Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.13.1

रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः।
मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ ६.१३.१ ॥

ラーヴァナが怒っていることを察した大力のマハーパールシュヴァは、しばし考え、合掌してこの言葉を述べた。

6.13.2

यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम्।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत् ॥ ६.१३.२ ॥

鹿や猛獣の住む森に至り、蜂蜜を得てもそれを飲まない人は、まさしく愚かであろう。

6.13.3

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥ ६.१३.३ ॥

敵を滅ぼす者よ、あなたより偉大な主がどこにいようか。敵を頭上に踏みつけ、ヴァイデーヒーと共に楽しめ。

6.13.4

बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल।
आक्रम्याक्रम्य सीतां वै तां भुङ्क्ष्व च रमस्व च ॥ ६.१३.४ ॥

大力よ、雄鶏のように力ずくで、何度も襲いかかって振る舞え。シーターを幾度も力で得て、彼女を味わい、共に楽しめ。

6.13.5

लब्धकामस्य ते पश्चादागमिष्यति किं भयम्।
प्राप्तमप्राप्तकालं वा सर्वं प्रतिविधास्यसे ॥ ६.१३.५ ॥

望みを遂げた後、お前にどんな恐れが来ようか。既に来たものも、まだ時の来ないものも、お前はすべてに対処するであろう。

6.13.6

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः।
प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥ ६.१३.६ ॥

クンバカルナは我らと共に、そして大力のインドラジットも、金剛杵を持つインドラを、その金剛杵ごとも阻むことができる。

6.13.7

उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥ ६.१३.७ ॥

贈り物、懐柔、離間は、巧みな者が用いたものでも、それを越えて罰によって事を成すのが良いと思う。

6.13.8

इह प्राप्तान् वयं सर्वाञ्छत्रूंस्तव महाबल।
वशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥ ६.१३.८ ॥

大力の王よ、ここに来たあなたの敵すべてを、武器の威力で必ず従えましょう。疑いはありません。

6.13.9

एवमुक्तस्तदा राजा महापार्श्वेन रावणः।
तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत् ॥ ६.१३.९ ॥

マハーパールシュヴァにこう言われると、ラーヴァナ王は彼の言葉を尊び、このように語った。

6.13.10

महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः।
चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया ॥ ६.१३.१० ॥

マハーパールシュヴァよ、私の秘密を聞け。昔、私の身に起きたあの古い出来事を語ろう。

6.13.11

पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ ६.१३.११ ॥

プンジカスタラーが祖父(ブラフマー)の住まいへ向かうのを、空に火の舌のように輝くのを私は見た。

6.13.12

सा प्रसह्य मया भुक्ता कृता विवसना ततः।
स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ॥ ६.१३.१२ ॥

私は力ずくで彼女を奪い、衣を剥ぎ取った。すると彼女は、風に揺れる蓮のように、自存者(ブラフマー)の住まいに着いた。

6.13.13

तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः।
अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत् ॥ ६.१३.१३ ॥

その大いなる御方にもそのように知られたのだと私は思う。そのとき激怒したヴェーダー(ブラフマー)が私にこの言葉を告げた。

6.13.14

अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि।
तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ ६.१३.१४ ॥

今日から後、もし力ずくで他の女性に近づくなら、そのとき汝の頭は百に砕け散るであろう。疑いはない。

6.13.15

इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्।
नारोहये बलात् सीतां वैदेहीं शयने शुभे ॥ ६.१३.१५ ॥

このように彼の呪いを恐れて、私はヴァイデーヒーのシーターを力ずくであの美しい寝台に乗せはしなかった。

6.13.16

सागरस्येव मे वेगो मारुतस्येव मे गतिः।
नैतद् दाशरथिर्वेद ह्यासादयति तेन माम् ॥ ६.१३.१६ ॥

私の勢いは大海のごとく、私の速さは風のごとし。ダシャラタの子はこれを知らず、それゆえ私に近づいてくるのだ。

6.13.17

को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये।
क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ॥ ६.१३.१७ ॥

山の洞窟に眠る獅子のごとく、怒れる死のごとく坐する者を、誰が目覚めさせようとするだろうか。

6.13.18

न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्नगानिव।
रामः पश्यति संग्रामे तेन मामभिगच्छति ॥ ६.१३.१८ ॥

戦いで私から放たれる双舌の蛇のような矢を、ラーマは見ていない。だからこそ彼は私に向かって来るのだ。

6.13.19

क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः।
राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ ६.१३.१९ ॥

弓から放たれる雷霆のような矢で、すぐに百の方法でラーマを、松明で象を焼くように焼き尽くしてやろう。

6.13.20

तच्चास्य बलमादास्ये बलेन महता वृतः।
उदितः सविता काले नक्षत्राणां प्रभामिव ॥ ६.१३.२० ॥

彼の軍勢を、大軍に囲まれて私は捕らえよう。時に昇った太陽が星々の光を奪うように。

6.13.21

न वासवेनापि सहस्रचक्षुषा
युधास्मि शक्यो वरुणेन वा पुनः।
मया त्वियं बाहुबलेन निर्जिता
पुरा पुरी वैश्रवणेन पालिता ॥ ६.१३.२१ ॥

千眼のヴァーサヴァにも、ヴァルナにも、戦いで私は打ち負かされることはできない。しかし、かつてヴァイシュラヴァナが守っていたこの都を、私は腕の力で征服したのだ。