Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.128

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.128.1

शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ ६.१२८.१ ॥

カイケーイーの喜びを増す者バラタは、合掌を頭上に置き、真の勇猛さを持つ兄ラーマに語った。

6.128.2

पूजिता मामिका माता दत्तं राज्यमिदं मम।
तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ ६.१२८.२ ॥

私の母は敬われ、この王国が私に与えられた。あなたが私に与えてくれたとおりに、それを今あなたにまた返そう。

6.128.3

धुरमेकाकिना न्यस्तां वृषभेण बलीयसा।
किशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ ६.१२८.३ ॥

力強い雄牛が一頭で背負う軛のように、幼い子牛のような私には、この重い荷を担う力はない。

6.128.4

वारिवेगेन महता भिन्नः सेतुरिव क्षरन्।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ६.१२८.४ ॥

大水の激しい勢いで決壊し流れ出る堤防のように、守られていない裂け目を持つこの王国は、よく結ばれていないと私は思う。

6.128.5

गतिं खर इवाश्वस्य हंसस्येव च वायसः।
नान्वेतुमुत्सहे वीर तव मार्गमरिंदम ॥ ६.१२८.५ ॥

ロバが馬の歩みに、カラスが白鳥の歩みに従えないように、英雄よ、敵を制する者よ、私はあなたの道に従うことはできない。

6.128.6

यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने।
महानपि दुरारोहो महास्कन्धः प्रशाखवान् ॥ ६.१२८.६ ॥

中庭に植えられ育てられた木は、大きく太い幹と多くの枝を持っていても、登るのが難しい。

6.128.7

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्।
तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः ॥ ६.१२८.७ ॥

花を咲かせても実を見せなければ枯れてしまう。植えられた目的の恩恵を、それは受けることがない。

6.128.8

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि।
यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि ॥ ६.१२८.८ ॥

大腕の方よ、これは譬えです。その意味をあなたは理解すべきです。人の王よ、あなたは我らの主でありながら、従者を治めないのであれば……

6.128.9

जगदद्याभिषिक्तं त्वामनुपश्यतु राघव।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ६.१२८.९ ॥

ラーガヴァよ、今日、世界はあなたが灌頂されたのを見よ。正午に輝きわたり燃える太陽のように。

6.128.10

तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥ ६.१२८.१० ॥

楽器の響き、腰飾りと足環の鳴る音、甘美な歌声によって目覚めよ。そしてまた横たわれ。

6.128.11

यावदावर्तते चक्रं यावती च वसुंधरा।
तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय ॥ ६.१२८.११ ॥

車輪が回るかぎり、大地が広がるかぎり、あなたはこの世界の主権を保て。

6.128.12

भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ ६.१२८.१२ ॥

バラタの言葉を聞き、敵の城を征服するラーマは「そうあれかし」と言って受け入れ、吉祥の座に坐した。

6.128.13

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः।
सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन् ॥ ६.१२८.१३ ॥

そこで シャトルグナの言葉により、腕利きの床屋たちが、柔らかな手と素早い動きで、ラーガヴァ(ラーマ)を取り囲んだ。

6.128.14

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ ६.१२८.१४ ॥

まずバラタが沐浴を終え、次いで大力のラクシュマナ、猿王スグリーヴァ、羅刹王ヴィビーシャナが沐浴を終えた。

6.128.15

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः।
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ ६.१२८.१५ ॥

もつれた髪を清め、沐浴を終え、色とりどりの花輪と香油で飾り、極めて高価な衣をまとって、彼は威光に輝きながらそこに立った。

6.128.16

प्रतिकर्म च रामस्य कारयामास वीर्यवान्।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ ६.१२८.१६ ॥

勇猛で、イクシュヴァーク家を栄えさせる吉祥な彼は、ラーマとラクシュマナの身だしなみも整えさせた。

6.128.17

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ ६.१२८.१७ ॥

そのとき、ダシャラタの妃たちはみな心ある女性として、自らシーターの身だしなみを美しく整えた。

6.128.18

ततो वानरपत्नीनां सर्वासामेव शोभनम्।
चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला ॥ ६.१२८.१८ ॥

