Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.14.1

निशाचरेन्द्रस्य निशम्य वाक्यं
स कुम्भकर्णस्य च गर्जितानि।
विभीषणो राक्षसराजमुख्य-
मुवाच वाक्यं हितमर्थयुक्तम् ॥ ६.१४.१ ॥

毗毗沙那听了夜行者之主的话语和鸠槃羯罗的吼声后,对罗刹王中的首领说出了有益且合乎道理的话。

6.14.2

वृतो हि बाह्वन्तरभोगराशि-
श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः
सीतामहाहिस्तव केन राजन् ॥ ६.१४.२ ॥

大王啊,悉多这条大蛇盘绕在你的臂间,以忧虑为毒,微笑中露出尖利的獠牙,有五指五头,身形巨大,她是如何缠住你的?

6.14.3

यावन्न लङ्कां समभिद्रवन्ति
बलीमुखाः पर्वतकूटमात्राः।
दंष्ट्रायुधाश्चैव नखायुधाश्च
प्रदीयतां दाशरथाय मैथिली ॥ ६.१४.३ ॥

在如山峰般巨大、以牙与爪为武器的猴面勇士们冲向楞伽之前,应将弥提利归还给十车王之子罗摩。

6.14.4

यावन्न गृह्णन्ति शिरांसि बाणा
रामेरिता राक्षसपुंगवानाम्।
वज्रोपमा वायुसमानवेगाः
प्रदीयतां दाशरथाय मैथिली ॥ ६.१४.४ ॥

在罗摩射出的、如金刚般、疾如风的箭矢夺去罗刹勇士们的头颅之前,应将弥提利归还给十车王之子罗摩。

6.14.5

न कुम्भकर्णेन्द्रजितौ च राजं-
स्तथा महापार्श्वमहोदरौ वा।
निकुम्भकुम्भौ च तथातिकायः
स्थातुं समर्था युधि राघवस्य ॥ ६.१४.५ ॥

大王啊,鸠槃羯罗与因陀罗耆、大胁与大腹、尼昆巴与昆巴,以及阿提迦耶,都无法在战场上抵挡罗怙之子。

6.14.6

जीवंस्तु रामस्य न मोक्ष्यसे त्वं
गुप्तः सवित्राप्यथवा मरुद्भिः।
न वासवस्याङ्कगतो न मृत्यो-
र्नभो न पातालमनुप्रविष्टः ॥ ६.१४.६ ॥

只要罗摩尚在,你便逃不掉,即使有太阳或诸风神护佑,即使坐在因陀罗怀中,躲避死神,或潜入天空与地府。

6.14.7

निशम्य वाक्यं तु विभीषणस्य
ततः प्रहस्तो वचनं बभाषे।
न नो भयं विद्म न दैवतेभ्यो
न दानवेभ्योऽप्यथवा कदाचित् ॥ ६.१४.७ ॥

听罢毗缚奢那的话,普拉哈斯塔说道:我们不知道会怕诸神,也不怕檀那婆,也不怕任何人,任何时候都不怕。

6.14.8

न यक्षगन्धर्वमहोरगेभ्यो
भयं न संख्ये पतगोरगेभ्यः।
कथं नु रामाद् भविता भयं नो
नरेन्द्रपुत्रात् समरे कदाचित् ॥ ६.१४.८ ॥

在战场上,我们不怕夜叉、乾闼婆和大蛇,也不怕飞鸟与蛇类。那么,在战场上,我们又怎会害怕国王之子罗摩呢?

6.14.9

प्रहस्तवाक्यं त्वहितं निशम्य
विभीषणो राजहितानुकाङ्क्षी।
ततो महार्थं वचनं बभाषे
धर्मार्थकामेषु निविष्टबुद्धिः ॥ ६.१४.९ ॥

毗缚奢那听了普拉哈斯塔有害的话,他希望国王安好,心志坚定于法、利与欲,于是说出了这番意义深远的话。

6.14.10

प्रहस्त राजा च महोदरश्च
त्वं कुम्भकर्णश्च यथार्थजातम्।
ब्रवीत रामं प्रति तन्न शक्यं
यथा गतिः स्वर्गमधर्मबुद्धेः ॥ ६.१४.१० ॥

啊,普拉哈斯塔!你、国王、摩诃陀罗和羯句叻那,应当把实情告诉罗摩;但这不可能做到,正如心怀不义之人不可能升入天界。

6.14.11

वधस्तु रामस्य मया त्वया च
प्रहस्त सर्वैरपि राक्षसैर्वा।
कथं भवेदर्थविशारदस्य
महार्णवं तर्तुमिवाप्लवस्य ॥ ६.१४.११ ॥

