蚁垤《罗摩衍那》 · 篇 6.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.31.1
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ ६.३१.१ ॥
于是楞伽城中国王的密探报告说,军队不可撼动的罗怙之子已在苏维罗山扎营。
6.31.2
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्।
जातोद्वेगोऽभवत् किंचित् सचिवानिदमब्रवीत् ॥ ६.३१.२ ॥
罗波那听说密探报告大力的罗摩已经到来,略感不安,便对大臣们说了这番话。
6.31.3
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः।
अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥ ६.३१.३ ॥
让所有大臣迅速而专心地前来吧;诸罗刹啊,如今正是我们商议的时候了。
6.31.4
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्।
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥ ६.३१.४ ॥
大臣们听到他的命令,迅速赶来。于是他便与罗刹及谋臣们商议起来。
6.31.5
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम्।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥ ६.३१.५ ॥
这位难以战胜的罗刹王商议之后,决定了合宜之策;随后遣散谋臣,走进自己的宫殿。
6.31.6
ततो राक्षसमादाय विद्युज्जिह्वं महाबलम्।
मायाविनं महामायं प्राविशद् यत्र मैथिली ॥ ६.३१.६ ॥
于是他带着大力罗刹毗尤遮希瓦,这位精通幻术的大幻师,走进了弥提利(悉多)所在之处。
6.31.7
विद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः।
मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥ ६.३१.७ ॥
于是罗刹之主对精通幻术的毗陀衍耆訶说:“我们二人要以幻术迷惑生于遮那伽之女悉多。”
6.31.8
शिरो मायामयं गृह्य राघवस्य निशाचर।
मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ ६.३१.८ ॥
“夜行者啊,你取来由幻术所造的罗怙之后罗摩的头颅,以及带箭的大弓,到我面前来。”
6.31.9
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः।
दर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥ ६.३१.९ ॥
罗刹毗陀衍耆訶听后答道:“就这么办。”于是向罗波那展示了那精心布置的幻术。
6.31.10
तस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम्।
अशोकवनिकायां च सीतादर्शनलालसः ॥ ६.३१.१० ॥
国王对他十分满意,赐予他一件饰物;并因渴望见到悉多,便进入了无忧林。
6.31.11
नैर्ऋतानामधिपतिः संविवेश महाबलः।
ततो दीनामदैन्यार्हां ददर्श धनदानुजः ॥ ६.३१.११ ॥
强大的罗刹之主进入;此时财神(俱毗罗)之弟看见了她——她虽处于困苦,却不当受此屈辱。
6.31.12
अधोमुखीं शोकपरामुपविष्टां महीतले।
भर्तारं समनुध्यान्तीमशोकवनिकां गताम् ॥ ६.३१.१२ ॥
她低垂着脸,沉浸于悲伤之中,坐在地上,思念着她的丈夫,已来到无忧林中。
6.31.13
उपास्यमानां घोराभी राक्षसीभिरदूरतः।
उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ॥ ६.३१.१३ ॥
从不远处走近被可怕的罗刹女们侍奉的悉多,名为普拉哈尔莎的(罗刹)便开口称呼她。
6.31.14
इदं च वचनं धृष्टमुवाच जनकात्मजाम्।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥ ६.३१.१४ ॥
他对遮那伽之女说了这些狂妄的话:“善良的女子啊!我虽然好言安慰你,你却仗着谁而轻视我呢?”
6.31.15
खरहन्ता स ते भर्ता राघवः समरे हतः।
छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया ॥ ६.३१.१५ ॥
“杀死哈罗的罗怙王族之子,你的丈夫,已在战场上被杀。你的希望之根已彻底斩断,你的骄傲已被我粉碎。”
6.31.16
व्यसनेनात्मनः सीते मम भार्या भविष्यसि।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥ ६.३१.१६ ॥
“悉多啊!因你自身的灾难,你将成为我的妻子。愚笨的女人,放弃这个念头吧;你将拿死去的人怎么办呢?”
