ヴァールミーキのラーマーヤナ · サルガ 6.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.25.1
सबले सागरं तीर्णे रामे दशरथात्मजे।
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ ६.२५.१ ॥
ダシャラタの子ラーマが軍勢とともに大海を渡ったとき、栄光あるラーヴァナは二人の大臣シュカとサーラナに語った。
6.25.2
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्।
अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ ६.२५.२ ॥
渡りがたい猿の全軍が海を渡り、ラーマは前例のない橋を海の上に架けた。
6.25.3
सागरे सेतुबन्धं तं न श्रद्दध्यां कथंचन।
अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥ ६.२५.३ ॥
海の上にあの橋が架けられたとは私はどうしても信じられない。だがあの猿の軍勢は必ず数えねばならない。
6.25.4
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ।
परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः ॥ ६.२५.४ ॥
お前たち二人は気づかれぬよう猿の軍勢に入り込み、その規模と力、そして主立った跳猿たちを見定めてこい。
6.25.5
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः।
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः ॥ ६.२५.५ ॥
ラーマとスグリーヴァに重んじられる参謀は誰か、真っ先に進み出る者は誰か、勇猛な跳猿は誰か、それも見定めよ。
6.25.6
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे।
निवेशं च यथा तेषां वानराणां महात्मनाम् ॥ ६.२५.६ ॥
あの橋が水の大海にどのように架けられたか、また偉大な心の猿たちの陣営がどう配置されているかも見てこい。
6.25.7
रामस्य व्यवसायं च वीर्यं प्रहरणानि च।
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ॥ ६.२५.७ ॥
お前たち二人は、ラーマの決意と武勇、そして武器、また勇猛なラクシュマナのそれらを、ありのままに知らねばならない。
6.25.8
कश्च सेनापतिस्तेषां वानराणां महात्मनाम्।
तच्च ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ ६.२५.८ ॥
そして、あの偉大な心の猿たちの将軍が誰なのかをありのままに知ったら、すぐに戻って来るべきだ。
6.25.9
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ ६.२५.९ ॥
猿の姿をとった二人の英雄は、猿の軍勢の中へ入り込んだ。
6.25.10
ततस्तद् वानरं सैन्यमचिन्त्यं लोमहर्षणम्।
संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ ६.२५.१० ॥
そのとき、シュカとサーラナは、想像を絶し身の毛もよだつ猿の軍勢を数えることができなかった。
6.25.11
तत् स्थितं पर्वताग्रेषु निर्झरेषु गुहासु च।
समुद्रस्य च तीरेषु वनेषूपवनेषु च।
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ॥ ६.२५.११ ॥
その軍勢は山の頂、滝のほとり、洞窟、海岸、森や園林に布陣していた。渡っている者、渡り終えた者、渡ろうとする者が、あらゆる所にいた。
6.25.12
निविष्टं निविशच्चैव भीमनादं महाबलम्।
तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ ६.२५.१२ ॥
二人の夜の徘徊者は、動じることのない力の大海を見た。それは陣営を張り、なお張りつつあり、恐ろしい咆哮を上げ、いと強大であった。
6.25.13
तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः।
आचचक्षे स रामाय गृहीत्वा शुकसारणौ ॥ ६.२५.१३ ॥
大いなる光輝を持つヴィビーシャナは、変装して隠れていたその二人を見た。シュカとサーラナを捕らえ、ラーマに報告した。
6.25.14
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ।
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय ॥ ६.२५.१४ ॥
この二人はあの羅刹王の大臣シュカとサーラナです。ランカーから来た間諜です、敵の城を征服する者よ。
6.25.15
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा।
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ ६.२५.१५ ॥
ラーマを見て二人は苦悩し、命への望みを失い、怯えて合掌しこの言葉を述べた。
6.25.16
आवामिहागतौ सौम्य रावणप्रहितावुभौ।
परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन ॥ ६.२५.१६ ॥
我ら二人はここに来ました、善き方よ。ラーヴァナに遣わされ、ラグの喜びの方よ、この全軍の力を知るために。
6.25.17
तयोस्तद् वचनं श्रुत्वा रामो दशरथात्मजः।
अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः ॥ ६.२५.१७ ॥
二人の言葉を聞いて、一切衆生の利益を喜ぶダシャラタの子ラーマは、笑いながらこの言葉を述べた。