そのとき、息子を慈しむカウサリヤーは喜びのうちに、念入りにすべての猿の妻たちを美しく整えた。

6.128.19

ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः।
योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥ ६.१२८.१९ ॥

そこでシャトルグナの言葉により、スマントラという御者が全身が美しい戦車を繋いで前へ進み出た。

6.128.20

अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्।
आरुरोह महाबाहू रामः परपुरंजयः ॥ ६.१२८.२० ॥

火や太陽のように清らかな神聖な戦車が立っているのを見て、大腕の、敵の都市を征服するラーマはそれに乗った。

6.128.21

सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ ६.१२८.२१ ॥

インドラのように輝くスグリーヴァとハヌマーンは、沐浴して神々しい衣を身にまとい、美しい耳飾りをつけて出発した。

6.128.22

सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ ६.१२८.२२ ॥

あらゆる装身具を身につけ、美しい耳飾りをつけたスグリーヴァの妻たちとシーターは、都を見たいと熱望して出発した。

6.128.23

अयोध्यायां च सचिवा राज्ञो दशरथस्य च।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ ६.१२८.२३ ॥

アヨーディヤーでは、ダシャラタ王の大臣たちが司祭を先頭に立てて、意義ある相談をした。

6.128.24

अशोको विजयश्चैव सिद्धार्थश्च समाहिताः।
मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ ६.१२८.२४ ॥

アショーカ、ヴィジャヤ、シッダールタは心を集中して、ラーマの繁栄と都の繁栄のために相談していた。

6.128.25

सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः।
कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम् ॥ ६.१२८.२५ ॥

勝利にふさわしい偉大な魂のラーマの灌頂のために、吉祥の儀礼を伴って、なすべきことすべてを行いなさい。

6.128.26

नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ ६.१२८.२६ ॥

ラーマに会いたい一心で、彼らは急いで町の外へ出た。

6.128.27

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ ६.१२८.२७ ॥

インドラのように汚れなきラーマは、黄褐色の馬をつないだ戦車に乗り、優れた都へ向かって出発した。

6.128.28

जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा ॥ ६.१२८.२८ ॥

バラタが手綱を取り、シャトルgroup ナが傘を掲げ、ラクシュマナは彼の頭上で扇を振った。

6.128.29

श्वेतं च वालव्यजनं जगृहे परितः स्थितः।
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ६.१२८.२९ ॥

羅刹の王ヴィビーシャナは周囲に立ち、白いヤクの尾の払子を取り、もう一本の月のように輝く払子も手に取った。

6.128.30

ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ६.१२८.३० ॥

その時、空中で、聖仙の群れ、神々、そしてマルト神群によって讃えられるラーマの甘美な声が聞こえた。

6.128.31

ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ६.१२८.३१ ॥

その時、偉大な輝きを持つ猿の中の牡牛スグリーヴァは、山のようなシャトルンジャヤという名の象に乗った。

6.128.32

नव नागसहस्राणि ययुरास्थाय वानराः।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ६.१२८.३२ ॥

人の姿を取り、あらゆる装身具で飾られた猿たちは、九千頭の象に乗って進んだ。

6.128.33

शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ६.१२८.३३ ॥

ほら貝の音と太鼓の轟きの中、人中の虎はその楼閣に飾られた都へ進んだ。

6.128.34

ददृशुस्ते समायान्तं राघवं सपुरःसरम्।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ६.१२८.३४ ॥

彼らは先鋒を従えて近づいてくるラーガヴァを見た。身体は輝き、戦車の上の彼は、多くの戦車と並び立つ大戦士のようであった。

6.128.35

ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ६.१२८.३५ ॥

彼らはカークツトゥスタを祝福し、ラーマから返礼を受けて、兄弟たちに囲まれた大いなる魂の人に従った。

6.128.36

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ६.१२८.३६ ॥

大臣、バラモン、そして民に囲まれたラーマは、星々に囲まれた月のように輝きを放った。

6.128.37

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ ॥ ६.१२८.३७ ॥

先導する者たちに囲まれ、手にシンバルと吉祥のスヴァスティカを持ち、喜びに満ちて楽器を鳴らし吉祥の言葉を唱えながら、彼は進んで行った。

6.128.38

अक्षतं जातरूपं च गावः कन्याः सहद्विजाः।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ६.१२८.३८ ॥

