Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.127

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.127.1

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ ६.१२७.१ ॥

この無上の喜びを聞いて、真の勇者バラタは喜び、敵の勇士を倒すシャトルグナに命じた。

6.127.2

दैवतानि च सर्वाणि चैत्यानि नगरस्य च।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ ६.१२७.२ ॥

清らかな人々が、香りの良い花輪と楽器で、町のすべての神々の祠と聖なる塔を供養するように。

6.127.3

सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा।
सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः ॥ ६.१२७.३ ॥

讃歌とプラーナに通じた吟遊詩人(スータ)、すべての宮廷歌手、楽器に長けたすべての遊女が、ことごとく(祭りに加わるように)。

6.127.4

राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः।
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ॥ ६.१२७.४ ॥

王妃たち、大臣たち、兵士たち、軍の婦人たちの群れ、バラモンとクシャトリヤ、組合の長たちや諸団体が、祭りに来るように。

6.127.5

अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्।
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥ ६.१२७.५ ॥

ラーマの月のような御顔を拝しに、人々は出て行くように。バラタの言葉を聞いて、敵の勇士を倒すシャトルグナはそのとおりにした。

6.127.6

विष्टीरनेकसाहस्रीश्चोदयामास भागशः।
समीकुरुत निम्नानि विषमाणि समानि च ॥ ६.१२७.६ ॥

彼は何千人もの作業員を班に分けて命じた。低い所、凸凹の所、そして平らな所も、みな均せ。

6.127.7

स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्।
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ॥ ६.१२७.७ ॥

ナンディグラーマより先の場所を清めさせ、全大地に雪のように冷たい水を撒かせよ。

6.127.8

ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः।
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ॥ ६.१२७.८ ॥

次いで他の者たちは四方に爆米と花を撒き、その最上の都の街路には高く旗を掲げさせよ。

6.127.9

शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति।
स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः ॥ ६.१२७.९ ॥

日の出の方角に面した住居を飾らせよ。花輪、散らした花、五色の金の飾りで輝かせよ。

6.127.10

राजमार्गमसम्बाधं किरन्तु शतशो नराः।
ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः ॥ ६.१२७.१० ॥

王道を数百の人々が混雑のないように撒き清めよ。すると人々はシャトルグナの命令を聞き、喜びに満ちた。

6.127.11

धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः।
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥ ६.१२७.११ ॥

ドリシュティ、ジャヤンタ、ヴィジャヤ、シッダールタ、事を成す者アショーカ、マントラパーラ、そしてスマントラも出発した。

6.127.12

मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः।
अपरे हेमकक्षाभिः सगजाभिः करेणुभिः ॥ ६.१२७.१२ ॥

発情した数千の象が旗で美しく飾られて進み、他は金の鞍をつけ、雄象や雌象とともに来た。

6.127.13

निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः।
शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम् ॥ ६.१२७.१३ ॥

馬に囲まれ、戦車に乗った大戦士たちが出発した。手には槍、投槍、縄を持ち、旗と幟を掲げていた。

6.127.14

तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः।
पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥ ६.१२७.१४ ॥

幾千もの馬と、最も優れた者たちとともに、幾千もの歩兵に囲まれて、勇士たちは進んだ。

6.127.15

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः।
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ ६.१२७.१५ ॥

そこでダシャラタの妃たちは皆、乗り物に登り、カウシャリヤーを先頭に立て、スミトラーも伴って出発した。

6.127.16

कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ ६.१२७.१६ ॥

カイケーイーとともに、皆がナンディグラーマに到着した。

6.127.17

द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः।
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः ॥ ६.१२७.१७ ॥

法を体現するバラタは、再生族の最上の人々、組合の長たち、町の人々、そして手に花輪と菓子を持つ大臣たちに囲まれていた。

6.127.18

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः।
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ ६.१२७.१८ ॥

法に通じたバラタは、ほら貝と太鼓の音、そして吟遊詩人たちの賛美に迎えられ、高貴なる方(ラーマ)の足を取り、頭を垂れて礼拝した。

6.127.19

पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्।
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ॥ ६.१२७.१९ ॥

白い花輪で飾られた白い傘と、王にふさわしく金で装飾された二本の白いヤクの尾の払子を取って。

6.127.20

उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः।
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ॥ ६.१२७.२० ॥

断食で痩せ衰え、憔悴し、樹皮の衣と黒い鹿皮をまとった彼は、兄の到着を聞いて、以前からすでに喜びに満たされていた。

6.127.21

प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह।
अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च ॥ ६.१२७.२१ ॥

偉大な人が大臣たちとともにラーマを迎えに進んだとき、馬の蹄の音と戦車の車輪の縁の響きとともに。

6.127.22

शङ्खदुन्दुभिनादेन संचचालेव मेदिनी।
गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः ॥ ६.१२७.२२ ॥

法螺と太鼓の音に、大地が震えたかのようであった。象の咆哮や法螺と太鼓の轟きとともに。

6.127.23

कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्।
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥ ६.१२७.२३ ॥

