ヴァールミーキのラーマーヤナ · サルガ 6.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.19.1
राघवेणाभये दत्ते संनतो रावणानुजः।
विभीषणो महाप्राज्ञो भूमिं समवलोकयत् ॥ ६.१९.१ ॥
ラーガヴァが安全を与えると、ラーヴァナの弟で大いなる智慧のヴィビーシャナは身をかがめ、大地を見つめた。
6.19.2
खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह।
स तु रामस्य धर्मात्मा निपपात विभीषणः ॥ ६.१९.२ ॥
喜びに満ちて、忠実な従者たちとともに彼は空から大地へ降り立った。その法にかなった心のヴィビーシャナはラーマの足元にひれ伏した。
6.19.3
पादयोर्निपपाताथ चतुर्भिः सह राक्षसैः।
अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः ॥ ६.१९.३ ॥
続いて四人の羅刹とともに彼は足元にひれ伏した。そしてヴィビーシャナはラーマにこれらの言葉を語った。
6.19.4
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम्।
अनुजो रावणस्याहं तेन चास्म्यवमानितः ॥ ६.१९.४ ॥
この言葉は法にかない、ふさわしく、今この時にふさわしく喜ばしいものである。私はラーヴァナの弟であり、彼によって辱められたのだ。
6.19.5
भवन्तं सर्वभूतानां शरण्यं शरणं गतः।
परित्यक्ता मया लङ्का मित्राणि च धनानि च ॥ ६.१९.५ ॥
すべての存在の拠り所であるあなたに、私は庇護を求めて参りました。ラーンカー、友、そして財産を私は捨ててきたのです。
6.19.6
भवद्गतं हि मे राज्यं जीवितं च सुखानि च।
तस्य तद् वचनं श्रुत्वा रामो वचनमब्रवीत् ॥ ६.१९.६ ॥
私の王国も、命も、喜びも、すべてはあなたに委ねられています。彼のその言葉を聞いて、ラーマはこう言った。
6.19.7
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ ६.१९.७ ॥
言葉で彼を慰め、目で飲むかのように見つめて、ラーマは言った。羅刹たちの強さと弱さを、真実に私に語ってくれ。
6.19.8
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ६.१९.८ ॥
労なく行いを成すラーマがこう言うと、その羅刹はラーヴァナのすべての力を語り始めた。
6.19.9
अवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम्।
राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥ ६.१९.९ ॥
王子よ、十首の者は自在者(ブラフマー)の恩寵により、あらゆる生き物、ガンダルヴァ、蛇、鳥によっても殺されることはない。
6.19.10
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥ ६.१९.१० ॥
ラーヴァナの次は私の兄、勇猛で大いに輝くクンバカルナで、戦いではインドラに匹敵する。
6.19.11
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः।
कैलासे येन समरे मणिभद्रः पराजितः ॥ ६.१९.११ ॥
ラーマよ、彼の将軍はプラハスタです。お聞きになっているかもしれませんが、彼はカイラーサでの戦いでマニバドラを打ち負かしました。
6.19.12
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ ६.१९.१२ ॥
革紐で結んだ指当てを着け、戦で討たれぬ鎧を身に付けたインドラジットは、弓を取って立つと姿を消す。
6.19.13
संग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम्।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥ ६.१९.१३ ॥
戦において大いなる陣形の中、供物の火を満足させ、姿を消した輝かしいインドラジットが打つ、ラーガヴァよ。
6.19.14
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः।
अनीकपास्तु तस्यैते लोकपालसमा युधि ॥ ६.१९.१४ ॥
マホーダラ、マハーパールシャ、そして羅刹アカンパナ——これらは彼の軍の指揮官であり、戦において世界守護神に等しい。
6.19.15
दशकोटिसहस्राणि रक्षसां कामरूपिणाम्।
मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम् ॥ ६.१९.१५ ॥
意のままに姿を変え、肉と血を食らい、ラーンカー城に住む、百億の千倍の羅刹たち。
6.19.16
स तैस्तु सहितो राजा लोकपालानयोधयत्।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥ ६.१९.१६ ॥
その王は彼らと共に世界守護神たちと戦った;神々と共に彼らは邪悪な心の羅波那に打ち破られた。
6.19.17
विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ ६.१९.१७ ॥
ヴィビーシャナのその言葉を聞き、ラグの最上の者は心の中ですべてを熟考し、この言葉を述べた。
6.19.18
यानि कर्मापदानानि रावणस्य विभीषण।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ ६.१९.१८ ॥
ヴィビーシャナよ、語られたラーヴァナの行いと武勲を、私は真に理解している。
6.19.19
अहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम्।
राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे ॥ ६.१९.१९ ॥
十頭のダシャグリーヴァをプラハスタとその息子たちとともに殺し、あなたを王にしよう。私のこの真実を聞け。
6.19.20
रसातलं वा प्रविशेत् पातालं वापि रावणः।
पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ॥ ६.१९.२० ॥
ラーヴァナが羅薩多羅に入ろうと、地下界に入ろうと、祖父ブラフマーのもとへ行こうと、私の手から生きて解放されることはない。
6.19.21
अहत्वा रावणं संख्ये सपुत्रजनबान्धवम्।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ ६.१९.२१ ॥
