Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.22.1

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः।
अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ ६.२२.१ ॥

于是罗怙子中最杰出者对大海说出严厉的话语:“今日我要将你连同地底世界一起晒干,大海啊!”

6.22.2

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर।
मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् ॥ ६.२२.२ ॥

“大海啊!你的水将被我的箭烧干;当你中的生灵被我杀尽,巨大的尘土便会扬起。”

6.22.3

मत्कार्मुकविसृष्टेन शरवर्षेण सागर।
परं तीरं गमिष्यन्ति पद्भिरेव प्लवंगमाः ॥ ६.२२.३ ॥

“大海啊!借着从我弓中射出的箭雨,猴子们将步行抵达彼岸。”

6.22.4

विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्।
दानवालय संतापं मत्तो नाम गमिष्यसि ॥ ६.२२.४ ॥

“阿修罗的居所啊!你不识我的男儿气概与勇武,必将因我而遭受痛苦。”

6.22.5

ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्।
संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥ ६.२२.५ ॥

大力的罗摩将注入梵天之力的箭搭在上好的弓上,形如梵天之杖,然后拉满。

6.22.6

तस्मिन् विकृष्टे सहसा राघवेण शरासने।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥ ६.२२.६ ॥

罗怙之子忽然拉开那张弓时,天与地仿佛裂开,群山也随之颤动。

6.22.7

तमश्च लोकमावव्रे दिशश्च न चकाशिरे।
प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥ ६.२२.७ ॥

黑暗笼罩了世界,四方不再明亮,湖泊与河流也立刻翻腾起来。

6.22.8

तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ।
भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥ ६.२२.८ ॥

月亮与太阳斜斜地与星辰相会;虽被日光照耀,却仍被黑暗笼罩。

6.22.9

प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥ ६.२२.९ ॥

此时,被数百颗流星照亮的天空闪耀起来;从天空中传来无与伦比的霹雳之声。

6.22.10

वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्तयः।
बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः ॥ ६.२२.१० ॥

神圣的风列以全部力量吹动;它们摧折树木,一次又一次地将云层卷上高空。

6.22.11

आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्ज च।
दिवि च स्म महामेघाः संहताः समहास्वनाः ॥ ६.२२.११ ॥

它们摧毁山巅,折断峰顶;天空中大片乌云聚集,发出巨大的轰鸣。

6.22.12

मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥ ६.२२.१२ ॥

于是那些巨大的霹雳释放出由闪电所生的火焰,而可见的众生与雷声一同惊叫起来。

6.22.13

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम्।
शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च ॥ ६.२२.१३ ॥

无形的众生发出可怖的吼声;它们被压倒,倒卧在地,惊恐颤抖。

6.22.14

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात्।
सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ॥ ६.२२.१४ ॥

它们极为震荡,却因恐惧而不动;与众生、波涛、蛇与罗刹一同。

6.22.15

सहसाभूत् ततो वेगाद् भीमवेगो महोदधिः।
योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥ ६.२२.१५ ॥

于是,大海骤然以可怖的力量涌起,在洪涛中越过岸边一由旬。

6.22.16

तं तथा समतिक्रान्तं नातिचक्राम राघवः।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ ६.२२.१६ ॥

大海如此越界,罗怙之子却不越界;歼灭敌人的罗摩以克制之心凝视那翻腾的河川之主大海。

6.22.17

ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः।
उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः ॥ ६.२२.१७ ॥

于是,大海中央,海神自己升起,如太阳从东方的大山日出之山或须弥山升起。

6.22.18

पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत।
स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषणः ॥ ६.२२.१८ ॥

大海与口中喷焰的诸蛇一同显现,如光滑的青金石,以金饰庄严。

6.22.19

रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः।
सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥ ६.२२.१९ ॥

身着红色花环与衣袍,双目如莲花瓣,头上戴着由各种花朵编成的神圣花环,大海显现了。

6.22.20

जातरूपमयैश्चैव तपनीयविभूषणैः।
आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ ६.२२.२० ॥

以纯金的饰物、他自己儿女(河流)的宝石以及最上乘的装饰品为饰。

6.22.21

धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव।
एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥ ६.२२.२१ ॥