都市全体がナンディグラーマへ来た。バラタはそれを見て、風の子にこの言葉を語った。

6.127.24

कच्चिन्न खलु कापेयी सेव्यते चलचित्तता।
नहि पश्यामि काकुत्स्थं राममार्यं परंतपम् ॥ ६.१२७.२४ ॥

もしや心の移ろいという酒に溺れているのではないか。高貴なカークトゥスタ、敵を焼くラーマが見えないのだから。

6.127.25

कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः।
अथैवमुक्ते वचने हनूमानिदमब्रवीत् ॥ ६.१२७.२५ ॥

意のままに姿を変えるヴァーナラたちは見えないのだろうか。そう言われて、ハヌマーンはこう言った。

6.127.26

अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्।
सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् ॥ ६.१२७.२६ ॥

真の勇者バラタに用件を伝えるため、常に実をつけ、花咲き、蜜を滴らせる木々に至り。

6.127.27

भरद्वाजप्रसादेन मत्तभ्रमरनादितान्।
तस्य चैव वरो दत्तो वासवेन परंतप ॥ ६.१२७.२७ ॥

バラドヴァージャの恩寵により、酔った蜂の羽音に満ちた(木々へ)。彼にはヴァーサヴァ(インドラ)も恩恵を授けた、敵を焼く者よ。

6.127.28

ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्।
निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ॥ ६.१२७.२८ ॥

軍勢とともに彼に対して、あらゆる美点を備えた歓待がなされた。喜んだ森の住人たちの恐ろしい響きが聞こえる。

6.127.29

मन्ये वानरसेना सा नदीं तरति गोमतीम्।
रजोवर्षं समुद्भूतं पश्य सालवनं प्रति ॥ ६.१२७.२९ ॥

あのヴァーナラの軍勢がゴーマティー川を渡っているのだと思う。見よ、サーラ林へ向かって舞い上がる砂塵の雨を。

6.127.30

मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः।
तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम् ॥ ६.१२७.३० ॥

猿たちが美しいサーラ林を揺らしているのだと思う。遠くにこれが見える、月のような天空の車。

6.127.31

विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्।
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ ६.१२७.३१ ॥

梵天が意念によって造ったこの神聖な空飛ぶ車プシュパカは、偉大なる御方がラーヴァナとその一族を討ち倒して得たものである。

6.127.32

तरुणादित्यसंकाशं विमानं रामवाहनम्।
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥ ६.१२७.३२ ॥

若い太陽のように輝くこの乗り物はラーマの乗り物であり、クベーラの恩寵によって得られたこの神聖な車は、思念のように速い。

6.127.33

एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ।
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥ ६.१२७.३३ ॥

この車には勇士たるラーガヴァの二人の兄弟が、ヴァイデーヒー(シーター)とともに乗っており、また威光に満ちたスグリーヴァと羅刹のヴィビーシャナもいる。

6.127.34

ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥ ६.१२७.३४ ॥

そのとき喜びから湧き起こった歓声が空に届いた。女も子供も若者も老人も「これがラーマだ」と叫んだのである。

6.127.35

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः।
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ ६.१२७.३५ ॥

戦車や象や馬から降りて地上に来た人々は、空中の車に座す方を、空の月を見るように仰ぎ見た。

6.127.36

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः।
यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत् ॥ ६.१२७.३६ ॥

合掌し、喜びに満ちてラーガヴァに向き直ったバラタは、そののち定めのとおりアルギヤや足洗水などの供物で、ラーマを礼拝した。

6.127.37

मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः।
रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः ॥ ६.१२७.३७ ॥

梵天が意念で作った天空の車の中で、バラタの兄は輝いていた。広く長い目をもち、金剛杵を握る神のように。

6.127.38

ततो विमानाग्रगतं भरतो भ्रातरं तदा।
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ॥ ६.१२७.३८ ॥

そのとき、バラタは深く身をかがめ、車の前方に立つ兄ラーマを礼拝した。メール山に立つ太陽のように。

6.127.39

ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्।
हंसयुक्तं महावेगं निपपात महीतलम् ॥ ६.१२७.३९ ॥

そこでラーマの許しを得て、比類なく、白鳥に牽かれ、非常な速さの空飛ぶ車は、大地へと降りた。

6.127.40

आरोपितो विमानं तद् भरतः सत्यविक्रमः।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ६.१२७.४० ॥

その車に乗せられた真の勇者バラタは、ラーマのもとに近づき、喜びのうちに再び礼拝した。

6.127.41

तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्।
अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥ ६.१२७.४१ ॥

カークツトゥハ家のラーマは立ち上がり、長い時を経て目の前に現れたバラタを膝の上に座らせ、喜びのうちに抱きしめた。

6.127.42

ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः।
अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत् ॥ ६.१२७.४२ ॥

そして敵を焼き尽くすバラタは、ラクシュマナとヴァイデーヒーのもとに近づき、喜んで礼拝し、自らの名を告げた。

6.127.43

सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्।
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ॥ ६.१२७.४३ ॥

