Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.18.1

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ ६.१८.१ ॥

于是心中欢喜的罗摩,听了风神之子的话后作答;这位不可战胜者说出了心中所想。

6.18.2

ममापि च विवक्षास्ति काचित् प्रति विभीषणम्।
श्रोतुमिच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः ॥ ६.१८.२ ॥

关于毗भीषण,我也有话要说。我想听听你们这些安住于善道之人的全部意见。

6.18.3

मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥ ६.१८.३ ॥

凡以友情而来者,我绝不会以任何方式抛弃。即使他有过失,这在善人眼中也不值得责备。

6.18.4

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ६.१८.४ ॥

于是须羯哩婆说完那些话并仔细思量后,说出了更为吉祥的话——他是猴群中最杰出的。

6.18.5

स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ ६.१८.५ ॥

他是恶人还是非恶人,这夜行者与我们何干?谁会抛弃陷入如此灾难的兄弟呢?

6.18.6

को नाम स भवेत् तस्य यमेष न परित्यजेत्।
वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु ॥ ६.१८.६ ॥

这位不会抛弃之人,又是谁呢?听了猴王的话,环顾众人之后——

6.18.8

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्।
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥ ६.१८.८ ॥

владыка обезьян, слегка улыбнувшись благоприметному Лакшмане, произнёс слова, которые может сказать только тот, кто не изучал шастр и не служил старшим.

6.18.9

अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा।
प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु ॥ ६.१८.९ ॥

在我看来,此中还有更微妙之处;这是显而易见的世俗之事,存在于一切君王之中。

6.18.10

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥ ६.१८.१० ॥

敌人、同族之人以及邻国之人,被说成是在灾难中加害的人;因此此人来到了这里。

6.18.11

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ६.१८.११ ॥

那一族中无罪之人尊敬自己的益友;对君王而言这通常令人怀疑,但此处却是恰当的。

6.18.12

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च।
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ॥ ६.१८.१२ ॥

关于你所说接纳敌军之中的过失,我将依照典籍为你说明;请听。

6.18.13

न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः।
पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः ॥ ६.१८.१३ ॥

我们不属于那一族,也不是觊觎王位的罗刹;这些人将成为智者;因此应当接纳毗భीषण。

6.18.15

अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः।
प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम्।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः।
मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ ६.१८.१५ ॥

平静而欢喜的人将会团结一致。巨大的喧嚣已经升起,彼此之间也生出了恐惧。亲爱的,并非所有兄弟都像婆罗多;同父之子或许像我,朋友或许像你。

6.18.16

एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः।
उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ ६.१८.१६ ॥

罗摩如此说后,苏羯里婆与罗什曼那一同起身,这位大智者恭敬行礼,说出了这些话。

6.18.17

रावणेन प्रणिहितं तमवेहि निशाचरम्।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ ६.१८.१७ ॥

要知道他是罗波那派来的夜行者。我认为应当制服他,哦,最有耐心者中的最优秀者。

6.18.18

राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः।
प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वानघ ॥ ६.१८.१८ ॥

这个罗刹被狡诈的心思派遣而来,要袭击信任你的你,以及信任我的我。哦,无瑕者!

6.18.19

लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ ६.१८.१९ ॥

哦,臂力强大者,无论针对罗什曼那,还是连同他的大臣,他都该被杀。这位毗毗沙那正是残暴的罗波那的兄弟。

6.18.20

एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ ६.१८.२० ॥

对罗古最优秀者说完这番话后,统帅苏羯里婆——深谙言辞者——便在善于言辞者面前沉默下来。

6.18.21

स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥ ६.१८.२१ ॥

罗摩听了并思考了须羯里婆的话,随后对猴中之最说了更加吉祥的话。

6.18.22

स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन ॥ ६.१८.२२ ॥

无论他是恶还是不恶,这个夜行者能以任何方式对我造成哪怕最细微的伤害吗?

6.18.23

पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥ ६.१८.२३ ॥

猴群之主啊!若我愿意,我可以用指尖杀死鬼怪、檀那婆、夜叉以及大地上的罗刹。

6.18.24

श्रूयते हि कपोतेन शत्रुः शरणमागतः।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ ६.१८.२४ ॥

据闻,一只鸽子,敌人来投靠它时,它依礼敬待,并以自己的血肉款待了他。

6.18.25

स हि तं प्रतिजग्राह भार्याहर्तारमागतम्।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ॥ ६.१८.२५ ॥

猴中之最啊!那只鸽子连前来劫夺它妻子的敌人也接纳了。那么像我这样的人,又该接纳多少呢!

6.18.26

ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा।
शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना ॥ ६.१८.२६ ॥

请听那古老而正直的故事,它是迦纳瓦仙人之子、大仙坎度所吟唱的,那位讲真话的人。

6.18.27

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्।
न हन्यादानृशंस्यार्थमपि शत्रुं परंतप ॥ ६.१८.२७ ॥

对于合掌恳求、卑微哀求、前来寻求庇护的敌人,即便如此,也不应出于慈悲将其杀害,哦,灭敌者。

6.18.28

आर्तो वा यदि वा दृप्तः परेषां शरणं गतः।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ ६.१८.२८ ॥

无论是痛苦还是傲慢,投靠他人寻求庇护的敌人,自制的人也应保护他,即使舍弃自己的性命。

6.18.29

स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति।
स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम् ॥ ६.१८.२९ ॥

如果他因恐惧、迷惑,甚至贪欲而不依其力量与正理加以保护,那么这罪恶为世人所谴责。

6.18.30

विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः।
आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥ ६.१८.३० ॥

若投靠者在保护者眼前毁灭,他的全部功德便归于那位未加保护的保护者。

6.18.31

एवं दोषो महानत्र प्रपन्नानामरक्षणे।
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥ ६.१८.३१ ॥

如此,不保护投靠者便有大过;它不通向天界,带来耻辱,并毁灭力量与勇气。

6.18.32

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्।
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये ॥ ६.१८.३२ ॥

我将真正依照坎杜的这番上好之言而行;它最合正法,带来名声,待果实成熟时可通往天界。

6.18.33

सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ ६.१८.३३ ॥

凡一次皈依于我、乞求并说“我是你的”者,我便赐予他免于一切众生之恐惧——这是我的誓愿。

6.18.34

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ ६.१८.३४ ॥

猴中之上首啊,把他带来;我已经赐予他安全——无论他是毗భीषण,苏格利瓦啊,还是罗波那本人。

6.18.35

रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः।
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः ॥ ६.१८.३५ ॥

罗摩的话语被听闻后,猴王苏格利瓦充满深情,向迦古斯特之罗摩作答。

6.18.36

किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे।
यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः ॥ ६.१८.३६ ॥

法之智者,诸世界主之冠饰啊!你说出高尚的言语,有何奇怪?你坚定有德,安住于善道。

6.18.37

मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्।
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥ ६.१८.३७ ॥

我的内心也知道毗భीषण是纯洁的;他已通过推断与品性,从各方面得到了充分的考验。

6.18.38

तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ६.१८.३८ ॥

因此,罗伽瓦啊,愿大智的毗భीषण迅速与我们平等,并获得我们的友谊。

6.18.39

ततस्तु सुग्रीववचो निशम्य त-
द्धरीश्वरेणाभिहितं नरेश्वरः।
विभीषणेनाशु जगाम संगमं
पतत्त्रिराजेन यथा पुरंदरः ॥ ६.१८.३९ ॥

于是,罗摩(人王)听了猴王须羯哩婆所说的话,便迅速前往与毗भीषण相见,正如因陀罗与鸟王迦鲁达相会。