無傷の穀物と黄金、牛、乙女たちとバラモンたち、そして手に菓子を持つ男たちが、ラーマの前を進んだ。

6.128.39

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे।
वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम् ॥ ६.१२८.३९ ॥

ラーマはそこで大臣たちに、スグリーヴァとの友情、風の子ハヌマーンの武勇、そして猿たちの功績を語った。

6.128.40

श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः।
वानराणां च तत् कर्म राक्षसानां च तद् बलम्।
विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम् ॥ ६.१२८.४० ॥

これを聞いてアヨーディヤーの市民たちは驚嘆した。ラーマは猿たちの功績、羅刹たちの力、そしてヴィビーシャナとの同盟を大臣たちに語った。

6.128.41

द्युतिमानेतदाख्याय रामो वानरसंयुतः।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः ॥ ६.१२८.४१ ॥

これらすべてを語ったのち、輝けるラーマは猿たちを伴い、喜びと繁栄に満ちた人々で溢れるアヨーディヤーに入った。

6.128.42

ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे।
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ६.१२८.४२ ॥

そして市民たちは家々に旗を掲げ、ラーマはイクシュヴァーク家が住んだ麗しい父の邸宅に到着した。

6.128.43

अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ६.१२८.४३ ॥

そのとき、ラグ族の喜びである王子は、正しき者の中で最良のバラタに、意味深く甘い言葉で語った。

6.128.44

पितुर्भवनमासाद्य प्रविश्य च महात्मनः।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ६.१२८.४४ ॥

偉大な父の館に着いて入り、カウサリヤー、スミトラー、カイケーイーに礼拝して、

6.128.45

तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्।
मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ६.१२८.४५ ॥

私のあの優れた大きな館、アショーカの園を備え、真珠と青玉で飾られたものを、スグリーヴァに献じなさい。

6.128.46

तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः।
हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ६.१२८.४६ ॥

その言葉を聞いて、真の勇者バラタはスグリーヴァの手を取り、その館に入った。

6.128.47

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ६.१२८.४७ ॥

そこでシャトルグナに促され、彼らは油の灯火と寝台の覆いを持って素早く中へ入った。

6.128.48

उवाच च महातेजाः सुग्रीवं राघवानुजः।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ६.१२८.४८ ॥

偉大な光輝のラーガヴァの弟はスグリーヴァに言った。「主よ、ラーマの灌頂のために使者にご命令ください。」

6.128.49

सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ६.१२८.४९ ॥

スグリーヴァは速やかに四人の猿の王たちに、あらゆる宝玉で飾られた四つの黄金の壺を与えた。

6.128.50

तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ६.१२८.५० ॥

同様に、夜明けに、猿たちよ、四つの海の水で満たした壺を持って待て。そのようにせよ。

6.128.51

एवमुक्ता महात्मानो वानरा वारणोपमाः।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ६.१२८.५१ ॥

そう告げられると、象のような大いなる心の猿たちは、ガルダのように速く空へ跳び上がった。

6.128.52

जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ६.१२८.५२ ॥

ジャーンバヴァーン、ハヌマーン、ヴェーガダルシン、そしてリシャバも、水で満たされた壺を持ってきた。

6.128.53

नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्।
पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् ॥ ६.१२८.५३ ॥

数百の河の水を壺に入れて持ってきた。また東の海から水で満たした壺も持ってきた。

6.128.54

सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्।
ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत् ॥ ६.१२८.५४ ॥

力に満ちたスシェーナとリシャバは、南の海から速やかに水を持ってきた。それはあらゆる宝玉で飾られていた。

6.128.55

रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्।
गवयः पश्चिमात् तोयमाजहार महार्णवात् ॥ ६.१२८.५५ ॥

ガヴァヤは赤檀と樟脳で満たされた黄金の壺を持ち、西の大海から水を運んできた。

6.128.56

रत्नकुम्भेन महता शीतं मारुतविक्रमः।
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ६.१२८.५६ ॥

