊,请为自己举行灌顶,并前往城中慰劳百姓,使他们欢喜。

6.120.22

एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह।
विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह ॥ ६.१२०.२२ ॥

千眼因陀罗对罗摩和罗什曼那如此说罢,便欢喜地与诸神乘着如日光般耀目的天车离去。

6.120.23

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा ॥ ६.१२०.२३ ॥

于是,甘古斯塔族的罗摩与罗什曼那及其兄弟一同向诸位天神中的最尊者致敬,并吩咐他们各自返回住所。

6.120.24

ततस्तु सा लक्ष्मणरामपालिता
महाचमूर्हृष्टजना यशस्विनी।
श्रिया ज्वलन्ती विरराज सर्वतो
निशा प्रणीतेव हि शीतरश्मिना ॥ ६.१२०.२४ ॥

于是,由罗什曼那与罗摩守护的这支庞大而荣耀的军队,与欢喜的百姓一同,光彩夺目,四面生辉,宛如由寒光之月带来的夜晚。