ヴァールミーキのラーマーヤナ · サルガ 6.125
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.125.1
अयोध्यां तु समालोक्य चिन्तयामास राघवः।
प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः ॥ ६.१२५.१ ॥
アヨーディヤーを見て、ラーガヴァ(ラーマ)は思いに沈んだ。愛しき者を願い、迅速な武勇のラーマは、そのとき愛する人々のことを思った。
6.125.2
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्।
उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम् ॥ ६.१२५.२ ॥
思案の後、彼は猿たちに視線を向け、賢く輝かしい彼は猿の跳躍者ハヌマーンに語った。
6.125.3
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम।
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥ ६.१२५.३ ॥
跳躍者の最良よ、速やかにアヨーディヤーへ行き、王宮の人々が無事かどうかを確かめよ。
6.125.4
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्।
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥ ६.१२५.४ ॥
シュリンガヴェーラ市に着いたら、深い森に住むニシャーダの主グハに、私の言葉で私の無事を伝えよ。
6.125.5
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्।
भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥ ६.१२५.५ ॥
私が無事で病も熱もないと聞けば、グハは喜ぶだろう。彼は私自身に等しい友である。
6.125.6
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च।
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥ ६.१२५.६ ॥
アヨーディヤーへの道とバラタの知らせを、ニシャーダの主グハが喜んで汝に告げるだろう。
6.125.7
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम।
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥ ६.१२५.७ ॥
私の言葉として、バラタに無事を伝えよ。目的を果たしたこと、妻とラクシュマナと共に無事であることを彼に告げよ。
6.125.8
हरणं चापि वैदेह्या रावणेन बलीयसा।
सुग्रीवेण च संवादं वालिनश्च वधं रणे ॥ ६.१२५.८ ॥
また、強力なラーヴァナによるヴァイデーヒーの誘拐、スグリーヴァとの盟約、戦場でのヴァーリンの殺害も伝えよ。
6.125.9
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया।
लङ्घयित्वा महातोयमापगापतिमव्ययम् ॥ ६.१२५.९ ॥
マイティリーの捜索と、偉大な水をたたえた不滅の海を越えてどのように彼女を見つけたかも伝えよ。
6.125.10
उपयानं समुद्रस्य सागरस्य च दर्शनम्।
यथा च कारितः सेतू रावणश्च यथा हतः ॥ ६.१२५.१० ॥
あなたが海に至り海を望んだこと、橋がどのように架けられたか、そしてラーヴァナがどのように殺されたかを伝えよ。
6.125.11
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च।
महादेवप्रसादाच्च पित्रा मम समागमम् ॥ ६.१२५.११ ॥
マヘーンドラ、ブラフマー、ヴァルナが与えた恩寵、マハーデーヴァの慈悲、そして父との再会も伝えよ。
6.125.12
उपयातं च मां सौम्य भरताय निवेदय।
सह राक्षसराजेन हरीणामीश्वरेण च ॥ ६.१२५.१२ ॥
善き者よ、ラークシャサの王と猿の主とともに私が帰還していると、バラタに伝えよ。
6.125.13
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः।
उपायाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ६.१२५.१३ ॥
敵の軍勢を打ち破り、無上の名声を得て、目的を果たしたラーマは、強力な味方たちとともに帰還しつつある。
6.125.14
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः।
स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ॥ ६.१२५.१४ ॥
これを聞いたバラタは、ヤマのような自制をもって振る舞うだろう。また、私に関することはすべて、あなたが知っておくべきである。
6.125.15
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च।
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च ॥ ६.१२५.१५ ॥
バラタのすべての様子と身振りを、顔色、眼差し、そして言葉によって、あなたは真に知るべきである。
6.125.16
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्।
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ ६.१२५.१६ ॥
あらゆる欲望に満ち、象・馬・戦車にあふれた、父祖伝来の王国——その方へ心を向けない者がいるだろうか。
6.125.17
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्।
प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः ॥ ६.१२५.१७ ॥
栄光あるバラタ自身は王国を望むかもしれない。しかしラグの歓喜であるラーマが、全世界を統治すべきである。
6.125.18
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर।
यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि ॥ ६.१२५.१८ ॥
猿よ、彼の意図と決意を理解したなら、我々がまだ遠くへ行かないうちに、すぐに戻ってくるがよい。
6.125.19
मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ॥ ६.१२५.१९ ॥
人間の姿をとり、彼はすばやくアヨーディヤーへ向かった。
6.125.20
अथोत्पपात वेगेन हनूमान् मारुतात्मजः।
गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम् ॥ ६.१२५.२० ॥
そのとき風の子ハヌマーンは素早く飛び上がった。最も優れた蛇を捕らえようとするガルダのように。
6.125.21
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्।
गङ्गायमुनयोर्भीमं समतीत्य समागमम् ॥ ६.१२५.२१ ॥
祖霊の道と鳥王の吉祥の住処を飛び越え、ガンガーとヤムナーの恐ろしい合流点を過ぎて。
6.125.22
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्।
स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् ॥ ६.१२५.२२ ॥
シュリンガヴェーラ市に着き、グハのもとへ進んだ勇猛なハヌマーンは、喜びに満ちて吉祥の言葉でこう告げた。
6.125.23
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः।
ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् ॥ ६.१२५.२३ ॥
君の友、真の勇者カークツトゥハのラーマは、シーターとサウミトリとともにいる。彼は君の無事を尋ねた。
6.125.24
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः।
