蚁垤《罗摩衍那》 · 篇 6.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.3.1
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवत्।
प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ ६.३.१ ॥
罗摩(迦恭持之裔)听了须羯哩婆的话,那话合乎道理、富含至义,他接受了,然后对哈努曼说道。
6.3.2
तपसा सेतुबन्धेन सागरोच्छोषणेन च।
सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥ ६.३.२ ॥
无论以苦行、修筑桥梁,还是使大海干涸,我在各方面都有能力跨越这片大海。
6.3.3
कति दुर्गाणि दुर्गाया लङ्कायास्तद् ब्रवीष्व मे।
ज्ञातुमिच्छामि तत् सर्वं दर्शनादिव वानर ॥ ६.३.३ ॥
楞伽有多少座堡垒?猴子啊,把这一切都告诉我。我想如同亲眼所见般全部了解。
6.3.4
बलस्य परिमाणं च द्वारदुर्गक्रियामपि।
गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ६.३.४ ॥
也请告诉我军队的规模、门户防御工事的构造、楞伽的防守布置,以及罗刹的住所。
6.3.5
यथासुखं यथावच्च लङ्कायामसि दृष्टवान्।
सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ६.३.५ ॥
你在楞伽所见的一切,请如实、从容地全部告诉我,因为你在各方面都很精明。
6.3.6
श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः।
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६.३.६ ॥
罗摩的话传入耳中,风之子哈努曼,善辩者中的第一人,又对罗摩说道。
6.3.7
श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः।
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ६.३.७ ॥
请听,我将依次详述防御工事的布置:楞伽城如何被守卫,如何由军队保护。
6.3.8
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा।
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥ ६.३.८ ॥
罗刹因罗波那的威势而对他忠顺;楞伽的至上繁盛与大海的可怖也在此处。
6.3.9
विभागं च बलौघस्य निर्देशं वाहनस्य च।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ ६.३.९ ॥
还有军队的划分与车辆的部署。如此说完,猴中之最便据实陈述。
6.3.10
हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला।
महती रथसम्पूर्णा रक्षोगणनिषेविता ॥ ६.३.१० ॥
楞伽欢喜而喧腾,充满狂象,宏大,车驾满盈,为罗刹众群所居。
6.3.11
दृढबद्धकपाटानि महापरिघवन्ति च।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च ॥ ६.३.११ ॥
其上有四座宽阔的城门,门扉牢牢闩住,装有大横木,极为巨大。
6.3.12
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च।
आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते ॥ ६.३.१२ ॥
那里有强大而巨大的投射器,用以发射箭矢与石块,前来的敌军正由此被阻挡。
6.3.13
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः।
शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ ६.३.१३ ॥
城门处布置着数百台可怖而锐利的百杀器,由罗刹的勇士们以黑铁铸成并设置。
6.3.14
सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः।
मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः ॥ ६.३.१४ ॥
此城有一道巨大的金墙,难以攻破,其内壁镶嵌着宝石、珊瑚、青金石与珍珠。
6.3.15
सर्वतश्च महाभीमाः शीततोया महाशुभाः।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ ६.३.१५ ॥
四周环绕着极为可怖的壕沟,沟中冷水清澈,极其美妙,深不可测,满是鳄鱼,又有鱼群游弋。
6.3.16
द्वारेषु तासां चत्वारः संक्रमाः परमायताः।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ ६.३.१६ ॥
其门口有四座极为长而宽的桥梁,配备着许多大型器械与成排的楼台。
6.3.17
त्रायन्ते संक्रमास्तत्र परसैन्यागते सति।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ ६.३.१७ ॥
敌军来到时,那里的桥梁得以守护,而借助那些器械,四面都将敌人倾泻入壕沟之中。
6.3.18
एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ ६.३.१८ ॥
然而有一座桥梁坚不可摧、强大而极为牢固,以众多金柱与平台装饰。
6.3.19
स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ ६.३.१९ ॥
罗波那天性好战,罗摩啊,他已站起身来,在检阅军队时保持警惕。
6.3.20
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा।
नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ ६.३.२० ॥
楞伽再次看似无所依托,却如诸神之城般令人生畏;其防御有四种:河流所成、山岳所成、其他天然及人工所造。
6.3.21
स्थिता पारे समुद्रस्य दूरपारस्य राघव।
नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ॥ ६.३.२१ ॥
它位于大海的远岸,罗伽瓦啊;此处没有航道,四面八方也没有明确的方向。
6.3.22
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा।
वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ ६.३.२२ ॥
那座建于山巅的城堡,如同诸神之城,充满战马与战象——楞伽极难攻破。
6.3.23
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ ६.३.२३ ॥
壕沟、百杀炮与各种器械,装点着邪恶的罗波那的楞伽城。
6.3.24
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्।
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ ६.३.२४ ॥
此处东门驻守着一万罗刹,手持三叉戟,难以攻破,皆是以刀锋作战的勇士。
6.3.25
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ ६.३.२५ ॥
此处南门驻守着十万(尼由他)罗刹,连同四军之众;那里的勇士也是无与伦比的。
6.3.26
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ ६.३.२६ ॥
此处西门驻守着一百万(普由他)罗刹,皆持盾执剑,且通晓一切兵器。
6.3.27
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ ६.३.२७ ॥
此处北门驻守着一亿(尼尔部达)罗刹:车将与骑士,皆是高贵族姓之子,备受尊崇。
6.3.28
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ ६.३.२८ ॥
他们以百计、千计驻于中央阵列,皆是难以抵挡的夜叉(夜游者),并且还有整整一千万罗刹与之同在。
6.3.29
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः।
बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ६.३.२९ ॥
那些桥梁被我摧毁,壕沟被填平,楞伽城被焚烧,城墙被推倒;伟大的罗刹军队已有一部分被消灭。
6.3.30
येन केन तु मार्गेण तराम वरुणालयम्।
हतेति नगरी लङ्का वानरैरुपधार्यताम् ॥ ६.३.३० ॥
无论走哪条路,我们都要渡过水神伐楼那的居所——大海;让猴众知道,楞伽城已被毁灭。
6.3.31
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः।
नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ६.३.३१ ॥
安伽达、德维维达、迈因达、阇婆梵、波那娑、那罗,以及统帅尼罗都在此,你还需要其余的军队做什么?
6.3.32
प्लवमाना हि गत्वा त्वां रावणस्य महापुरीम्।
सपर्वतवनां भित्त्वा सखातां च सतोरणाम्।
सप्राकारां सभवनामानयिष्यन्ति राघव ॥ ६.३.३२ ॥
罗怙之后啊,他们跳跃而去,进入罗波那的大城,连同其山林、护城河与门楼、城墙与宫殿一起摧毁,然后带到你的面前。
6.3.33
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ६.३.३३ ॥
如此,请迅速下令集结全军,并在吉时决定出发。