Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.123

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.123.1

अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्।
हंसयुक्तं महानादमुत्पपात विहायसम् ॥ ६.१२३.१ ॥

ラーマの許しを得て、その無比の飛車は白鳥に繋がれ、大きな音を立てて空へ舞い上がった。

6.123.2

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ ६.१२३.२ ॥

そして四方を見渡したラーマ、ラグ族の喜びは、月の顔のマイティリー・シーターに語った。

6.123.3

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ६.१२३.३ ॥

ヴァイデーヒーよ、見よ、ヴィシュヴァカルマンが造ったラーンカーを。トリクータの頂に立ち、カイラーサの峰のようだ。

6.123.4

एतदायोधनं पश्य मांसशोणितकर्दमम्।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ ६.१२३.४ ॥

シーターよ、この戦場を見よ。肉と血の泥濘となり、猿と羅刹が大いに殺されたのだ。

6.123.5

एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः।
तव हेतोर्विशालाक्षि निहतो रावणो मया ॥ ६.१२३.५ ॥

広き目の妻よ、恩寵を得た猛き羅刹王ラーヴァナは、そなたのために私に討たれ、ここに横たわっている。

6.123.6

कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६.१२३.६ ॥

ここでクムバカルナが討たれ、夜行者プラハスタも討たれた。またここでダームラークシャが猿のハヌマーンに討たれた。

6.123.7

विद्युन्माली हतश्चात्र सुषेणेन महात्मना।
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ॥ ६.१२३.७ ॥

ここで偉大な心の持ち主スシェーナはヴィデュニンマーリを討ち、ここでラクシュマナはラーヴァナの息子インドラジットを戦場で討ち取った。

6.123.8

अङ्गदेनात्र निहतो विकटो नाम राक्षसः।
विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ ॥ ६.१२३.८ ॥

ここでアンガダはヴィカタという名の羅刹を討ち、ヴィルーパークシャ、見るも恐ろしいドゥシュプレークシャ、マハーパールシャとマハーダラもまた討たれた。

6.123.9

अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः।
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ ६.१२३.९ ॥

アカンパナは討たれ、ほかの勇猛な羅刹たちも討たれた。トリシラスとアティカーヤ、デーヴァーンタカとナラーンタカも。

6.123.10

युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ।
निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली ॥ ६.१२३.१० ॥

戦に狂う者とマッタ、この二人の最も優れた羅刹、そしてクンバカルナの二人の力強い息子、ニクンバとクンバ。

6.123.11

वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः।
मकराक्षश्च दुर्धर्षो मया युधि निपातितः ॥ ६.१२३.११ ॥

ヴァジュラダンシュトラとダンシュトラ、そして多くの羅刹が討たれ、手強いマカラークシャは私が戦場で討ち倒した。

6.123.12

अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्।
यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे ॥ ६.१२३.१२ ॥

アカンパナは討たれ、勇猛なシォニターークシャも討たれた。ユーパークシャとプラジャンガは、ともに大戦で討ち死にした。

6.123.13

विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः।
यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः ॥ ६.१२३.१३ ॥

ここで、恐ろしい姿の羅刹ヴィデュジュジフヴァが殺され、供犠の敵が殺され、そして大力のスプタグナも殺された。

6.123.14

सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः।
अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ॥ ६.१२३.१४ ॥

太陽の敵が殺され、同じくバラモンのもう一人の敵も殺された。ここで、マンドーダリーという妻が彼のために嘆き悲しんだ。

6.123.15

सपत्नीनां सहस्रेण साग्रेण परिवारिता।
एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने ॥ ६.१२३.१५ ॥

千人以上の側室に囲まれて、彼女はここにいた。美しい顔の人よ、海のこの聖なる渡し場が見える。

6.123.16

यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्।
एष सेतुर्मया बद्धः सागरे लवणार्णवे ॥ ६.१२३.१६ ॥

大海を渡ってあの夜を過ごした場所。この橋は私が塩の海に架けたものだ。

6.123.17

तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ॥ ६.१२३.१७ ॥

あなたのために、広い目の人よ、ナラの橋は非常な苦労で架けられた。ヴァイデーヒーよ、ヴァルナの住処である揺るがぬ海を見よ。

6.123.18

अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्।
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ॥ ६.१२३.१८ ॥

果てしないかのように轟き、法螺貝と貝殻に満ちたこの海を見よ。マイティリーよ、金色の臍を持つ山々の王、あの黄金の山を見よ。

6.123.19

विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्।
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ ६.१२३.१९ ॥

ハヌマーンの休息のため、海を割って立ち上がったこれは、海の腹中にある軍の宿営地である。

6.123.20

अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः।
एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः ॥ ६.१२३.२० ॥

