蚁垤《罗摩衍那》 · 篇 6.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.17.1
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ ६.१७.१ ॥
罗波那的弟弟对罗波那说完这些严厉的话后,转瞬间便来到了罗摩与罗什曼那所在之处。
6.17.2
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्।
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ ६.१७.२ ॥
那位形如须弥山峰、如闪电般光耀、立于空中的人,被地上的猴王们看见了。
6.17.3
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥ ६.१७.३ ॥
他的四名随从也都有可怕的勇力,身披铠甲,手持兵器,佩戴上好的饰物。
6.17.4
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥ ६.१७.४ ॥
他形如云中山峰,光芒如金刚杵,是手持精良兵器的英雄,身佩天界的饰物。
6.17.5
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः।
वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ६.१७.५ ॥
看到他连同自己共五人而来,猴王须羯利婆——与众猴一同难以战胜——这位智者开始沉思。
6.17.6
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह।
हनुमत्प्रमुखान् सर्वानिदं वचनमुत्तमम् ॥ ६.१७.६ ॥
思索片刻之后,他对以哈努曼为首的所有猴子说出了这些殊胜的话。
6.17.7
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः।
राक्षसोभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ॥ ६.१७.७ ॥
看哪,这个人全副武装,与四名罗刹同行而来;他是来杀我们的,毫无疑问。
6.17.8
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः।
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ६.१७.८ ॥
众位最优秀的猴子听了须羯哩婆的话,举起娑罗树和山峰,说出了这些话。
6.17.9
शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्।
निपतन्ति हता यावद् धरण्यामल्पचेतनाः ॥ ६.१७.९ ॥
君王啊,请速令我们杀死这些恶人,使这些愚昧之徒被杀倒在地上。
6.17.10
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः।
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ ६.१७.१० ॥
他们相互交谈之时,毗汶沙到达北岸,便停留在空中。
6.17.11
स उवाच महाप्राज्ञः स्वरेण महता महान्।
सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥ ६.१७.११ ॥
于是这位大智慧、大德的毗汶沙,站在空中,望着须羯哩婆和他们,以洪亮的声音说道。
6.17.12
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ ६.१७.१२ ॥
名叫罗波那的恶行罗刹,是罗刹之主。我是他的幼弟,人称毗汶沙。
6.17.13
तेन सीता जनस्थानाद् हृता हत्वा जटायुषम्।
रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ ६.१७.१३ ॥
他从罗刹居住地劫走悉多,并杀死了迦吒游。她被囚禁,无助而悲伤,由罗刹女严密看守。
6.17.14
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्।
साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ ६.१७.१४ ॥
我以种种道理和言辞一再向他陈说:应当好好地把悉多归还给罗摩。
6.17.15
स च न प्रतिजग्राह रावणः कालचोदितः।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ ६.१७.१५ ॥
然而被时运驱使的罗波那,不接受这些有益的话,就如同病情反常的人拒绝服药一样。
6.17.16
सोऽहं परुषितस्तेन दासवच्चावमानितः।
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ ६.१७.१६ ॥
我遭他辱骂,像奴仆一样受到侮辱,于是舍弃了子女和妻子,前来投奔罗怙族的罗摩寻求庇护。
6.17.17
निवेदयत मां क्षिप्रं राघवाय महात्मने।
सर्वलोकशरण्याय विभीषणमुपस्थितम् ॥ ६.१७.१७ ॥
请速去禀告大德的罗怙族罗摩,他是一切世界的依靠,说毗菩沙到了。
6.17.18
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः।
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ ६.१७.१८ ॥
苏羯哩婆听了这话,勇猛迅捷,在罗什曼那面前愤怒地对罗摩说了这番话。
6.17.19
प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः।
निहन्यादन्तरं लब्ध्वा उलूको वायसानिव ॥ ६.१७.१९ ॥
混入敌军之中、出人意料而来的敌人,一旦找到空隙,便会出击,如同猫头鹰扑向乌鸦。
6.17.20
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि।
वानराणां च भद्रं ते परेषां च परंतप ॥ ६.१७.२० ॥
摧毁敌人的英雄啊!你应当在谋议、阵列、策略和谍报中保持警觉;愿你、猴族与敌人都得安康。
6.17.21
अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः।
शूराश्च निकृतिज्ञाश्च तेषां जातु न विश्वसेत् ॥ ६.१७.२१ ॥
这些罗刹能隐身,能随意变形,勇猛且精于欺诈,决不可相信他们。
6.17.22
प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम्।
अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः ॥ ६.१७.२२ ॥
此人或许是罗刹王罗波那的间谍;混入我们之中,他必定会挑起分裂,这毫无疑问。
6.17.23
अथ वा स्वयमेवैष छिद्रमासाद्य बुद्धिमान्।
अनुप्रविश्य विश्वस्ते कदाचित् प्रहरेदपि ॥ ६.१७.२३ ॥
或者这个聪明人自己寻得空隙,潜入其中,有朝一日会向信任他的人下手。
6.17.24
मित्राटविबलं चैव मौलभृत्यबलं तथा।
सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥ ६.१७.२४ ॥
盟友之军、林中之兵与世代家臣之军——这一切兵力都应收纳,唯独敌军除外。
6.17.25
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो।
आगतश्च रिपुः साक्षात् कथमस्मिंश्च विश्वसेत् ॥ ६.१७.२५ ॥
主上啊,此人天性是罗刹,是敌人的兄弟。敌人本人已然到来,怎能信任他?
