Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.121

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.121.1

तां रात्रिमुषितं रामं सुखोदितमरिंदमम्।
अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ ६.१२१.१ ॥

その夜が明け、敵を制する罗摩が喜ばしく目覚めると、ヴィビーシャナは合掌して勝利の安否を尋ね、この言葉を述べた。

6.121.2

स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च।
चन्दनानि च माल्यानि दिव्यानि विविधानि च ॥ ६.१२१.२ ॥

沐浴の品々、身体に塗る香油、衣類、装飾品、白檀、花輪、そして様々な神聖な品々。

6.121.3

अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः।
उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥ ६.१२१.३ ॥

装飾に長けた蓮の目の女性たちが参りました。ラーガヴァよ、彼女たちが作法どおりにあなたを沐浴させるでしょう。

6.121.4

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्।
हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥ ६.१२१.४ ॥

そう言われて、カークツシュタの罗摩はヴィビーシャナに答えた。「スグリーヴァをはじめとする猿たちを沐浴に招きなさい。」

6.121.5

स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः।
सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः ॥ ६.१२१.५ ॥

あの法に篤い心のバラタは、安楽にふさわしく、繊細で、腕の力強く、真実に堅固であるが、私のために嘆いているのだ。

6.121.6

तं विना कैकयीपुत्रं भरतं धर्मचारिणम्।
न मे स्नानं बहु मतं वस्त्राण्याभरणानि च ॥ ६.१२१.६ ॥

カイケーイーの子、法を行うバラタなしには、沐浴も衣服も装身具も、私にはそれほど大切ではない。

6.121.7

एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम्।
अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः ॥ ६.१२१.७ ॥

あの都へ速やかに戻る方法を見よ。アヨーディヤーへ行くこの道は非常に険しい。

6.121.8

एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ६.१२१.८ ॥

そう言われて、ヴィビーシャナはカクトゥスターの末裔ラーマに答えた。「王子よ、一日のうちにあなたをあの都へお連れしましょう。」

6.121.9

पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्।
मम भ्रातुः कुबेरस्य रावणेन बलीयसा ॥ ६.१२१.९ ॥

あなたに幸あれ。太陽に似た、プシュパカと名づけられた天界の車は、私の兄クベーラのものであったが、強大なラーヴァナがそれを奪い取った。

6.121.10

हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्।
त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम ॥ ६.१२१.१० ॥

戦いで打ち破って彼はそれを奪った。意のままに行くこの神聖で最上の車は、あなたのために守られ、ここに立っている。比類なき勇者よ。

6.121.11

तदिदं मेघसंकाशं विमानमिह तिष्ठति।
येन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ६.१२१.११ ॥

雲のような、その車がここに立っている。その乗り物で、憂いの熱から解放されて、あなたはアヨーディヤーへ行くであろう。

6.121.12

अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्।
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ ६.१२१.१२ ॥

もし私があなたの恩顧に値し、私の徳を覚えておられ、賢き方よ、私への友情がおありなら、しばらくここにお留まりください。

6.121.13

लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह।
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ ६.१२१.१३ ॥

弟ラクシュマナと妻ヴァイデーヒー(シーター)とともに、あらゆる願いをもって敬われ、ラーマよ、そのとき汝は発つであろう。

6.121.14

प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः।
सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम् ॥ ६.१२१.१४ ॥

ラーマよ、私が愛情をもって整えたこの厚いもてなしを、軍勢と友らとともに今どうか受けてください。

6.121.15

प्रणयाद् बहुमानाच्च सौहार्देन च राघव।
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ ६.१२१.१५ ॥

ラーガヴァよ、愛情と大きな敬意と友情から、私は懇願します。私は汝の僕であり、汝に命じるのではありません。

6.121.16

एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्।
रक्षसां वानराणां च सर्वेषामेव शृण्वताम् ॥ ६.१२१.१६ ॥

このように言われて、ラーマはヴィビーシャナに答えた。羅刹も猿も皆が聞いている中で。

6.121.17

पूजितोऽस्मि त्वया वीर साचिव्येन परेण च।
सर्वात्मना च चेष्टाभिः सौहार्देन परेण च ॥ ६.१२१.१७ ॥

勇士よ、汝は優れた助言と奉仕により、全身全霊で、汝の努力により、そして無上の友情によって、私を敬ってくれた。

6.121.18

न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर।
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ ६.१२१.१८ ॥

羅刹の王よ、汝の言葉を私は確かに退けはしない。だが、私の心は兄バラタに会いたくて急いているのだ。

6.121.19

मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः।
शिरसा याचतो यस्य वचनं न कृतं मया ॥ ६.१२१.१९ ॥

チトラクータまで来て、頭を垂れて私に帰還を懇願した者の願いを、私は聞き入れなかった。

6.121.20

कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्।
गुहं च सुहृदं चैव पौराञ्जानपदैः सह ॥ ६.१२१.२० ॥

カウシャリヤー、スミトラー、名高いカイケーyī、友グハ、そして町の人々と地方の人々。

6.121.21

अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण।
मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये ॥ ६.१२१.२१ ॥

穏やかなヴィビーシャナよ、私に別れを許せ。あなたによって私は敬われた。友よ、怒ってはならない。あなたに願う。

6.121.22

उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर।
कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ ६.१२१.२२ ॥

羅刹の王よ、私のために速やかに空飛ぶ車を用意せよ。私の務めは終えた。ここに留まることがどうして認められようか。

6.121.23

एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः।
विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः ॥ ६.१२१.२३ ॥

ラーマにこう言われて、羅刹王ヴィビーシャナは急いで太陽のように輝く空飛ぶ車を呼び寄せた。

6.121.24

ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ ६.१२१.२४ ॥

そのとき、金で彩られた車体、ヴァイドゥーリヤ宝玉の台座を持ち、四方を楼閣に囲まれ、銀のように輝く空飛ぶ車が現れた。

6.121.25

पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्।
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥ ६.१२१.२५ ॥

白い旗と幟で美しく飾られ、金の蓮華で装飾された黄金の館によって輝いていた。

6.121.26

प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम्।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ ६.१२१.२६ ॥

小さな鈴の網で覆われ、真珠と宝石をはめ込んだ窓があり、四方を鈴の網に囲まれて甘美な音を響かせていた。

6.121.27

तं मेरुशिखराकारं निर्मितं विश्वकर्मणा।
बृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः ॥ ६.१२१.२७ ॥

メール山の頂のような形をし、ヴィシュヴァカルマンによって造られ、真珠と銀に輝く大きな館で飾られていた。

6.121.28

तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ ६.१२१.२८ ॥

その床は色とりどりの水晶と青玉で作られ、優れた座席を備え、貴重な敷物で飾られ、大いなる富に満ちていた。

6.121.29

उपस्थितमनाधृष्यं तद् विमानं मनोजवम्।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ ६.१२१.२९ ॥

その不可侵の飛行車は意念のように速く現れ、ヴィビーシャナはラーマに告げて、そこに立っていた。

6.121.30

तत् पुष्पकं कामगमं विमान-
मुपस्थितं भूधरसंनिकाशम्।
दृष्ट्वा तदा विस्मयमाजगाम
रामः ससौमित्रिरुदारसत्त्वः ॥ ६.१२१.३० ॥

思いのままに行く、山のごとき富沙卡(プシュパカ)飛車が現れたのを見て、寛大な心の持ち主ラーマは、ソーミトリとともに驚嘆した。