6.25.18
यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः।
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ ६.२५.१८ ॥
お前たちが我らの全軍を見たのであれば、あるいは我らが心を集中して言われた通りに任務を果たしたのであれば、望むままに帰るがよい。
6.25.19
अथ किंचिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः।
विभीषणो वा कात्स्र्न्येन पुनः संदर्शयिष्यति ॥ ६.२५.१९ ॥
もし見ていないものがあれば、二人でそれをもう一度見るべきだ。あるいはヴィビーシャナが自ら全てを改めて完全に見せるだろう。
6.25.20
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति।
न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हथः ॥ ६.२५.२० ॥
もしこれが捕縛なら、自分の命を恐れてはならない。武器を置いて捕らえられた使者は、殺されるに値しない。
6.25.21
प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिंचरावुभौ।
शत्रुपक्षस्य सततं विभीषण विकर्षिणौ ॥ ६.२५.२१ ॥
ヴィビーシャナよ、隠れて動く二人の密偵、夜に歩くこの二人を放せ。彼らは絶えず敵側を引き寄せる者である。
6.25.22
प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः।
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ ६.२५.२२ ॥
偉大なラーンカーに入ったら、二人でダナダ(クベーラ)の弟である羅刹の王に、私が述べた言葉を伝えるべきだ。
6.25.23
यद् बलं त्वं समाश्रित्य सीतां मे हृतवानसि।
तद् दर्शय यथाकामं ससैन्यश्च सबान्धवः ॥ ६.२५.२३ ॥
お前が私のシーターを奪ったときに頼みとしたその力を、望みどおり、軍勢と親族とともに示してみよ。
6.25.24
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्।
रक्षसां च बलं पश्य शरैर्विध्वंसितं मया ॥ ६.२५.२४ ॥
明朝、城壁と楼門を備えたラーンカーの都と羅刹の軍勢が、私の矢によって打ち砕かれているのを、お前は見るだろう。
6.25.25
क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण।
श्वः काल्ये वज्रवान् वज्रं दानवेष्विव वासवः ॥ ६.२५.२५ ॥
ラーヴァナよ、金剛杵を持つインドラが ダーナヴァたちに金剛杵を放つように、明朝、私は軍勢とともに、おまえに対して恐ろしい怒りを解き放とう。
6.25.26
जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम् ॥ ६.२५.२६ ॥
「勝利あれ!」と言い、法を愛するラーガヴァを返礼で迎えた。
6.25.27
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्।
विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर ॥ ६.२५.२७ ॥
ラーンカー市に着いた二人は、羅刹の主に言った。「おお、羅刹の主よ。われわれはヴィビーシャナに捕らえられ、処刑のために連れて行かれていたのです。」
6.25.28
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा।
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ ६.२५.२८ ॥
無限の威光を持つ正義の心のラーマが二人を見て解放した。そこに、人中の四頭の雄牛が一所に集まった。
6.25.29
लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः।
रामो दाशरथिः श्रीमाल्ँलक्ष्मणश्च विभीषणः ॥ ६.२५.२९ ॥
世界守護神に等しい勇士、武器に熟達し、不動の勇猛さを持つ者たち——ダシャラタの子、栄光あるラーマ、ラクシュマナ、そしてヴィビーシャナ。
6.25.30
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः।
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ॥ ६.२५.३० ॥
また、偉大な威光を持ち、勇猛さがマヘーンドラに等しいスグリーヴァ——これらの者たちはみな、城壁と城門を備えたラーンカー市を攻め落とすことができる。
6.25.31
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः।
यादृशं तद्धि रामस्य रूपं प्रहरणानि च ॥ ६.२५.३१ ॥
すべてのヴァーナラは引き抜いて運び渡る用意をせよ。ラーマの姿と武器がそうであるように。
6.25.32
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः।
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ ६.२५.३२ ॥
一人でラーンカー市を滅ぼすであろう。残りの三人は留まれ。ラーマとラクシュマナに守られ、スグリーヴァと共にあるその軍は、すべての神々と阿修羅にさえ打ち負かされ難いものとなった。
6.25.33
प्रहृष्टयोधा ध्वजिनी महात्मनां
वनौकसां सम्प्रति योद्धुमिच्छताम्।
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली ॥ ६.२५.३३ ॥
偉大なる森の住人たちの、喜び勇む戦士からなる軍は、今まさに戦いを望んでいる。敵対はもう十分だ。和平を結び、マイティリーをダシャラタの息子に返すべきである。