如同装饰着各色矿石的喜马拉雅山,大海闪烁着,波光摇曳,泛着淡白的光辉,位于一条项链的中央。

6.22.22

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम्।
आघूर्णिततरङ्गौघः कालिकानिलसंकुलः ॥ ६.२२.२२ ॥

宽阔的胸前佩戴着仿佛是宝珠“考斯图巴”兄弟的饰物,大海被旋转的波涛与乌云般的狂风所搅动。

6.22.23

गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः।
उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः ॥ ६.२२.२३ ॥

被以恒河与信度河为首的诸河环绕,大鳄翻腾,蛇与罗刹惊慌不安,大海屹立着。

6.22.24

देवतानां सुरूपाभिर्नानारूपाभिरीश्वरः।
सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥ ६.२२.२४ ॥

威武的海神以诸神的种种美妙形象走近,先行呼唤,然后对罗摩说道。

6.22.25

अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ ६.२२.२५ ॥

他合掌向手持箭矢的罗怙之子说了这些话。

6.22.26

पृथिवी वायुराकाशमापो ज्योतिश्च राघव।
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥ ६.२२.२६ ॥

罗怙之子啊,地、风、空、水与火,温和者啊,各依其性,遵循永恒之道而存在。

6.22.27

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः।
विकारस्तु भवेद् गाध एतत् ते प्रवदाम्यहम् ॥ ६.२२.२७ ॥

深不可测、难以渡越,这是我的本性;但若有所改变,我便可以涉渡——此事我告诉你。

6.22.28

न कामान्न च लोभाद् वा न भयात् पार्थिवात्मज।
ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन ॥ ६.२२.२८ ॥

王子啊,我不因欲望,不因贪婪,也不因恐惧,绝不会以任何方式阻止这满是鳄鱼与鲨鱼的水流。

6.22.29

विधास्ये येन गन्तासि विषहिष्येऽप्यहं तथा।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति।
हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ ६.२२.२९ ॥

我将做出安排使你能够前行,这一切我也将忍受;军队渡过之时,鳄鱼不会侵扰。罗摩啊,我将为猴众造出可以渡过的陆地。

6.22.30

तमब्रवीत् तदा रामः शृणु मे वरुणालय।
अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम् ॥ ६.२२.३० ॥

于是罗摩对他说:听我说,婆楼那的居所啊。这是一支不会落空的大箭;应当射向哪一个地方?

6.22.31

रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्।
महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ६.२२.३१ ॥

大海闻听罗摩之言,又见那支大箭,光辉威严,便对罗呼婆说道:

6.22.32

उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम।
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ॥ ६.२२.३२ ॥

我北方有一处更为圣洁的地方,名为德鲁迈库利亚,正如您在世间享有盛名。

6.22.33

उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः।
आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥ ६.२२.३३ ॥

那里有许多面目狰狞、行为凶恶的盗贼,以阿毗罗为首;这些罪人饮用我的水。

6.22.34

तैर्न तत्स्पर्शनं पापं सहेयं पापकर्मभिः।
अमोघः क्रियतां राम अयं तत्र शरोत्तमः ॥ ६.२२.३४ ॥

那些作恶的罪人的触碰,我实在不能忍受。罗摩啊,请让这支最好的箭在那里必中无失。

6.22.35

तस्य तद् वचनं श्रुत्वा सागरस्य महात्मनः।
मुमोच तं शरं दीप्तं परं सागरदर्शनात् ॥ ६.२२.३५ ॥

罗摩听闻那位大德之海的话,一见大海,便发出那支光芒四射的神箭。

6.22.36

तेन तन्मरुकान्तारं पृथिव्यां किल विश्रुतम्।
निपातितः शरो यत्र वज्राशनिसमप्रभः ॥ ६.२२.३६ ॥

因此那片荒漠在大地上闻名遐迩——那支光芒如雷电的箭,正落在那里。

6.22.37

ननाद च तदा तत्र वसुधा शल्यपीडिता।
तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात् ॥ ६.२२.३७ ॥

那时,被箭射伤的大地在那里呻吟,水从那伤口中自地下的罗萨塔拉涌出。

6.22.38

स बभूव तदा कूपो व्रण इत्येव विश्रुतः।
सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ॥ ६.२२.३८ ॥