ここで昔、全能のマハーデーヴァが恩寵を示された。大いなる魂の海のこの聖なる渡し場が見えている。

6.123.21

सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्।
एतत् पवित्रं परमं महापातकनाशनम् ॥ ६.१२३.२१ ॥

「セートゥバンダ」として知られ三界に崇められるこれは、この上なく清浄で、大罪を滅ぼすものである。

6.123.22

अत्र राक्षसराजोऽयमाजगाम विभीषणः।
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥ ६.१२३.२२ ॥

ここには羅刹王ヴィビーシャナが来られた。シーターよ、美しい林をもつキシュキンダーが今見えている。

6.123.23

सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः।
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ॥ ६.१२३.२३ ॥

ここはスグリーヴァの美しい都であり、私がヴァーリンを討ち取った場所だ。そこでシーターはヴァーリンに守られていたキシュキンダーの都を見て……

6.123.24

अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ॥ ६.१२३.२४ ॥

愛情に怯えたシーターは、謙虚な言葉でラーマに言った。「スグリーヴァの愛する妻たち、とりわけターラーを先頭に、王よ。」

6.123.25

अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह ॥ ६.१२३.२५ ॥

他の猿族の長たちの妻らに囲まれて、私はあなたとともに王都アヨーディヤーへ行きたいのです。

6.123.26

एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥ ६.१२३.२६ ॥

ヴァイデーヒーがこう言うと、ラーガヴァは彼女に答えた。「そうしよう。」キシュキンダーに着き、スグリーヴァを据えた後、ラーガヴァはそう言った。

6.123.27

विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह।
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ॥ ६.१२३.२७ ॥

空飛ぶ車を見て、彼はスグリーヴァにこの言葉を告げた。「猿の中の虎よ、猿の最も優れた者たちすべてに伝えよ。」

6.123.28

स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ॥ ६.१२३.२८ ॥

皆が妻たちに囲まれて、シーターとともにアヨーディヤーへ行くがよい。そしてお前も、力強き者よ、すべての妻たちとともに行け。

6.123.29

अभित्वरय सुग्रीव गच्छामः प्लवगाधिप।
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ॥ ६.१२३.२९ ॥

スグリーヴァよ、急げ、行こう、猿の王よ。無限の威光を持つラーマにそう言われ、スグリーヴァは……

6.123.30

वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः।
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत् ॥ ६.१२३.३० ॥

栄光ある猿の王は皆に囲まれ、速やかに後宮に入り、ターラーを見て語った。

6.123.31

प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ ६.१२३.३१ ॥

愛しい人よ、偉大な心の猿たちの妻たちと共に、ラーガヴァ(ラーマ)の許しを得て、マイティリー(シーター)を喜ばせたいという願いから、行きなさい。

6.123.32

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ ६.१२३.३२ ॥

急ぎなさい!猿の女たちを連れて、私たちは行こう。アヨーディヤーとダシャラタのすべての妃たちを彼女たちに見せよう。

6.123.33

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना।
आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ॥ ६.१२३.३३ ॥

スグリーヴァの言葉を聞き、全身の美しいターラーは、猿の女たちすべてを呼んで語った。

6.123.34

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ६.१२३.३४ ॥

スグリーヴァの許しを得て、すべての猿たちと共に行くべきです。アヨーディヤーを見ることは私にとっても喜ばしいことです。

6.123.35

प्रवेशं चैव रामस्य पौरजानपदैः सह।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ६.१२३.३५ ॥

ラーマの市への入城を、都市と地方の人々とともに、またダシャラタのすべての妃たちの輝きを(見ること)。

6.123.36

तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः।
नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम् ॥ ६.१२३.३६ ॥

ターラーの許しを得て、猿の女たちはすべて作法どおりに身を飾り、右回りの礼拝をしてから出発した。

6.123.37

अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ॥ ६.१२३.३७ ॥

シーターに会いたい一心で、彼らはその飛行車に乗り込んだ。仲間とともに飛行車が速やかに上昇するのを見て、ラーガヴァ(ラーマ)は……

6.123.38

ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्।
दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः ॥ ६.१२३.३८ ॥

リシュヤムーカの近くで、ラーガヴァは再びヴァイデーヒーに言った。「シーターよ、あの大きな山は稲妻を伴う雲のように見える。」

6.123.39

ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः।
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ॥ ६.१२३.३९ ॥

リシュヤムーカは黄金の鉱物に覆われた最も優れた山である。ここで私は猿の王スグリーヴァと出会った。

6.123.40

समयश्च कृतः सीते वधार्थं वालिनो मया।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ॥ ६.१२३.४० ॥