戦いでラーヴァナを息子や一族、親族もろとも殺さなければ、私はアヨーディヤーに入らない。あの三人の兄弟にかけて誓う。
6.19.22
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः।
शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे ॥ ६.१९.२२ ॥
無努力の行為者ラーマの言葉を聞き、法の魂を持つヴィビーシャナは頭を垂れて礼拝し、このように語り始めた。
6.19.23
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ ६.१९.२३ ॥
羅刹の殲滅とランカーへの攻撃において、命ある限り助力し、軍に加わろう。
6.19.24
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ ६.१९.२४ ॥
喜んで彼はラクシュマナに言った。「海から水を持ってこい。」
6.19.25
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ ६.१९.२५ ॥
その水で、この大智者ヴィビーシャナを羅刹の王として速やかに灌頂せよ。私は満足している、名誉を与える者よ。
6.19.26
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम्।
मध्ये वानरमुख्यानां राजानं राजशासनात् ॥ ६.१९.२६ ॥
このように言われたサウミトリは、王の命により主要なヴァーナラたちの中でヴィビーシャナを王として灌頂した。
6.19.27
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः।
प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन् ॥ ६.१९.२७ ॥
ラーマの恩寵を見て、跳躍する猿たちはすぐさまその偉大な魂に向かって「よくやった、よくやった」と叫んだ。
6.19.28
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्।
कथं सागरमक्षोभ्यं तराम वरुणालयम्।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ ६.१९.२८ ॥
ハヌマーンとスグリーヴァもヴィビーシャナに言った。「ヴァルナの住処であり、動じることのないこの海を、力強いヴァーナラの軍勢に囲まれた我々は皆、どうやって渡ればよいのか。」
6.19.29
उपायैरभिगच्छाम यथा नदनदीपतिम्।
तराम तरसा सर्वे ससैन्या वरुणालयम् ॥ ६.१९.२९ ॥
何らかの方策によって、河川と川の主、ヴァルナの住処である海に近づこう。そうすれば我々は皆、軍勢とともに速やかに渡ることができる。
6.19.30
एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ ६.१९.३० ॥
このように言われた、正義の魂を持つヴィビーシャナは答えた。「王ラーガヴァ(ラーマ)は、海に庇護を求めて赴くべきである。」
6.19.31
खानितः सगरेणायमप्रमेयो महोदधिः।
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥ ६.१९.३१ ॥
サガラが掘ったこの無限の大海は、ラーマの親族(友)の務めを果たすにふさわしい。
6.19.32
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ६.१९.३२ ॥
賢明なラークシャサのヴィビーシャナがこう言うと、スグリーヴァはラクシュマナと共にいるラーマのもとへ来た。
6.19.33
ततश्चाख्यातुमारेभे विभीषणवचः शुभम्।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ६.१९.३३ ॥
すると広い首を持つスグリーヴァは、海辺に座ることについてのヴィビーシャナの吉祥な言葉を語り始めた。
6.19.34
प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत।
सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥ ६.१९.३४ ॥
本性から徳を重んじるラーマにも、これは好ましく思われた。偉大な輝きのラーマ、ラクシュマナ、そして猿の王スグリーヴァもこれを喜んだ。
6.19.35
सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत।
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ॥ ६.१९.३५ ॥
敬意を示すため、ラーマは行動に長けたラクシュマナに微笑んで言った。「ラクシュマナよ、このヴィビーシャナの助言は私の気に入った。」
6.19.36
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम् ॥ ६.१९.३६ ॥
スグリーヴァはいつも賢明であり、君は策略に長けている。我々二人で考え定めた上で、どうすべきか言ってくれ。
6.19.37
एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ।
समुदाचारसंयुक्तमिदं वचनमूचतुः ॥ ६.१९.३७ ॥
このように言われて、二人の英雄、スグリーヴァとラクシュマナは礼儀にかなった言葉を述べた。
6.19.38
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव।
विभीषणेन यत् तूक्तमस्मिन् काले सुखावहम् ॥ ६.१९.३८ ॥
人中の雄、ラーガヴァよ、今この時にヴィビーシャナが述べた幸福をもたらす言葉が、どうしてあなたのお気に召さないことがありましょうか。
6.19.39
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ६.१९.३९ ॥
ヴァルナの住処であるこの恐ろしい海に橋を架けることなしには、インドラを伴う神々にも阿修羅にも、ランカーに到達することはできない。
6.19.40
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः।
अलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम्।
यथा सैन्येन गच्छाम पुरीं रावणपालिताम् ॥ ६.१९.४० ॥
勇士ヴィビーシャナの言葉を、そのとおりに実行せよ。もはや時を空しくせず、この海に命じよ。軍とともにラーヴァナが治めるあの都へ進めるように。
6.19.41
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः।
संविवेश तदा रामो वेद्यामिव हुताशनः ॥ ६.१९.४१ ॥
このように言われて、ラーマはクシャ草を敷いた大海の岸辺に座った。祭壇の上の聖火のように輝きながら。