那时它成了一口以'伤口'之名闻名的井;从中不断涌出的水看起来如同大海。

6.22.39

अवदारणशब्दश्च दारुणः समपद्यत।
तस्मात् तद् बाणपातेन अपः कुक्षिष्वशोषयत् ॥ ६.२२.३९ ॥

箭落下时发出可怕的裂开之声;由此,他使大地深处的水都干涸了。

6.22.40

विख्यातं त्रिषु लोकेषु मरुकान्तारमेव च।
शोषयित्वा तु तं कुक्षिं रामो दशरथात्मजः ॥ ६.२२.४० ॥

那片在三界中闻名的荒漠便由此形成;而十车王之子罗摩干涸了那片洼地……

6.22.41

वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः ॥ ६.२२.४१ ॥

那位智慧且具不朽勇力者,赐予那荒漠一项恩惠。

6.22.42

पशव्यश्चाल्परोगश्च फलमूलरसायुतः।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥ ६.२२.४२ ॥

它对牲畜有益,少病害,富有果实、根茎与汁液,多脂多乳,芬芳,并且充满各种草药。

6.22.43

एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥ ६.२२.४३ ॥

如此,这片沙漠因具备这些及诸多其他特质,又因罗摩的恩赐,成为了吉祥之路。

6.22.44

तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः।
राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥ ६.२२.४४ ॥

那片地区被焚毁后,河流之主大海对通晓一切学问的罗伽瓦说了这些话。

6.22.45

अयं सौम्य नलो नाम तनयो विश्वकर्मणः।
पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्वकर्मणः ॥ ६.२२.४५ ॥

善良者啊,此人名叫那罗,是毗首羯摩之子;父亲曾赐予他恩惠。他光辉而受毗首羯摩所爱。

6.22.46

एष सेतुं महोत्साहः करोतु मयि वानरः।
तमहं धारयिष्यामि यथा ह्येष पिता तथा ॥ ६.२२.४६ ॥

愿这位大有勇力的猴子在我身上架设桥梁;我会像他的父亲那样承载它。

6.22.47

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः।
अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलम् ॥ ६.२२.४७ ॥

说罢,大海隐去;于是猴中最杰出的那罗起身,对大力的罗摩说道。

6.22.48

अहं सेतुं करिष्यामि विस्तीर्णे मकरालये।
पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः ॥ ६.२२.४८ ॥

我将在这片辽阔的海中巨兽之居所上架设桥梁。大海得到其父的神力,说出了这一真实之言。

6.22.49

दण्ड एव वरो लोके पुरुषस्येति मे मतिः।
धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ ६.२२.४९ ॥

我认为,世间对人而言,惩罚才是最好的。对忘恩负义者宽恕可耻;安抚与赠予(对他们也是徒劳)。

6.22.50

अयं हि सागरो भीमः सेतुकर्मदिदृक्षया।
ददौ दण्डभयाद् गाधं राघवाय महोदधिः ॥ ६.२२.५० ॥

这可怕的大海因想看见造桥,又惧怕惩罚,便为罗迦婆(罗摩)让出了坚实的陆路——这大海。

6.22.51

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा।
मया तु सदृशः पुत्रस्तव देवि भविष्यति ॥ ६.२२.५१ ॥

在曼达拉山上,毗首羯摩(Viśvakarman)赐予我的母亲一个恩惠:“你将有一个与我相等的儿子。”女神啊,你的儿子将与我相似。

6.22.52

औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः।
न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान् ॥ ६.२२.५२ ॥

我是他的亲生之子,与毗首羯摩相等。因此被提醒,大海说出了这个真相。若非你们问我,我不会谈论自己的品德。

6.22.53

समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये।
तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥ ६.२२.५३ ॥

我在伐楼那的居所(大海)中也能够架桥。因此,让最优秀的猴子们今天就架起这座桥吧。

6.22.54

ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः।
उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ॥ ६.२२.५४ ॥

于是,罗摩派往四面八方的优秀猴子们欢欣鼓舞,成千上万地跃向那片大森林。

6.22.55

ते नगान् नगसंकाशाः शाखामृगगणर्षभाः।
बभञ्जुः पादपांस्तत्र प्रचकर्षुश्च सागरम् ॥ ६.२२.५५ ॥