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम् ॥ ६.१२५.२४ ॥
聖者の言葉に従い、この五日目の夜をここで過ごし、バラドヴァージャの許しを得れば、まさにここでラーghavaに会うだろう。
6.125.25
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः।
उत्पपात महावेगाद् वेगवानविचारयन् ॥ ६.१२५.२५ ॥
このように言い、大いに輝くその者は、喜びに全身の毛を逆立て、速き者は熟慮することなく大いなる速さで飛び上がった。
6.125.26
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा।
वरूथीं गोमतीं चैव भीमं शालवनं तथा ॥ ६.१२५.२६ ॥
彼はラーマの渡し場、ヴァールキニー川、ヴァルーティー、ゴーマティー、そして恐ろしいシャーラ林を見た。
6.125.27
प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि।
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ॥ ६.१२५.२७ ॥
遠い道のりを行き、幾千もの民と豊かな国々を過ぎて、猿の中の象は急いで進んだ。
6.125.28
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥ ६.१२५.२८ ॥
彼はナンディグラーマ近くの花咲く木々に着いた。それは神々の主インドラの、チャイトラ・ラタの園の木々のようであった。
6.125.29
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः।
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ॥ ६.१२५.२९ ॥
女性や息子、孫たちと楽しみ、美しく飾った人々(の中で)、アヨーディヤーから一クローシャの距離にいた、樹皮衣と黒い鹿皮をまとった者。
6.125.30
ददर्श भरतं दीनं कृशमाश्रमवासिनम्।
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ॥ ६.१२५.३० ॥
彼は、憔悴し、苦行林に住み、髪を束ね、体に汚れをまとい、兄の不幸に悲しみやつれたバラタを見た。
6.125.31
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्।
समुन्नतजटाभारं वल्कलाजिनवाससम् ॥ ६.१२५.३१ ॥
果実と根を食べ、自制し、ダルマを行う苦行者で、高く結い上げたジャターの重みをもち、樹皮と鹿皮をまとった——そのようなバラタを彼は見た。
6.125.32
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्।
पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम् ॥ ६.१२५.३२ ॥
戒律を堅く守り、心を清めた者、ブラフマルシに等しい威光を持つ者——あなたの履き物を前に置き、大地を統治していた。
6.125.33
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्।
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ॥ ६.१२५.३३ ॥
四姓の世界を一切の恐れから守る者で、清浄な大臣と司祭たちに囲まれて座していた。
6.125.34
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः।
नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ॥ ६.१२५.३४ ॥
主要な将軍たちや赭色の衣をまとった人々が付き従っていた。だがあなたの王子、樹皮と黒い羚羊の皮をまとった王子を、彼らは見ようとしなかった。
6.125.35
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः।
तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम् ॥ ६.१२५.३५ ॥
ダルマを愛する市民たちは、それを享受しようとは決意しない。彼らは彼をダルマそのもの、ダルマを知る者、もう一人の血を分けた身内のように見なしているのだ。
6.125.36
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः।
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ॥ ६.१२५.३६ ॥
風神の子ハヌマーンは合掌してこの言葉を述べた——「ダンダカの森に住み、樹皮とジャターをまとったお方——あなたはそのお方を知っている。」
6.125.37
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्।
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ॥ ६.१२५.३७ ॥
あなたはカークツトゥスタ(ラーマ)を思って嘆いておられるが、彼はあなたの無事を尋ねておられた。主よ、嬉しい知らせをお伝えします。この酷い悲しみを捨ててください。
6.125.38
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः।
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ॥ ६.१२५.३८ ॥
今この瞬間、あなたは兄のラーマと再会されます。ラーヴァナを討ち、マイティリー(シーター)を取り戻してラーマは……
6.125.39
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः।
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी।
सीता समग्रा रामेण महेन्द्रेण शची यथा ॥ ६.१२५.३९ ॥
目的を果たしたラーマは、強大な味方と共に帰還しておられます。大いなる輝きのラクシュマナと、栄光あるヴァidehī(シーター)も共におられ、シーターはインドラに寄り添うシャチーのように、ラーマと共に完全です。
6.125.40
एवमुक्तो हनुमता भरतः कैकयीसुतः।
पपात सहसा हृष्टो हर्षान्मोहमुपागमत् ॥ ६.१२५.४० ॥
ハヌマーンにこう告げられると、カイケーイーの子バラタは喜びのあまり突然倒れ、あまりの歓喜に気を失った。
6.125.41
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः।
हनूमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ६.१२५.४१ ॥
やがてしばらくして身を起こし、気を取り直したラーガヴァ(バラタ)は、心地よい言葉を語るハヌマーンにこう言った。
6.125.42
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्।
सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः ॥ ६.१२५.४२ ॥
バラタは猿のハヌマーンを熱く抱きしめ、喜びと愛情から溢れた大粒の涙でその身を濡らした。
6.125.43
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ६.१२५.४३ ॥
善き人よ、あなたが神であれ人であれ、憐れみによってここに来られた。喜ばしい知らせを語るあなたに、私は愛しいものを与えよう。
6.125.44
गवां शतसहस्रं च ग्रामाणां च शतं परम्।
सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश ॥ ६.१२५.४४ ॥
十万頭の牛、百の優れた村、そして耳飾りをつけた、品行の良い十六人の妻と乙女。
6.125.45
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥ ६.१२५.४५ ॥
黄金色の肌、美しい鼻と腿を持ち、月のように穏やかな顔の女性たち。あらゆる装身具を備え、良い家柄と血筋の者たち。
6.125.46
निशम्य रामागमनं नृपात्मजः
कपिप्रवीरस्य तदाद्भुतोपमम्।
प्रहर्षितो रामदिदृक्षयाभवत्
पुनश्च हर्षादिदमब्रवीद् वचः ॥ ६.१२५.४६ ॥
ラーマの来着を聞き、猿の勇者の驚くべき言葉を聞いて、王子はラーマに会いたい思いに大いに喜び、喜びのうちにまた次のように言った。