6.17.26
रावणस्यानुजो भ्राता विभीषण इति श्रुतः।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ ६.१७.२६ ॥
据称罗波那的弟弟毗缚奢那,与四名罗刹一同来到您面前寻求庇护。
6.17.27
रावणेन प्रणीतं हि तमवेहि विभीषणम्।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ ६.१७.२७ ॥
须知此人是罗波那派来的毗缚奢那。宽恕者中最好的,我认为制服他才是恰当的。
6.17.28
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः।
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि चानघ ॥ ६.१७.२८ ॥
此罗刹被狡诈之心驱使而来,以幻术隐藏,待您信任之时加以攻击,无瑕的主上啊。
6.17.29
वध्यतामेष तीव्रेण दण्डेन सचिवैः सह।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ ६.१७.२९ ॥
请以严厉的刑罚连同他的谋士一并处死。这毗缚奢那正是残暴的罗波那之弟。
6.17.30
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ ६.१७.३० ॥
对罗摩如此说完,愤怒的统帅——通晓言辞之人——便在善于言辞的罗摩面前沉默下来。
6.17.31
सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः।
समीपस्थानुवाचेदं हनुमत्प्रमुखान् कपीन् ॥ ६.१७.३१ ॥
大力的罗摩听了须羯利婆的这番话,对站在身边的以哈奴曼为首的猴子们说道。
6.17.32
यदुक्तं कपिराजेन रावणावरजं प्रति।
वाक्यं हेतुमदत्यर्थं भवद्भिरपि च श्रुतम् ॥ ६.१७.३२ ॥
猴王对罗波那的弟弟所说的话极有道理,你们也都听到了。
6.17.33
सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा।
समर्थेनोपसंदेष्टुं शाश्वतीं भूतिमिच्छता ॥ ६.१७.३३ ॥
有智慧且有能力、渴望长久福祉的人,在困难之事上应当常常为朋友提供恰当的建议。
6.17.34
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः।
सोपचारं तदा राममूचुः प्रियचिकीर्षवः ॥ ६.१७.३४ ॥
被如此询问后,他们每个人都不敢懈怠,怀着讨好罗摩的心意,恭敬地说出了自己的看法。
6.17.35
अज्ञातं नास्ति ते किंचित् त्रिषु लोकेषु राघव।
आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया ॥ ६.१७.३५ ॥
罗怙婆啊,三界之中没有你不知道的事。罗摩啊,你尊重自己,才以朋友的身份询问我们。
6.17.36
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः।
परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च ॥ ६.१७.३६ ॥
你信守誓言、英勇、正直,勇武坚定,行事审慎,记性好,对朋友心胸宽广。
6.17.37
तस्मादेकैकशस्तावद् ब्रुवन्तु सचिवास्तव।
हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः ॥ ६.१७.३७ ॥
因此,请让你的大臣们先逐一发言;有智慧且有能力的人,应当一再以理由陈述。
6.17.38
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः।
विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥ ६.१७.३८ ॥
罗怙婆(罗摩)如此说后,智慧的安伽陀上前,为了考验维毗沙那,说了这番话。
6.17.39
शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि।
विश्वासनीयः सहसा न कर्तव्यो विभीषणः ॥ ६.१७.३९ ॥
维毗沙那来自敌人那边,无论如何都值得怀疑,不应仓促相信他。
6.17.40
छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥ ६.१७.४० ॥
隐藏真实面目的狡诈之人四处活动,并攻击薄弱之处;那将是极大的祸患。
6.17.41
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह।
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥ ६.१७.४१ ॥
辨明利与害之后,才应做出决定;因其德行而接纳,因其过失而摒弃。
6.17.42
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्।
गुणान् वापि बहून् ज्ञात्वा संग्रहः क्रियतां नृप ॥ ६.१७.४२ ॥
若他身上有重大过失,就应毫不犹豫地舍弃他;或者,若知道他有许多优点,哦国王,就应接纳他。
6.17.43
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्।
क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम् ॥ ६.१७.४३ ॥
于是沙罗婆定下心来,说道:“人中之虎啊,此事应迅速派遣探子。”
6.17.44
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना।
परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ ६.१७.४४ ॥
派遣心思缜密的探子,并仔细考察之后,再依照道理接纳他。
6.17.45
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः।
वाक्यं विज्ञापयामास गुणवद् दोषवर्जितम् ॥ ६.१७.४५ ॥
于是智慧的熊罴王(Jāmbavān)以通晓经典的智慧仔细思量,说出了一番有德而无过失的言辞。
6.17.46
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः।
अदेशकाले सम्प्राप्तः सर्वथा शंक्यतामयम् ॥ ६.१७.४६ ॥
这位毗భీ沙那与罗刹王结下仇怨,又是有罪之人,且在不适当的地点与时机前来,应当从各方面加以怀疑。
6.17.47
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः।
वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् ॥ ६.१७.४७ ॥
于是精通治道善恶之策的芒达(Maindа)仔细思量,言辞精妙,说出了更有道理的话。