風のように力強いヴィクラマは、宝の壺に冷たい水を入れ、北から素早く運んできた。ガルダと風のように速かった。

6.128.57

आजहार स धर्मात्मानिलः सर्वगुणान्वितः।
ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ॥ ६.१२८.५७ ॥

正法の心を持ち、あらゆる徳を備えたアニラは水を運んだ。そして最良のヴァーナラたちが運んできたその水を見て——

6.128.58

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ६.१२८.५८ ॥

ラーマの灌頂のため、シャトルグナは大臣たちとともに、すぐれた祭官と友人たちに知らせた。

6.128.59

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह।
रामं रत्नमये पीठे ससीतं संन्यवेशयत् ॥ ६.१२८.५९ ॥

そこで、身を清め老いたヴァシシュタは、バラモンたちとともにラーマをシーターと共に宝石の座に座らせた。

6.128.60

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६.१२८.६० ॥

ヴァシシュタ、ヴァーマデーヴァ、ジャーバリ、カーシュヤパ、カーティヤーヤナ、スヤジュニャ、ガウタマ、ヴィジャヤもまた同様に居合わせた。

6.128.61

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६.१२८.६१ ॥

ヴァス神群が千眼のヴァーサヴァ(インドラ)に灌頂したように、彼らは人中の虎ラーマを清らかで芳しい水で灌頂した。

6.128.62

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा।
योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः ॥ ६.१२८.६२ ॥

まず祭官、バラモン、乙女たち、大臣、戦士たちが、喜びに満ちた市民とともにあなたに灌頂した。

6.128.63

सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ॥ ६.१२८.६३ ॥

空中に立つ神々も、あらゆる薬草の汁をもって、四方の世界守護神および集まった全ての神々とともにあなたに灌頂した。

6.128.64

ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६.१२८.६४ ॥

梵天が昔作り、宝石で飾られた冠。かつて輝かしい威光のマヌがそれによって灌頂された。

6.128.65

तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः।
सभायां हेमक्लृप्तायां शोभितायां महाधनैः ॥ ६.१२८.६५ ॥

黄金で造られ、莫大な宝で飾られた集会堂で、彼の系譜の王たちが順次灌頂された。

6.128.66

रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः।
नानारत्नमये पीठे कल्पयित्वा यथाविधि ॥ ६.१२८.६६ ॥

多様な宝石で彩られ、極めて美しいその集会堂で、多くの宝石からなる台座を儀礼どおりに整えて。

6.128.67

किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६.१२८.६७ ॥

続いて偉大な心の持ち主ヴァシシュタは司祭たちとともに、冠と装飾品でラーガヴァ(ラーマ)に灌頂した。

6.128.68

छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥ ६.१२८.६८ ॥

シャトルグナは彼の上に白く吉祥な傘を掲げ、猿王スグリーヴァは白いヤクの尾の扇を振った。

6.128.69

अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः।
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ॥ ६.१२८.६९ ॥

月のように輝く羅刹王ヴィビーシャナは、百の蓮華を備えた輝く金の花環を手に取った。

6.128.70

राघवाय ददौ वायुर्वासवेन प्रचोदितः।
सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम् ॥ ६.१२८.७० ॥

インドラに促された風神ヴァーユは、あらゆる宝石をちりばめ、珠玉で飾られたものをラーガヴァに贈った。

6.128.71

मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ६.१२८.७१ ॥

インドラに促され、真珠の首飾りを王に贈った。神々とガンダルヴァは歌い、アプサラスの群れは舞った。

6.128.72

अभिषेके तदर्हस्य तदा रामस्य धीमतः।
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥ ६.१२८.७२ ॥

その時、賢いラーマの灌頂にふさわしく、大地は穀物に満ち、木々は実をつけた。

6.128.73

गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे।
सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ ६.१२८.७३ ॥

ラーガヴァの祭りで、香り高い花々が咲いた。十万頭の馬、乳牛、その他の牛が与えられた。

6.128.74

ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः।
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ६.१२८.७४ ॥