那些形如山岳、如群猴中雄牛般的猴王,在那里折断树木,把它们拖向大海。

6.22.56

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः।
कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि ॥ ६.२२.५६ ॥

那些猴子还用娑罗树、马耳树、丹木、竹子,以及俱多迦、阿周那、棕榈、提罗迦和提尼舍树。

6.22.57

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः।
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ ६.२२.५७ ॥

他们用木橘、七叶树、盛开的刺桐花树、芒果树和无忧树,把大海全部填满。

6.22.58

समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः।
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्वानरास्तरून् ॥ ६.२२.५८ ॥

众猴中的精英们把连根与拔起的树木高高举起,如同因陀罗的旗幡,将它们带走。

6.22.59

तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान्।
करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः ॥ ६.२२.५९ ॥

他们从四处收集棕榈、石榴丛、椰子与毗黑多迦、卡里拉灌木、巴古拉和苦楝树。

6.22.60

हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः।
पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥ ६.२२.६० ॥

身躯庞大、力量无穷的猴子们拔起如象般大的巨石与山岳,借助器械将它们搬运而去。

6.22.61

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम्।
समुत्ससर्प चाकाशमवासर्पत् ततः पुनः ॥ ६.२२.६१ ॥

群山被抛入时,海水骤然涌起,冲向天空,随后又落回原处。

6.22.62

समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः।
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम् ॥ ६.२२.६२ ॥

他们从四面八方落下,搅动大海;另一些人则拿起长达百由旬的测量绳。

6.22.63

नलश्चक्रे महासेतुं मध्ये नदनदीपतेः।
स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥ ६.२२.६३ ॥

那罗在河海之主(大海)中央建造了一座大桥;那时,这座桥正由行事威猛的猴族们修建。

6.22.64

दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे।
वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः ॥ ६.२२.६४ ॥

有人拿起量杆,有人四处寻找;那里数以百计的猴族,遵从罗摩的号令,都在这样做。

6.22.65

मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे।
पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः ॥ ६.२२.६५ ॥

猴族们形如云朵与山峦,用草与木材把它捆扎起来;他们还用顶端开满花的树木来绑扎这座桥。

6.22.66

पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च।
दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः ॥ ६.२२.६६ ॥

他们抓起如山般的巨石和山峰奔跑往来,看上去如同魔众一般。

6.22.67

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्।
बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ ॥ ६.२२.६७ ॥

当岩石被投掷、山峰被推倒之时,那浩瀚的大海上响起了震天的喧嚣。

6.22.68

कृतानि प्रथमेनाह्ना योजनानि चतुर्दश।
प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥ ६.२२.६८ ॥

第一天,欢喜的猴子们如象一般奔忙,完成了十四由旬。

6.22.69

द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः।
कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥ ६.२२.६९ ॥

第二天也是如此,形体可怖、大力无比的猴子迅速完成了二十由旬。

6.22.70

अह्ना तृतीयेन तथा योजनानि तु सागरे।
त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ ६.२२.७० ॥

第三天亦复如此,身形高大、急速奔忙的猴子们在大海中完成了二十一由旬。

6.22.71

चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा।
योजनानि महावेगैः कृतानि त्वरितैस्ततः ॥ ६.२२.७१ ॥

第四天亦复如此,迅捷急速的猴子们完成了二十二由旬。

6.22.72

पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः।
योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै ॥ ६.२२.७२ ॥

第五天亦复如此,行动敏捷的猴子们完成了二十三由旬,直至苏维罗山。

6.22.73

स वानरवरः श्रीमान् विश्वकर्मात्मजो बली।
बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ ६.२२.७३ ॥

那位光辉而强大的猴中之王,毗首羯摩之子,在大海上架起了桥,正如他的父亲所做的那样。

6.22.74

स नलेन कृतः सेतुः सागरे मकरालये।
शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ॥ ६.२२.७४ ॥

那座由那罗建造的桥横跨海洋——海中巨兽的居所——美丽而庄严地闪耀,宛如天空中的斯瓦提之路。

6.22.75

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ॥ ६.२२.७५ ॥

于是诸天神、乾闼婆、悉陀以及大仙人们来到天空,站立在那里,想要目睹这奇迹。

6.22.76

दशयोजनविस्तीर्णं शतयोजनमायतम्।
ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ ६.२२.७६ ॥

