Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.21.1

ततः सागरवेलायां दर्भानास्तीर्य राघवः।
अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥ ६.२१.१ ॥

そこでラーガヴァは海辺にクシャ草を敷き、合掌し、東を向いて大海に向かって横たわった。

6.21.2

बाहुं भुजङ्गभोगाभमुपधायारिसूदनः।
जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ ६.२१.२ ॥

敵を滅ぼす者は、蛇のとぐろのような腕を枕とした。その腕はかつて黄金の飾りで飾られていた。

6.21.3

मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः।
भुजैः परमनारीणामभिमृष्टमनेकधा ॥ ६.२१.३ ॥

宝石、金の腕輪、上質な真珠の装身具を身につけた最上の女性たちの腕によって、さまざまに撫でられたものである。

6.21.4

चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम्।
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ॥ ६.२१.४ ॥

かつて白檀と沈香で香りづけされ、昇る太陽の光のように輝く白檀の塗料で飾られていた。

6.21.5

शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा।
तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥ ६.२१.५ ॥

かつてシーターの頭が横たわって飾ったもの。タクシャカのとぐろのようで、ガンジス川の水で潤されていた。

6.21.6

संयुगे युगसंकाशं शत्रूणां शोकवर्धनम्।
सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ ६.२१.६ ॥

戦いでは軛のよう、敵の悲しみを増し、友には喜びとなる。長く、海の果てまで届いている。

6.21.7

अस्यता च पुनः सव्यं ज्याघातविहतत्वचम्।
दक्षिणो दक्षिणं बाहुं महापरिघसंनिभम् ॥ ६.२१.७ ॥

再び左手で矢を放つとき、弦の打撃で皮膚の破れた右手は、大きな鉄棍のような右腕の上にあった。

6.21.8

गोसहस्रप्रदातारं ह्युपधाय भुजं महत्।
अद्य मे तरणं वाथ मरणं सागरस्य वा ॥ ६.२१.८ ॥

千頭の牛を布施した者のように大きな腕を枕として、今日私は海を渡るか、海で死ぬかのどちらかである。

6.21.9

अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः ॥ ६.२१.९ ॥

私は規則に従い、自制し抑制して、聖者のように横たわる。

6.21.10

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले।
नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः ॥ ६.२१.१० ॥

クシャ草を敷いた地面に横たわり、誓戒により注意深くあったラーマには、三夜が過ぎた。

6.21.11

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः।
उपासत तदा रामः सागरं सरितां पतिम् ॥ ६.२१.११ ॥

そこに三夜滞在したのち、政道に通じ法を愛するラーマは、河川の主である海を礼拝した。

6.21.12

न च दर्शयते रूपं मन्दो रामस्य सागरः।
प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ ६.२१.१२ ॥

ラーマが相応しく敬意をもって礼拝したのに、怠惰な海はラーマに自らの姿を見せない。

6.21.13

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः।
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ ६.२१.१३ ॥

その時、海に怒ったラーマは、目の端を赤く染めて、そばに立つ吉相のラクシュマナにこう言った。

6.21.14

अवलेपः समुद्रस्य न दर्शयति यः स्वयम्।
प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ ६.२१.१४ ॥

海は自ら傲慢さを見せない。また、静けさ、忍耐、誠実さ、やさしい言葉も見せない。

6.21.15

असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः।
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥ ६.२१.१५ ॥

善人のこれらの徳は、徳のない者に向ければ無力という結果しか生まない。自画自賛する者、邪悪な者、傲慢な者、あちこち走り回る者には(無益である)。

6.21.16

सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्।
न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥ ६.२१.१६ ॥

どこでも罰の杖を振るう者を、世間は敬う。懐柔によって名声は得られず、懐柔によって誉れも得られない。

6.21.17

प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि।
अद्य मद्बाणनिर्भग्नैर्मकरैर्मकरालयम् ॥ ६.२१.१७ ॥

ラクシュマナよ、この世で重要なのは、戦いの先頭で勝利を得ることだ。今日、摩伽羅の住処である海は、私の矢に砕かれた摩伽羅たちを見るだろう。

6.21.18

निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः।
भोगिनां पश्य भोगानि मया भिन्नानि लक्ष्मण ॥ ६.२१.१८ ॥

ソウミトリよ、四方に漂う生き物によって水がふさがれた海を見よ。ラクシュマナよ、私に貫かれた蛇たちの体を見よ。

6.21.19

महाभोगानि मत्स्यानां करिणां च करानिह।
सशङ्खशुक्तिकाजालं समीनमकरं तथा ॥ ६.२१.१९ ॥

ここには魚や、象のような海獣の鼻の大きな富がある。巻貝と牡蠣の網があり、魚や海の怪物もいる。

6.21.20

अद्य युद्धेन महता समुद्रं परिशोषये।
क्षमया हि समायुक्तं मामयं मकरालयः ॥ ६.२१.२० ॥