人の中の雄牛は、まず再生族に数百頭の雄牛を与え、また婆羅門に三十コーティの金を与えた。

6.128.75

नानाभरणवस्त्राणि महार्हाणि च राघवः।
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥ ६.१२८.७५ ॥

ラーガヴァは様々な飾りと極めて貴重な衣服を与え、太陽の光のように輝く、宝石の形をした金の品も与えた。

6.128.76

सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः।
वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते ॥ ६.१२८.७६ ॥

人の王はスグリーヴァに神聖な花環を与えた。ヴァイドゥーリヤで作られ、色とりどりで月光に飾られたものも。

6.128.77

वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ।
मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम् ॥ ६.१२८.७७ ॥

堅固なる方はヴァーリの子アンガダに腕輪を与え、上質な宝石をちりばめた比類なき真珠の首飾りも与えた。

6.128.78

सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्।
अरजे वाससी दिव्ये शुभान्याभरणानि च ॥ ६.१२८.७८ ॥

ラーマはシーターに月光のように輝く装身具を与え、汚れなき神聖な二枚の衣と吉祥の飾りを与えた。

6.128.79

अवेक्षमाणा वैदेही प्रददौ वायुसूनवे।
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥ ६.१२८.७९ ॥

ヴァイデーヒーは猿たちを見ながら、自分の首から首飾りを外し、風の神の子に与えた。ジャナカの娘である。

6.128.80

अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः।
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ॥ ६.१२८.८० ॥

彼女はすべての猿と夫を何度も見た。その身振りを解する彼は彼女を見て、ジャナカの娘に語りかけた。

6.128.81

प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि।
अथ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ६.१२८.८१ ॥

幸せな人よ、あなたが喜んでいる者にその首飾りを与えなさい、美しい人よ。そこで黒い目の彼女は、その首飾りを風の神の子に与えた。

6.128.82

तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः।
पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा ॥ ६.१२८.८२ ॥

光輝、不屈、名声、器用さ、力量、謙譲、良き政策、男らしい勇気、武勇、知恵――これらは常に彼の内にある。

6.128.83

हनूमांस्तेन हारेण शुशुभे वानरर्षभः।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ६.१२८.८३ ॥

猿の中の雄牛ハヌマーンは、月光の山のように白いその首飾りをつけて輝いた。白い雲をまとった山のように。

6.128.84

सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ६.१२८.८४ ॥

年長の猿たちも、ほかの優れた猿たちも、皆それぞれにふさわしく、衣服と装身具で敬われた。

6.128.85

विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा।
सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ६.१२८.८५ ॥

ヴィビーシャナ、次いでスグリーヴァ、ハヌマーン、ジャーンバヴァーン、そして同様に諸々の主だったヴァーナラたちは、労せずして行う業のラーマに敬われた。

6.128.86

यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ६.१२८.८६ ॥

相応しく敬われた皆は、望みの品々と豊かな宝玉を得て、心喜び、来た道をそのまま帰っていった。

6.128.87

ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः।
सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ ६.१२८.८७ ॥

そして敵を焼く大地の主は、望ましい贈り物をすべて吟味し、ドヴィヴィダ、マインダ、ナーラに与えた。

6.128.88

दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन् ॥ ६.१२८.८८ ॥

偉大な魂のヴァーナラの雄牛たちは、皆を見届け、王の中の王に送り出されて、キシュキンダーに到着した。

6.128.89

सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्।
पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम् ॥ ६.१२८.८९ ॥

ヴァーナラの最良者スグリーヴァは、ラーマの灌頂を見て、ラーマに敬われ、キシュキンダーの都へ入った。

6.128.90

विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः।
लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः ॥ ६.१२८.९० ॥

法にかなう魂と大いなる名声を持つヴィビーシャナもまた、それら羅刹の雄牛たちと共に、一族の財宝を得て、王としてラン カーへ向かった。

6.128.91

स राज्यमखिलं शासन्निहतारिर्महायशाः।
राघवः परमोदारः शशास परया मुदा।
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ६.१२८.९१ ॥

