ヴァールミーキのラーマーヤナ · サルガ 6.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.16.1
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्।
अब्रवीत् परुषं वाक्यं रावणः कालचोदितः ॥ ६.१६.१ ॥
ヴィビーシャナの熟慮され有益な言葉を聞いて、時に駆られたラーヴァナは厳しい言葉を発した。
6.16.2
वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण च।
न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ ६.१६.२ ॥
敵や怒れる蛇と共に暮らすことはあっても、友を装って敵に仕える者と共に暮らしてはならない。
6.16.3
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ६.१६.३ ॥
羅刹よ、私は全世界における親族の性質を知っている。親族は災難に遭った親族を、いつも喜ぶのだ。
6.16.4
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस।
ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च ॥ ६.१६.४ ॥
羅刹よ、指導者、事を成す者、医者、徳の高い者でさえ親族に軽んじられ、勇士でさえも親族に辱められるのだ。
6.16.5
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः।
प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ६.१६.५ ॥
親族はいつも互いの災難を喜ぶ。彼らは心の内を隠す侵略者であり、恐ろしく、恐怖をもたらす者である。
6.16.6
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने पुरा।
पाशहस्तान् नरान् दृष्ट्वा शृणुष्व गदतो मम ॥ ६.१६.६ ॥
昔、蓮の森で象たちが歌った詩句が聞かれた。手に縄を持つ人を見て(象たちは歌ったのだ)。私の言うことを聞け。
6.16.7
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ६.१६.७ ॥
火も他の武器も、恐ろしい縄も我々を脅かすものではない。私利に駆られた恐ろしい親族こそが我々に恐怖をもたらす。
6.16.8
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः।
कृत्स्नाद् भयाज्ज्ञातिभयं कुकष्टं विहितं च नः ॥ ६.१६.८ ॥
この者たちは我々を捕らえる方法を教えるだろう、これは疑いない。あらゆる恐怖の中で親族からの恐怖が最も苦しく、それが我々に定められている。
6.16.9
विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम्।
विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः ॥ ६.१६.९ ॥
牛には豊かさがあり、親族からは恐れがある。女には移り気があり、バラモンには苦行がある。
6.16.10
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः।
ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ ६.१६.१० ॥
だから、善き友よ、世に尊ばれ、権勢と高貴な生まれを備えた私が、敵の頭の上に立つことは望ましくない。
6.16.11
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः।
न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम् ॥ ६.१६.११ ॥
蓮の葉に落ちた水滴が留まらないように、卑しい者たちには友情が宿らない。
6.16.12
यथा शरदि मेघानां सिञ्चतामपि गर्जताम्।
न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम् ॥ ६.१६.१२ ॥
秋に雨を降らせ雷鳴を轟かす雲があっても、何も濡れないように、卑しい者たちの間では友情は潤わない。
6.16.13
यथा मधुकरस्तर्षाद् रसं विन्दन्न तिष्ठति।
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥ ६.१६.१३ ॥
渇いた蜜蜂が蜜を見つけても留まらないように、お前もまたそこにいる。卑しき者との友情とはそういうものだ。
6.16.14
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि।
रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥ ६.१६.१४ ॥
渇いた蜜蜂が迦娑の花を吸っても、ここで蜜は得られない。卑しき者との友情とはそういうものだ。
6.16.15
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः।
दूषयत्यात्मनो देहं तथानार्येषु सौहृदम् ॥ ६.१६.१५ ॥
象は水浴びをした後、鼻で砂埃を取って自分の体を汚す。卑しき者との友情とはそういうものだ。
6.16.16
योऽन्यस्त्वेवंविधं ब्रूयाद् वाक्यमेतन्निशाचर।
अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसन ॥ ६.१६.१६ ॥
夜行の者よ!他の者がこのような言葉を述べたなら、この瞬間に命はなかっただろう。だがお前には恥あれ、家名を汚す者よ!
6.16.17
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः।
उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ ६.१६.१७ ॥
このように厳しい言葉を浴びせられた、正義を語る者ヴィビーシャナは、鉄棍を手に四人のラークシャサとともに立ち上がった。
6.16.18
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः।
अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम् ॥ ६.१६.१८ ॥
そのとき怒りに満ちたヴィビーシャナは空中に立ち、その輝かしき兄は羅刹の王にこれらの言葉を述べた。
6.16.19
स त्वं भ्रान्तोऽसि मे राजन् ब्रूहि मां यद् यदिच्छसि।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः।
इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते ॥ ६.१६.१९ ॥
おお王よ、お前は迷っている。望むことを私に言え。兄であり、尊敬に値し、父にも等しい者でありながら、お前はダルマの道に立っていない。兄であるお前のこの荒々しい言葉を、私は許さない。
6.16.20
सुनीतं हितकामेन वाक्यमुक्तं दशानन।
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ ६.१६.२० ॥
十頭の者よ、自らを制しえず、時の支配に落ちた者は、お前の幸せを願って語られたこの良い言葉を受け入れない。
6.16.21
सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ६.१६.२१ ॥
王よ、いつも心地よい言葉を語る者は得やすい。だが、不快であっても益となる言葉を語る者も、聞く者も稀である。
6.16.22
बद्धं कालस्य पाशेन सर्वभूतापहारिणः।
न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा ॥ ६.१६.२२ ॥
時の縄に縛られ、あらゆる生き物を奪う者よ。お前が滅びていくのを、私は見過ごしはしない。燃え盛る避難所を見過ごさないように。
6.16.23
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः।
न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ ६.१६.२३ ॥
燃え盛る火のように輝き、金の飾りを持つ鋭い矢によってラーマに討たれたお前を、私は見たくない。
6.16.24
शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ ६.१६.२४ ॥
勇士も、力ある者も、武器に熟達した者も、戦場で時に捕らえられると、砂の堤防のように崩れ落ちる。
6.16.25
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता।
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्।
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ ६.१६.२५ ॥
年長者としての敬意とあなたの幸いを願う気持ちから私が言ったことを、どうか許してください。あらゆる面であなた自身と、羅刹たちとともにこの都を守ってください。あなたに幸いがありますように。私は去ります。私がいなくても幸せでいてください。
6.16.26
निवार्यमाणस्य मया हितैषिणा
न रोचते ते वचनं निशाचर।
परान्तकाले हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ ६.१६.२६ ॥
夜の徘徊者よ、あなたの幸いを願って私が止めても、私の言葉はあなたの気に入らない。最期の時が来て寿命の尽きた人々は、友が語る善い忠告を受け入れないものだ。