今日、大いなる戦いによってこの海を干上がらせよう。忍耐強い者と思い、この海獣の住処は私を侮っている。

6.21.21

असमर्थं विजानाति धिक् क्षमामीदृशे जने।
न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ ६.२१.२१ ॥

彼は私を無力だと見ている。このような者に対する忍耐は恥だ。海は和睦の道で私に本来の姿を示さない。

6.21.22

चापमानय सौमित्रे शरांश्चाशीविषोपमान्।
समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः ॥ ६.२१.२२ ॥

サウミトリよ、弓と毒蛇のような矢を持って来い。私は海を干上がらせよう。猿たちは歩いて行かせよ。

6.21.23

अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्।
वेलासु कृतमर्यादं सहस्रोर्मिसमाकुलम् ॥ ६.२१.२३ ॥

今日、怒りをもって、不動の海さえ揺り動かそう。海は岸辺に境を保ち、千の波に満ちている。

6.21.24

निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्।
महार्णवं क्षोभयिष्ये महादानवसंकुलम् ॥ ६.२१.२४ ॥

矢によってヴァルナの住処を境界の外へ乱そう。大いなる魔物に満ちたこの大海を揺り動かそう。

6.21.25

एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः।
बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥ ६.२१.२५ ॥

こう言うと、弓を手にし、怒りに見開いた目のラーマは、劫末の火のように燃え上がり、抗しがたい者となった。

6.21.26

सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्।
मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः ॥ ६.२१.२६ ॥

恐ろしい弓を引き絞り、矢で世界を揺るがせて、百祀の神インドラが雷electrum を放つように、猛き矢を放った。

6.21.27

ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः।
प्रविशन्ति समुद्रस्य जलं वित्रस्तपन्नगम् ॥ ६.२१.२७ ॥

輝きに燃え、大いなる速さで、それらの優れた矢は海の水に入り、そこでは蛇たちが怯えた。

6.21.28

तोयवेगः समुद्रस्य समीनमकरो महान्।
स बभूव महाघोरः समारुतरवस्तथा ॥ ६.२१.२८ ॥

魚とマカラに満ちた海の水勢は大きく、極めて恐ろしいものとなり、風の唸りとともに轟いた。

6.21.29

महोर्मिमालाविततः शङ्खशुक्तिसमावृतः।
सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः ॥ ६.२१.२९ ॥

巨大な波の花環に広がり、法螺貝と貝殻に覆われ、煙を上げ、渦巻く波をもつその大海は、たちまちこのようになった。

6.21.30

व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः।
दानवाश्च महावीर्याः पातालतलवासिनः ॥ ६.२१.३० ॥

蛇たちは怯え、口も目も燃え上がった。地底の深みに住む大力の ダーナヴァたちもまた動揺した。

6.21.31

ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा।
विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः ॥ ६.२१.३१ ॥

海王の波は、ワニやマカラとともに、ヴィンドヤ山とマンダラ山のごとく、幾千となく湧き上がった。

6.21.32

आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः।
उद्वर्तितमहाग्राहः सघोषो वरुणालयः ॥ ६.२१.३२ ॥

波の群れは掻き乱され、蛇や羅刹は狼狽し、大きなグラーハは裏返った。吼える水神ヴァルナの館。

6.21.33

ततस्तु तं राघवमुग्रवेगं
प्रकर्षमाणं धनुरप्रमेयम्।
सौमित्रिरुत्पत्य विनिःश्वसन्तं
मामेति चोक्त्वा धनुराललम्बे ॥ ६.२१.३३ ॥

そのときサウミトリ(ラクシュマナ)は、猛烈な勢いで計り知れぬ弓を引き、深く嘆息するラーガヴァ(ラーマ)を見て、「私に」と言って飛び上がり、弓を握った。

6.21.34

एतद्विनापि ह्युदधेस्तवाद्य
सम्पत्स्यते वीरतमस्य कार्यम्।
भवद्विधाः क्रोधवशं न यान्ति
दीर्घं भवान् पश्यतु साधुवृत्तम् ॥ ६.२१.३४ ॥

海がなくとも、勇者の中の勇者よ、今日あなたの務めは成し遂げられるでしょう。あなたのような方は怒りの支配下には入りません。どうか長く正しい振る舞いを示してください。

6.21.35

अन्तर्हितैश्चापि तथान्तरिक्षे
ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च।
शब्दः कृतः कष्टमिति ब्रुवद्भि-
र्मामेति चोक्त्वा महता स्वरेण ॥ ६.२१.३५ ॥

空中に隠れていたブラフマルシとデーヴァルシも、「ああ、苦しい!」と言い、「私に」と大声で声を上げた。