Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.2.1

तं तु शोकपरिद्यूनं रामं दशरथात्मजम्।
उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ॥ ६.२.१ ॥

憔悴于悲伤中的十车王之子罗摩,听到光辉的须羯里婆说出的这些驱散忧愁的话语。

6.2.2

किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा।
मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥ ६.२.२ ॥

英雄啊,你为何像平凡之人一样忧煎?不要这样;像忘恩负义者抛弃友谊那样,舍弃这份忧伤吧。

6.2.3

संतापस्य च ते स्थानं नहि पश्यामि राघव।
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ६.२.३ ॥

罗怙婆啊,我看不出你的忧伤有何根据:敌人的行踪已经查明,他的住处也已知晓。

6.2.4

मतिमान् शास्त्रवित् प्राज्ञः पण्डितश्चासि राघव।
त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम् ॥ ६.२.४ ॥

罗怙婆啊,你聪明、通晓经典、有辨识力且博学。请舍弃这种平庸的见解,正如自律之人舍弃有损于目的的判断。

6.2.5

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ६.२.५ ॥

渡过布满巨鳄的大海,我们将攻上楞伽城,并杀死你的敌人。

6.2.6

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः।
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६.२.६ ॥

对于失去斗志、可怜且心被忧伤淹没的人,一切目标都会沉没,灾祸也会降临到他身上。

6.2.7

इमे शूराः समर्थाश्च सर्वतो हरियूथपाः।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्।
एषां हर्षेण जानामि तर्कश्चापि दृढो मम ॥ ६.२.७ ॥

这些英雄,四面皆能胜任,是猴军的统帅,为了您的喜悦满怀热忱,甚至愿意走入火中。从他们的喜悦中我得知,我的推断也很坚定。

6.2.8

विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्।
रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ॥ ६.२.८ ॥

我将以勇力带回悉多;正如您应当杀死那作恶的敌人罗波那一样。

6.2.9

सेतुरत्र यथा बद्ध्येद् यथा पश्येम तां पुरीम्।
तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ ६.२.९ ॥

愿在此架起桥梁,好让我们看到那座城;对于那罗刹王,请您这样做吧,罗怙之子啊。

6.2.10

दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्।
हतं च रावणं युद्धे दर्शनादवधारय ॥ ६.२.१० ॥

见到位于三峰山顶的楞伽城,以及罗波那已在战中被杀,仅凭所见便可确信。

6.2.11

अबद्ध्वा सागरे सेतुं घोरे च वरुणालये।
लङ्कां न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ६.२.११ ॥

若不在可怖的伐楼那之居——大海上架桥,楞伽便无法被摧毁,即使因陀罗与天神、阿修罗联手也不能。

6.2.12

सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः।
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय।
इमे हि समरे वीरा हरयः कामरूपिणः ॥ ६.२.१२ ॥

请知道,海上的桥梁已经架成,直到楞伽附近,我的全军已渡过并取得胜利。这些猴子英雄在战斗中能随意变化任何形态。

6.2.13

तदलं विक्लवां बुद्धिं राजन् सर्वार्थनाशिनीम्।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥ ६.२.१३ ॥

因此,国王啊,请放下这颗混乱的心,它会毁掉一切目的。在这世上,正是悲伤削弱人的勇气。

6.2.14

यत् तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम्।
तदलंकरणायैव कर्तुर्भवति सत्वरम् ॥ ६.२.१४ ॥

然而,人所当为之事,应当依靠勇气。唯有勇气成为行事者的光彩,并能迅速见效。

6.2.15

अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा।
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्।
विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः ॥ ६.२.१५ ॥

此时,大智者啊,请以光辉坚守定力。对于像您这样的英雄与伟大的人,无论失去或毁灭了什么,唯有悲伤会毁掉一切目的。

6.2.16

तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः।
मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि ॥ ६.२.१६ ॥

您是智者中的翘楚,精通一切经典的要义。与像我这样的臣子一起,您足以战胜敌人。

6.2.17

नहि पश्याम्यहं कंचित् त्रिषु लोकेषु राघव।
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ ६.२.१७ ॥

罗怙婆啊,我看遍三界,没有谁能执弓在战场上与您面对面相抗。

6.2.18

वानरेषु समासक्तं न ते कार्यं विपत्स्यते।
अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥ ६.२.१८ ॥

您依托猴众所做之事不会失败。渡过这片无尽的大海,您很快就会见到悉多。

6.2.19

तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते।
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ ६.२.१९ ॥

国王啊,够了,不要再沉溺于悲伤,应当拿起愤怒。那些束手无策、愚钝的刹帝利们都畏惧那个暴烈之人。

6.2.20

लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः।
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ ६.२.२० ॥

关于渡过那可怕的大海——江河之主——请与我们一同来此商议,你这心思细密的人。

6.2.21

लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु।
सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम् ॥ ६.२.२१ ॥

若那些军队在那里渡过了大海,就应确知胜利已经取得。应当确定:我的全军已经渡过,胜利已经属于我们。

6.2.22

इमे हि हरयः शूराः समरे कामरूपिणः।
तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ ६.२.२२ ॥

这些猴子是战场上的英雄,能随意变化形体。他们将以巨石和树木如雨般的攻击,摧毁敌人。

6.2.23

कथंचित् परिपश्यामि लङ्घितं वरुणालयम्।
हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण ॥ ६.२.२३ ॥

若我竟见到水神伐楼那之居所已被渡过,我便认为他已在战斗中被杀,啊,灭敌者。

6.2.24

किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्।
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥ ६.२.२४ ॥

何必说得太多?您在各方面都必将获胜。我看到了吉兆,我的心非常欢喜。