蚁垤《罗摩衍那》 · 篇 6.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.124.1
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥ ६.१२४.१ ॥
十四年期满,在第五日,罗摩(拉克什曼的长兄)抵达婆罗堕遮的修行处,自持而谦恭地向这位圣者行礼。
6.124.2
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्।
शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे।
कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः ॥ ६.१२४.२ ॥
他向以苦行为财富的婆罗堕遮恭敬行礼后问道:"尊者,您是否听闻城中丰足无病?婆罗多是否安好?母亲们是否仍然健在?"
6.124.3
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥ ६.१२४.३ ॥
罗摩如此问话后,大仙婆罗堕遮先是微笑,满心欢喜地回答了罗怙族中最杰出的罗摩。
6.124.4
आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥ ६.१२४.४ ॥
婆罗多披着结发,遵从你的命令,正在等候你;他把你的木屐置于前面,家中一切安好。
6.124.5
त्वां पुरा चीरवसनं प्रविशन्तं महावनम्।
स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम् ॥ ६.१२४.५ ॥
从前我见你身穿树皮衣,走入大森林,失去王国,妻子作为第三者同行,唯一心愿只是达摩。
6.124.6
पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम्।
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ॥ ६.१२४.६ ॥
你步行而行,舍弃了一切,遵从父亲的命令,远离了一切享乐,如同从天界坠落的神。
6.124.7
दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय।
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥ ६.१२४.७ ॥
啊,战场上的胜利者,我见他听从吉迦伊的话,以森林中的根茎果实为食,心中先生起了怜悯。
6.124.8
साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम्।
समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा ॥ ६.१२४.८ ॥
但如今见他大功告成,身边有朋友、随从与亲属,又已击败敌人,我心中生出无上的喜悦。
6.124.9
सर्वं च सुखदुःखं ते विदितं मम राघव।
यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना ॥ ६.१२४.९ ॥
啊,罗怙之裔,你在居于人居之地(Janasthāna)时所经历的一切苦乐,我都知道。
6.124.10
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्।
रावणेन हृता भार्या बभूवेयमनिन्दिता ॥ ६.१२४.१० ॥
我受命为婆罗门谋利,守护一切苦行者,此无瑕的妻子却被罗波那劫走。
6.124.11
मारीचदर्शनं चैव सीतोन्मथनमेव च।
कबन्धदर्शनं चैव पम्पाभिगमनं तथा ॥ ६.१२४.११ ॥
见到摩里知,悉多被劫,见到甘达,以及前往潘波湖,也是如此。
6.124.12
सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया।
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ॥ ६.१२४.१२ ॥
你与须羯哩婆结交,在那里杀死了婆梨,寻找吠德希,以及风之子的功绩,也是如此。
6.124.13
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः।
यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः ॥ ६.१२४.१३ ॥
当得知维台希之后,如那罗建造桥梁,以及欢喜的猴群统领焚烧楞伽城。
6.124.14
सपुत्रबान्धवामात्यः सबलः सहवाहनः।
यथा च निहतः संख्ये रावणो बलदर्पितः ॥ ६.१२४.१४ ॥
如以力量自负的罗波那,连同其子、亲属、大臣、军队和车乘,在战斗中被杀。
6.124.15
यथा च निहते तस्मिन् रावणे देवकण्टके।
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥ ६.१२४.१५ ॥
以及当众神之刺罗波那被杀后,与诸神的相会,以及赐予你的恩惠。
6.124.16
सर्वं ममैतद् विदितं तपसा धर्मवत्सल।
सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः ॥ ६.१२४.१६ ॥
崇尚正法者啊,这一切我凭苦行已经知晓;带来消息的我的弟子们正从此处向城市而来。
6.124.17
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर।
अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि ॥ ६.१२४.१७ ॥
我也在此赐予你恩惠。持兵器者中的最优者啊,请接受此敬礼;明日你将前往阿逾陀。
6.124.18
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः।
बाढमित्येव संहृष्टः श्रीमान् वरमयाचत ॥ ६.१२४.१८ ॥
光辉的王子低首领受了他的话,欣喜地说:“很好。”然后请求恩惠。
6.124.19
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः।
फलान्यमृतगन्धीनि बहूनि विविधानि च ॥ ६.१२४.१९ ॥
所有反季结果的树木都滴着蜂蜜,还出现了许多种类繁多、香如甘露的果实。
6.124.20
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः।
तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ॥ ६.१२४.२० ॥
"愿尊者前往阿逾陀的道路上,一切都如此。"承诺既出,随即说道:"就这样吧。"
6.124.21
अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः।
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ॥ ६.१२४.२१ ॥
那里的树木变得如同天上的神树:有的不结果,有的结果;有的无花,有的繁花点缀。
6.124.22
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः।
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ॥ ६.१२४.२२ ॥
那些树虽已干枯,却叶子完整,并且滴着蜂蜜;那时,在行路者的四周三由旬之内,都是如此。
6.124.23
ततः प्रहृष्टाः प्लवगर्षभास्ते
बहूनि दिव्यानि फलानि चैव।
कामादुपाश्नन्ति सहस्रशस्ते
मुदान्विताः स्वर्गजितो यथैव ॥ ६.१२४.२३ ॥
于是那些猴中之王欢喜无比,随心所欲地成千上万地食用许多神奇的果实,充满喜悦,宛如征服天界的人。