シーターよ、ヴァーリンを討つ約束を私はここで交わした。見よ、あの蓮に満ちたパンパー湖が、見事な森に囲まれて見える。

6.123.41

त्वया विहीनो यत्राहं विललाप सुदुःखितः।
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥ ६.१२३.४१ ॥

あなたを失って深く嘆き悲しんだのはここである。その岸辺で、私は法を行うシャバリーに会った。

6.123.42

अत्र योजनबाहुश्च कबन्धो निहतो मया।
दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः ॥ ६.१२३.४२ ॥

ここで私は、腕が一ヨージャナにも伸びたカバンダを討った。シーターよ、ジャナスターナにあの壮麗な木が見える。

6.123.43

जटायुश्च महातेजास्तव हेतोर्विलासिनि।
रावणेन हतो यत्र पक्षिणां प्रवरो बली ॥ ६.१२३.४३ ॥

麗しき者よ、偉大な光輝をもつ、鳥の中で最も優れた力強いジャターユは、お前のために、そこでラーヴァナに殺されたのだ。

6.123.44

खरश्च निहतो यत्र दूषणश्च निपातितः।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥ ६.१२३.४४ ॥

そこでカラは殺され、ドゥーシャナも打ち倒された。そして大力のトリシラスを、私はまっすぐ飛ぶ矢で討った。

6.123.45

एतत् तदाश्रमपदमस्माकं वरवर्णिनि।
पर्णशाला तथा चित्रा दृश्यते शुभदर्शने ॥ ६.१२३.४५ ॥

麗しき色の女よ、これが我らのあの庵の地だ。美しい葉の小屋もここに見える、吉祥の姿の女よ。

6.123.46

यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्।
एषा गोदावरी रम्या प्रसन्नसलिला शुभा ॥ ६.१२३.४६ ॥

羅刹の王ラーヴァナがお前を力ずくで連れ去った場所がここだ。この美しく澄んだ水の吉祥なゴーダーヴァリーがある。

6.123.47

अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः।
दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः ॥ ६.१२३.४७ ॥

カバナシの群れに囲まれたアガスティヤの庵も見える。そして偉大な心の持ち主スティークシナの輝く庵もここにある。

6.123.48

दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्।
उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः ॥ ६.१२३.४८ ॥

ヴァイデーヒーよ、偉大なシャラバンガの庵も見える。ここに千眼のシャクラ、プランダラ(インドラ)自らがやって来たのだ。

6.123.49

अस्मिन् देशे महाकायो विराधो निहतो मया।
एते ते तापसा देवि दृश्यन्ते तनुमध्यमे ॥ ६.१२३.४९ ॥

ここで巨体のヴィラーダは私に討たれた。女神よ、細腰の人よ、あなたの苦行者たちが見えている。

6.123.50

अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ६.१२३.५० ॥

太陽や祭火に等しい氏族の長アトリがいる所、ここで、シーターよ、あなたは法を行ずる女苦行者を見た。

6.123.51

असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते।
अत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥ ६.१२३.५१ ॥

あの山々の王チトラクータが輝いている、ほっそりした人よ。ここにカイケーイーの息子が私をなだめに来たのだ。

6.123.52

एषा सा यमुना रम्या दृश्यते चित्रकानना।
भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि ॥ ६.१२३.५२ ॥

マイティリーよ、これが麗しいヤムナー河だ。岸辺には不思議な森がある。そして輝かしいバラドワージャの庵も見えている。

6.123.53

इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी।
नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना ॥ ६.१२३.५३ ॥

そして、三つの流れをもつ聖なるガンガーが見える。多くの鳥の群れで満ち、森は花々が満開である。

6.123.54

शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ॥ ६.१२३.५४ ॥

ここがシュリンガヴェーラプラであり、わが友グハが住む所だ。シーターよ、祭柱で飾られたサラユー河が見えている。

6.123.55

एषा सा दृश्यते सीते राजधानी पितुर्मम।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ६.१२३.५५ ॥

シーターよ、見よ、わが父の都が見えている。ヴァイデーヒーよ、アヨーディヤーに礼拝せよ。我らは再び戻ってきた。

6.123.56

ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः।
उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा ॥ ६.१२३.५६ ॥

そのとき、ヴィビーシャナを伴ったあの猿たちと羅刹たちは皆、喜びのうちに幾度も跳び上がり、その都を見た。

6.123.57

ततस्तु तां पाण्डुरहर्म्यमालिनीं
विशालकक्ष्यां गजवाजिभिर्वृताम्।
पुरीमपश्यन् प्लवगाः सराक्षसाः
पुरीं महेन्द्रस्य यथामरावतीम् ॥ ६.१२३.५७ ॥

そのとき猿と羅刹たちは、白い楼閣が連なり、広い中庭をもち、象と馬に囲まれたその都を見た。それはインドラのアマラーヴァティーのようであった。