普拉哈斯塔啊,罗摩的死亡怎能由我、由你,或由所有罗刹来完成呢?这就像没有木筏的人想要渡过大海,即使是精通事务的人也是如此。

6.14.12

धर्मप्रधानस्य महारथस्य
इक्ष्वाकुवंशप्रभवस्य राज्ञः।
पुरोऽस्य देवाश्च तथाविधस्य
कृत्येषु शक्तस्य भवन्ति मूढाः ॥ ६.१४.१२ ॥

面对那位以法为首、伟大的战车武士、生于甘蔗王族、善于行事的国王,连诸神也会陷入迷惑。

6.14.13

तीक्ष्णा न तावत् तव कङ्कपत्रा
दुरासदा राघवविप्रमुक्ताः।
भित्त्वा शरीरं प्रविशन्ति बाणाः
प्रहस्त तेनैव विकत्थसे त्वम् ॥ ६.१४.१३ ॥

普拉哈斯塔啊,那些由罗ghava射出的、带鹤羽的锐利难挡之箭,至今未能穿透你的身体进入其中;你却正因此而夸口。

6.14.14

भित्त्वा न तावत् प्रविशन्ति कायं
प्राणान्तिकास्तेऽशनितुल्यवेगाः।
शिताः शरा राघवविप्रमुक्ताः
प्रहस्त तेनैव विकत्थसे त्वम् ॥ ६.१४.१४ ॥

普拉哈斯塔啊,那些如雷霆般迅疾、致命、由罗ghava射出的锐利之箭,至今未能穿透你的身体进入其中;你却正因此而夸口。

6.14.15

न रावणो नातिबलस्त्रिशीर्षो
न कुम्भकर्णस्य सुतो निकुम्भः।
न चेन्द्रजिद् दाशरथिं प्रवोढुं
त्वं वा रणे शक्रसमं समर्थः ॥ ६.१४.१५ ॥

无论罗波那、极其强大的三头者、俱缚罗之子尼昆跋,还是因陀罗吉,甚至与因陀罗相当的你,都无法在战场上战胜达舍罗他之子。

6.14.16

देवान्तको वापि नरान्तको वा
तथातिकायोऽतिरथो महात्मा।
अकम्पनश्चाद्रिसमानसारः
स्थातुं न शक्ता युधि राघवस्य ॥ ६.१४.१६ ॥

无论是提婆灭者还是人灭者,同样,高尚的大车将阿底迦耶,以及力如山岳的阿堪帕那,都无法在战场上抵挡罗ghava。

6.14.17

अयं च राजा व्यसनाभिभूतो
मित्रैरमित्रप्रतिमैर्भवद्भिः।
अन्वास्यते राक्षसनाशनार्थे
तीक्ष्णः प्रकृत्या ह्यसमीक्षकारी ॥ ६.१४.१७ ॥

这位国王被灾祸所压倒,正由你们这些如同敌人的朋友侍奉着,为了消灭罗刹;他生性暴烈,行事不加思虑。

6.14.18

अनन्तभोगेन सहस्रमूर्ध्ना
नागेन भीमेन महाबलेन।
बलात् परिक्षिप्तमिमं भवन्तो
राजानमुत्क्षिप्य विमोचयन्तु ॥ ६.१४.१८ ॥

愿你们将这位国王抬起解救,他被那可怖的大蛇以无尽的盘绕和千头紧紧缠住。

6.14.19

यावद्धि केशग्रहणात् सुहृद्भिः
समेत्य सर्वैः परिपूर्णकामैः।
निगृह्य राजा परिरक्षितव्यो
भूतैर्यथा भीमबलैर्गृहीतः ॥ ६.१४.१९ ॥

只要还能抓住他的头发,就应让所有愿望已满足的友好之人聚集起来,抓住并保护这位国王,正如那些力量可怖的生灵抓住了他一样。

6.14.20

सुवारिणा राघवसागरेण
प्रच्छाद्यमानस्तरसा भवद्भिः।
युक्तस्त्वयं तारयितुं समेत्य
काकुत्स्थपातालमुखे पतन् सः ॥ ६.१४.२० ॥

他正被富含水的罗ghava之海迅速淹没,坠向迦库特斯塔的深渊;你们应当聚集起来,前去拯救他。

6.14.21

इदं पुरस्यास्य सराक्षसस्य
राज्ञश्च पथ्यं ससुहृज्जनस्य।
सम्यग्घि वाक्यं स्वमतं ब्रवीमि
नरेन्द्रपुत्राय ददातु मैथिलीम् ॥ ६.१४.२१ ॥

这对此城、对与罗刹同在的国王,以及对其友人与百姓,都是有益之言。我如实说出自己的看法:应当把迈提利交还给人王之子。

6.14.22

परस्य वीर्यं स्वबलं च बुद्ध्वा
स्थानं क्षयं चैव तथैव वृद्धिम्।
तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या
वदेत् क्षमं स्वामिहितं स मन्त्री ॥ ६.१४.२२ ॥

既了解敌人的威力与自身的力量,了解局势的存亡与盛衰,又以智慧审视己方,那位大臣应说出适宜且有利于其主的话。