カイケーイーの子バラタは、スグリーヴァ、ジャーンバヴァーン、アンガダ、マインダ、ドヴィヴィダ、ニーラ、リシャバをも抱擁した。

6.127.44

सुषेणं च नलं चैव गवाक्षं गन्धमादनम्।
शरभं पनसं चैव परितः परिषस्वजे ॥ ६.१२७.४४ ॥

バラタはスシェーナ、ナラ、ガヴァークシャ、ガンダマーダナ、シャラバ、パナサをも四方から抱きしめた。

6.127.45

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः।
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥ ६.१२७.४५ ॥

意のままに姿を変えられるその猿たちは人間の姿をとり、喜んでバラタに無事を尋ねた。

6.127.46

अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्।
परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ ६.१२७.४६ ॥

そのとき、大いなる威光を持ち、法にかなう者の中で最もすぐれた王子バラタは、猿の中の牡牛スグリーヴァを抱きしめて言った。

6.127.47

त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः।
सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् ॥ ६.१२७.४७ ॥

スグリーヴァよ、お前は我ら四人に続く五番目の兄弟だ。友情は愛情から生まれ、害を与えるのは敵の印である。

6.127.48

विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्।
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ६.१२७.४८ ॥

バラタはヴィビーシャナに慰めの言葉を述べた。「幸いにも、お前の助けによってこの非常に困難な事が成し遂げられた。」

6.127.49

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्।
सीतायाश्चरणौ वीरो विनयादभ्यवादयत् ॥ ६.१२७.४९ ॥

そのとき英雄シャトルグナは、ラクシュマナと共にラーマに礼をし、さらに謙虚にシーターの足元にも礼をした。

6.127.50

रामो मातरमासाद्य विवर्णां शोककर्शिताम्।
जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन् ॥ ६.१२७.५० ॥

ラーマは、顔色を失い悲しみにやつれた母のもとへ近づき、深く身をかがめて母の足を取り、母の心を喜ばせた。

6.127.51

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्।
स मातॄश्च ततः सर्वाः पुरोहितमुपागमत् ॥ ६.१२७.५१ ॥

スミトラーと誉れ高いカイケーイーに礼をし、さらにすべての母たちに礼をしてから、家の司祭のもとへ向かった。

6.127.53

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन।
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः।
व्याकोशानीव पद्मानि ददर्श भरताग्रजः ॥ ६.१२७.५३ ॥

「ようこそ、大いなる腕の方よ、カウサリヤーの喜びを増す方よ。」バラタの兄は、市民たちが掲げた幾千もの合掌を見た。それは満開の蓮のようであった。

6.127.54

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥ ६.१२७.५४ ॥

バラタは自らラーマの履物を取り、法を知る者として、それを王(ラーマ)の足に履かせた。

6.127.55

अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः।
एतत् ते सकलं राज्यं न्यासं निर्यातितं मया ॥ ६.१२७.५५ ॥

そのときバラタは合掌してラーマに言った。「あなたのこの王国すべて、あなたから預かった委託物を、私はあなたにお返ししました。」

6.127.56

अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः।
यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम् ॥ ६.१२७.५६ ॥

今日、私の生は成就し、願いは叶いました。王として再びアヨーディヤーに戻られたあなたを見ることができたのですから。

6.127.57

अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्।
भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ ६.१२७.५७ ॥

どうか宝庫、穀物倉、宮殿、軍勢をご覧ください。あなたの威光により、私はすべてを十倍にいたしました。

6.127.58

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्।
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ६.१२७.५८ ॥

兄を慈しむバラタがこのように語るのを見て、猿たちと羅刹ヴィビーシャナは涙を流した。

6.127.59

ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः।
ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ६.१२७.५९ ॥

そこでラーマは喜びに満ちてバラタを膝に抱き上げ、軍勢とともにあの飛行車でバラタの庵へ向かった。

6.127.60

भरताश्रममासाद्य ससैन्यो राघवस्तदा।
अवतीर्य विमानाग्रादवतस्थे महीतले ॥ ६.१२७.६० ॥

バラタの庵に着くと、ラーマは軍勢とともに飛行車の頂から降り、大地に立った。

6.127.61

अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्।
वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ६.१२७.६१ ॥

するとラーマはその無比の飛行車に言った。「神ヴァイシュラヴァナ(クベーラ)を乗せて戻れ。お前に去ることを許す。」

6.127.62

ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्।
उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ॥ ६.१२७.६२ ॥

そしてラーマの許しを得て、その無比の飛行車は北の方角へ向かい、財神(クベーラ)の住処へ行った。

6.127.63

विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा।
अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम् ॥ ६.१२७.६३ ॥

羅刹に奪われていた神聖なプシュパカ飛行車は、ラーマの言葉に促されて速やかに財神(クベーラ)のもとへ行った。

6.127.64

पुरोहितस्यात्मसखस्य राघवो
बृहस्पतेः शक्र इवामराधिपः।
निपीड्य पादौ पृथगासने शुभे
सहैव तेनोपविवेश वीर्यवान् ॥ ६.१२७.६४ ॥

神々の主インドラが友であり祭官であるブリハスパティと共に座すように、勇猛なラーガヴァは、自らの友であり祭官の足を揉み、別々の立派な座席に彼と共に座った。