全王国を統治した、敵を倒した大いなる名声の、この上なく寛大なラーガヴァは、無上の喜びのうちに統治した。法を知り法を愛するラーマはラクシュマナに言った。

6.128.92

आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन।
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व ॥ ६.१२८.९२ ॥

法を知る者よ、先王たちが力で治めたこの大地に、私と共に立ちなさい。父たちが私と同じく担った王太子の重責を、お前も担うのだ。

6.128.93

सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम्।
नियुज्यमानो भुवि यौवराज्ये
ततोऽभ्यषिञ्चद् भरतं महात्मा ॥ ६.१२८.९३ ॥

心から幾度も懇願されても、サウミトリが王太子の重責を受けようとしなかったとき、その高潔な御方はバラタを王太子に灌頂された。

6.128.94

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्।
अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः ॥ ६.१२८.९४ ॥

王子は、プンダリーカとアシュヴァメーダの祭式によって、またヴァージャペーヤによって幾度も、さらに他の様々な祭祀によって祭祀を行った。

6.128.95

राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः।
शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥ ६.१२८.९५ ॥

王国を一万年の間得たラーガヴァは、百回のアシュヴァメーダ祭を行い、そこでは優れた馬と多くの布施が与えられた。

6.128.96

आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्।
लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम् ॥ ६.१२८.९६ ॥

膝まで届く腕と広い胸を持つ威光ある者ラーマは、ラクシュマナを随えて、この大地を治め続けた。

6.128.97

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ६.१२८.९७ ॥

義の心を持つラーガヴァは無上の王国を得て、友人、親族、身内とともに様々な供犠を行った。

6.128.98

न पर्यदेवन् विधवा न च व्यालकृतं भयम्।
न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति ॥ ६.१२८.९८ ॥

ラーマが王国を治めていた時、寡婦は嘆き悲しむことなく、猛獣による恐れも、病による恐れもなかった。

6.128.99

निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ६.१२८.९९ ॥

世界から盗賊が消え、誰も不幸に出会うことはなく、老人が子らの葬送儀礼を行うこともなかった。

6.128.100

सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्।
राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ ६.१२८.१०० ॥

すべてが喜びに満ち、皆が法に専念した。ラーマだけを仰ぎ見て、互いに傷つけ合うことはなかった。

6.128.101

आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ ६.१२८.१०१ ॥

ラーマが王国を治めていた時、人々は幾千年も生き、幾千人もの子を持ち、病も憂いもなかった。

6.128.102

रामो रामो राम इति प्रजानामभवन् कथाः।
रामभूतं जगदभूद् रामे राज्यं प्रशासति ॥ ६.१२८.१०२ ॥

「ラーマ、ラーマ、ラーマ」が人々の話題となった。ラーマが王国を治めると、世界はラーマに満ちた。

6.128.103

नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः।
कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ ६.१२८.१०३ ॥

そこの木々は永遠の根と永遠の実を持ち、花が咲いていた。雨雲は思いのままに雨を降らせ、風は心地よい感触で吹いた。

6.128.104

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ ६.१२८.१०४ ॥

バラモン、クシャトリヤ、ヴァイシャ、シュードラは、貪欲を離れ、それぞれの義務に専念し、自らの行いだけで満足していた。

6.128.105

आसन् प्रजा धर्मपरा रामे शासति नानृताः।
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ ६.१२८.१०५ ॥

ラーマが統治していた時、民は皆ダルマに専念し、偽る者はいなかった。皆が吉相を備え、皆がダルマに献身していた。

6.128.106

दशवर्षसहस्राणि दशवर्षशतानि च।
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥ ६.१२८.१०६ ॥

威光あるラーマは兄弟たちと共に、一万一千年の間国を治めた。

6.128.107

धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्।
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् ॥ ६.१२८.१०७ ॥

この仙人の原初詩は、昔ヴァールミーキが作ったものである。ダルマに適い、名誉と長寿をもたらし、王に勝利を与える。

6.128.108

यः शृणोति सदा लोके नरः पापात् प्रमुच्यते।
पुत्रकामश्च पुत्रान् वै धनकामो धनानि च ॥ ६.१२८.१०८ ॥