6.17.48
अनुजो नाम तस्यैष रावणस्य विभीषणः।
पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर ॥ ६.१७.४८ ॥
这是罗波那(Rāvaṇa)的弟弟毗భీ沙那。啊,诸王之主,应以温和的言语缓缓地询问他。
6.17.49
भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि।
यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥ ६.१७.४९ ॥
人中之雄啊,待真正了解他的用意之后,你再去对待他——他是否邪恶,或是否是有意如此。
6.17.50
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः।
उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥ ६.१७.५० ॥
于是具备修养的首席大臣哈努曼,说出了温和、有意义、甜美而简练的话语。
6.17.51
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्।
अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ६.१७.५१ ॥
您是判断力最优、言辞最出众的人,即便说话的是布利哈斯帕蒂,也无法超越您。
6.17.52
न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः।
वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात् ॥ ६.१७.५२ ॥
大王啊,我并非出于争辩,也非出于较量、好胜或私欲;罗摩啊,我出于敬重,将说出实情。
6.17.53
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव।
तत्र दोषं प्रपश्यामि क्रिया नह्युपपद्यते ॥ ६.१७.५३ ॥
关于利害得失,您的大臣们所说的话,我看出其中有误,因为那样行事并不妥当。
6.17.54
ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते।
सहसा विनियोगोऽपि दोषवान् प्रतिभाति मे ॥ ६.१७.५४ ॥
若无妥善的任用,便无法知晓其能力;而仓促的任用在我看来也是有缺陷的。
6.17.55
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव।
अर्थस्यासम्भवात् तत्र कारणं नोपपद्यते ॥ ६.१७.५५ ॥
你的大臣们根据间谍所报告的情况所说的话是合理的;但事情不可能发生,因此找不到其理由。
6.17.56
अदेशकाले सम्प्राप्त इत्ययं यद् विभीषणः।
विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति ॥ ६.१७.५६ ॥
关于毗భీषण在不适当的地点和时机到来,我想说的是:请依我的见解听取。
6.17.57
एष देशश्च कालश्च भवतीह यथा तथा।
पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि ॥ ६.१७.५७ ॥
正如此地此时的情况如此,过错与功德也会在从一人传到另一人时显现出来。
6.17.58
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि।
युक्तमागमनं ह्यत्र सदृशं तस्य बुद्धितः ॥ ६.१७.५८ ॥
看到罗波那的邪恶与你的勇武,他来此是合宜的,也符合他自己的心思。
6.17.59
अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति।
यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥ ६.१७.५९ ॥
国王啊,请派身份不明的人去询问他吧——我在此所说的话,是经过我审慎考虑的。
6.17.60
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः।
तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम् ॥ ६.१७.६० ॥
若受到盘问,即使智者也会突然怀疑自己的话;那样朋友也会受损,因为虚假的审问会羞辱那满怀善意前来的人。
6.17.61
अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै।
अन्तरेण स्वरैर्भिन्नैर्नैपुण्यं पश्यतां भृशम् ॥ ६.१७.६१ ॥
君王啊,他人内心的情意不可能立刻得知;若无音调的种种变化,唯有细心观察者的精妙眼力才能察觉。
6.17.62
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥ ६.१७.६२ ॥
他说话之时,从未显露出恶意,面容也平和安详;因此我对此毫无疑虑。
6.17.63
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति।
न चास्य दुष्टवागस्ति तस्मान्मे नास्ति संशयः ॥ ६.१७.६३ ॥
心无疑虑、安然自若之人不会像奸诈者那样暗中钻营,其言语中也无恶意;因此我毫无疑虑。
6.17.64
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम्।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ६.१७.६४ ॥
即使加以遮掩,人的外在神色也无法完全隐藏;它必然会把人内心所藏的情意显露出来。
6.17.65
देशकालोपपन्नं च कार्यं कार्यविदां वर।
सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ ६.१७.६५ ॥
精通政事的最杰出者啊,合乎时地、经过周密谋划而施行的行动,能迅速使事业成功。
6.17.66
उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्।
वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥ ६.१७.६६ ॥
看到你的努力,看到行为虚伪的罗波那,听说伐利已被杀、须羯哩婆已受灌顶……
6.17.67
राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः।
एतावत् तु पुरस्कृत्य युज्यते तस्य संग्रहः ॥ ६.१७.६७ ॥
他因想要王国而有意前来。心中只存此念,接纳他才是恰当的。
6.17.68
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति।
प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ६.१७.६८ ॥
我尽己所能,坦诚地谈论了罗刹之事。智者中最优秀的人啊,听完其余的话,您自己便是判断的准绳。