诸天神与乾闼婆看见了那罗的桥,宽十由旬,长百由旬,极难建成。

6.22.77

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
तमचिन्त्यमसह्यं च ह्यद्भुतं लोमहर्षणम् ॥ ६.२२.७७ ॥

跳跃、奔腾、吼叫的猴群,见到了那不可思议、令人震撼、奇妙而使人毛骨悚然的壮举。

6.22.78

ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्।
तानि कोटिसहस्राणि वानराणां महौजसाम् ॥ ६.२२.७८ ॥

一切众生都看见了在大海上架桥的情景;那些大力的猴子数以千万计。

6.22.79

बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः।
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ॥ ६.२२.७९ ॥

他们在海上架桥,抵达大海的彼岸。这座桥宽阔、精工建造、壮丽,基础坚实,连接紧密。

6.22.80

अशोभत महान् सेतुः सीमन्त इव सागरे।
ततः पारे समुद्रस्य गदापाणिर्विभीषणः ॥ ६.२२.८० ॥

那座大桥在海上闪耀,宛如发间的分界线。随后,在大海的彼岸,毗భీषण手持铁杵站立。

6.22.81

परेषामभिघातार्थमतिष्ठत् सचिवैः सह।
सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ॥ ६.२२.८१ ॥

他与臣属们站在那里,准备打击敌人。随后,须羯里婆对真正勇武的罗摩说道。

6.22.82

हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः।
अयं हि विपुलो वीर सागरो मकरालयः ॥ ६.२२.८२ ॥

哈奴曼,你骑上去;安伽达也上去;罗什曼那也上去。英雄啊,这片广阔的大海是摩竭鱼的居所。

6.22.83

वैहायसौ युवामेतौ वानरौ धारयिष्यतः।
अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ॥ ६.२२.८३ ॥

你们二位,作为飞行于空中的猴子,将托负他们。在那支军队的前头,光荣的罗摩与罗什曼那同行。

6.22.84

जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः।
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः ॥ ६.२२.८४ ॥

持弓的正法之心罗摩与须羯里婆同行。有的猴子走在中间,有的走在两侧。

6.22.85

सलिलं प्रपतन्त्यन्ये मार्गमन्ये प्रपेदिरे।
केचिद् वैहायसगताः सुपर्णा इव पुप्लुवुः ॥ ६.२२.८५ ॥

有的落入水中,有的另辟蹊径,有的则像在空中飞翔的金翅鸟一样腾跃前行。

6.22.86

घोषेण महता घोषं सागरस्य समुच्छ्रितम्।
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ ६.२२.८६ ॥

在这巨大的喧嚣之中,汹涌大海的可怖轰鸣被淹没,而那令人畏惧的猴军正在渡过。

6.22.87

वानराणां हि सा तीर्णा वाहिनी नलसेतुना।
तीरे निविविशे राज्ञो बहुमूलफलोदके ॥ ६.२२.८७ ॥

猴军经由那罗的桥梁渡过,为国王在盛产块根、果实与清水的岸边扎营。

6.22.88

तदद्भुतं राघवकर्म दुष्करं
समीक्ष्य देवाः सह सिद्धचारणैः।
उपेत्य रामं सहसा महर्षिभि-
स्तमभ्यषिञ्चन् सुशुभैर्जलैः पृथक् ॥ ६.२२.८८ ॥

众神与悉陀、遮罗那以及大仙人们,见到罗怙之子那殊胜而艰难的功业,便忽然来到罗摩面前,各以不同的吉祥圣水为他灌顶。

6.22.89

जयस्व शत्रून् नरदेव मेदिनीं
ससागरां पालय शाश्वतीः समाः।
इतीव रामं नरदेवसत्कृतं
शुभैर्वचोभिर्विविधैरपूजयन् ॥ ६.२२.८९ ॥

“人中之主啊,愿你战胜敌人,长久守护这连同大海的大地。”就这样,众神以种种吉祥之语赞颂罗摩,而罗摩已受到诸王的尊敬。