この世で常にこれを聞く人は罪から解放される。息子を望む者は息子を得、富を望む者は富を得る。

6.128.109

लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्।
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥ ६.१२८.१०९ ॥

世の人がラーマの即位の式を聞けば(その果報を)得る。王は大地を征服し、敵をも制する。

6.128.110

राघवेण यथा माता सुमित्रा लक्ष्मणेन च।
भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः ॥ ६.१२८.११० ॥

ラーガヴァ(ラーマ)によって母スミトラが、ラクシュマナ、そしてバラタによってカイケーyīが、生きている息子たちと共に(幸せに)暮らすように、女性たちもまたそうである。

6.128.111

भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः।
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥ ६.१२८.१११ ॥

この『ラーマーヤナ』を聞く者は、常に喜びに満ち、息子や孫に恵まれ、長寿を得るであろう。

6.128.112

रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः।
शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम् ॥ ६.१२८.११२ ॥

苦労なく行いを成し遂げたラーマの、この勝利のすべてと、昔ヴァールミーキが作ったこの詩を聞く者は——

6.128.113

श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ।
समागम्य प्रवासान्ते रमन्ते सह बान्धवैः ॥ ६.१२८.११३ ॥

信を持ち、怒りを克服した者は困難を越える。旅の終わりに親族と再会して喜ぶ。

6.128.114

शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्।
ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात् ॥ ६.१२८.११४ ॥

昔ヴァールミーキが作ったこの詩を聞く者は、ここでラーガヴァから望むすべての恵みを得る。

6.128.115

श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ६.१२८.११५ ॥

これを注意深く聞く者には、神々がすべて喜ぶ。この書がある家では、障りをなす霊も鎮まる。

6.128.116

विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ६.१२८.११६ ॥

王は大地を征服し、旅人は無事であれ。月経中の女性がこれを聞けば、最上の息子たちを産むように。

6.128.117

पूजयंश्च पठंश्चैनमितिहासं पुरातनम्।
सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ६.१२८.११७ ॥

この古い物語を敬い、読誦する者は、すべての罪から解放され、長寿を得る。

6.128.118

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ६.१२८.११८ ॥

頭を垂れて礼拝し、クシャトリヤとバラモンは常にこれを聞くべきである。繁栄と息子の授かりは必ず来る、疑いはない。

6.128.119

रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ६.१२८.११९ ॥

このラーマーヤナ全体を聞き、読誦する者を、ラーマは常に絶えず喜ばれる。彼こそ永遠のヴィシュヌである。

6.128.120

आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः।
साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ ६.१२८.१२० ॥

原初の神、大腕のハリ、ナーラーヤナ、主——まさにラグ族の最勝者ラーマであり、シェーシャはラクシュマナと言われる。

6.128.121

एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ ६.१२८.१२१ ॥

これが古の物語である。あなたがたに吉祥あれ。安心してこれを朗誦せよ、ヴィシュヌの力が増しますように。

6.128.122

देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा।
रामायणस्य श्रवणे तृप्यन्ति पितरः सदा ॥ ६.१२८.१२२ ॥

受けることと聴くことによって、すべての神々は喜ぶ。ラーマーヤナを聴くとき、祖霊は常に満たされる。

6.128.123

भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्।
ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ ६.१२८.१२३ ॥

ラーマへの信愛をもって、聖者の編んだこの集成をここに書き写す人々は、天界に住まう。

6.128.124

कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ६.१२८.१२४ ॥

家族の繁栄、富と穀物の増加、優れた妻たち、そして無上の幸福。この吉祥で大いなる意味をもつ詩を聞けば、人は地上で一切の目的の成就を得る。

6.128.125

आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं शुभं च।
श्रोतव्यमेतन्नियमेन सद्भि-
राख्यानमोजस्करमृद्धिकामैः ॥ ६.१२८.१२५ ॥

この物語は寿命と健康と名声を与え、兄弟の和合と知恵を生む吉祥なものである。繁栄を望む善き人々は、これを規律正しく聞くべきである。これは活力を与える。