6.31.17
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि।
शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ ६.३१.१७ ॥
“善良的女子啊,你要做我所有妻子的主母。你这福报浅薄、目的落空、愚蠢却自以为聪明的女人!悉多啊,听听你丈夫那可怕的死亡,就像弗栗多被杀一样。”
6.31.18
समायातः समुद्रान्तं हन्तुं मां किल राघवः।
वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ ६.३१.१८ ॥
“罗怙王族之子已来到大海之滨,想要杀我,被猴王率领的庞大军队所包围。”
6.31.19
संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्।
बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ ६.३१.१९ ॥
罗摩在海岸北侧驻扎,以庞大军队逼近海滨;日落之时……
6.31.20
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्।
सुखसुप्तं समासाद्य चरितं प्रथमं चरैः ॥ ६.३१.२० ॥
随后,在路上疲惫、午夜酣睡的大军,先被间谍靠近侦察……
6.31.21
तत्प्रहस्तप्रणीतेन बलेन महता मम।
बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ ६.३१.२१ ॥
由普拉哈斯塔率领的我的大军,在夜间杀死了他们的军队,就在罗摩与罗什曼那所在之处……
6.31.22
पट्टिशान् परिघांश्चक्रानृष्टीन् दण्डान् महायुधान्।
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ॥ ६.३१.२२ ॥
剑、铁棒、圆盘、长矛、棍棒、大型兵器、箭网、三叉戟和闪亮的铁锤……
6.31.23
यष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च।
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ ६.३१.२३ ॥
木杖、投枪、长矛、圆盘和木杵——罗刹们一次又一次举起,将它们砸向猴子……
6.31.24
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना।
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ ६.३१.२४ ॥
随后,正在熟睡的罗摩之首,被凶猛而手法娴熟的普拉哈斯塔以一把大剑轻易斩下……
6.31.25
विभीषणः समुत्पत्य निगृहीतो यदृच्छया।
दिशः प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ॥ ६.३१.२५ ॥
毗毗沙那跳起,偶然被擒;罗什曼那与猴群一同被罗刹大军驱散四方。
6.31.26
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः।
निरस्तहनुकः सीते हनूमान् राक्षसैर्हतः ॥ ६.३१.२६ ॥
悉多啊!猴王须羯哩婆的颈项折断;悉多啊!哈奴曼的下颚被击碎,被罗刹杀死。
6.31.27
जाम्बवानथ जानुभ्यामुत्पतन् निहतो युधि।
पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ ६.३१.२७ ॥
金婆萬在跪地跃起时,于战斗中被杀;被众多铁棍砍断,如树木被伐倒一般倒下。
6.31.28
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ।
निःश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥ ६.३१.२८ ॥
摩因达与德维维达,这两位猴中之最,喘息哭泣,浑身沾满了血。
6.31.29
असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ।
अनुश्वसिति मेदिन्यां पनसः पनसो यथा ॥ ६.३१.२९ ॥
两位歼敌的勇士被刀从中间斩断,伸展躺卧,在地上喘息,如同倒伏的菠萝蜜树。
6.31.30
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः।
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥ ६.३१.३० ॥
达罗牟契被众多铁箭射穿,躺在洞穴中;而大光辉的俱目陀则无声呻吟,被箭射死。
6.31.31
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः।
परितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ ६.३१.३१ ॥
安伽陀被众罗刹从四面围攻,身中数箭,吐着鲜血,倒在地上。
6.31.32
हरयो मथिता नागै रथजालैस्तथापरे।
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ ६.३१.३२ ॥
猴子们被象群和战车阵所碾压,其他的也被踩踏倒在那里,犹如被风力吹散的云朵。
6.31.33
प्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः।
अनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ६.३१.३३ ॥
其余的人惊恐奔逃,被从背后击杀;被罗刹追赶,犹如被狮子驱赶的大象。
6.31.34
सागरे पतिताः केचित् केचिद् गगनमाश्रिताः।
ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ६.३१.३४ ॥
有的坠入大海,有的投奔天空;熊们爬上树木,效仿猴子的做法。
6.31.35
सागरस्य च तीरेषु शैलेषु च वनेषु च।
पिङ्गलास्ते विरूपाक्षै राक्षसैर्बहवो हताः ॥ ६.३१.३५ ॥
在海岸、山岭和森林中,许多那些赤褐色的猴子被丑眼的罗刹所杀。
6.31.36
एवं तव हतो भर्ता ससैन्यो मम सेनया।
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ६.३१.३६ ॥
这样,你的主君连同他的军队已被我的军队杀死;这是他的头颅,沾满鲜血,蒙满尘土,已被带到这里。
6.31.37
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः।
सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ६.३१.३७ ॥
此时,无敌的罗刹之王罗波那,在悉多听闻之际,对罗刹女说了这番话。
6.31.38
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं समानय।
येन तद्राघवशिरः संग्रामात् स्वयमाहृतम् ॥ ६.३१.३८ ॥
"把行事残酷的罗刹毗究叶阇诃婆带来,正是他亲自从战场上带回了罗怙后裔的那颗头颅。"
6.31.39
विद्युज्जिह्वस्तदा गृह्य शिरस्तत्सशरासनम्।
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ६.३१.३९ ॥
此时毗究叶阇诃婆手持那颗头颅与弓,低首行礼,站在罗波那面前。
6.31.40
तमब्रवीत् ततो राजा रावणो राक्षसं स्थितम्।
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ ६.३१.४० ॥
此时罗波那王对站在近旁的大舌罗刹毗究叶阇诃婆说道。
6.31.41
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः।
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ ६.३१.४१ ॥
"快把十车王之子的头颅放在悉多面前,让这可怜的女子好好看看她丈夫最后的样子。"
6.31.42
एवमुक्तं तु तद् रक्षः शिरस्तत् प्रियदर्शनम्।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ६.३१.४२ ॥
罗刹听了吩咐,便将那颗美丽的头颅放在悉多身旁,随即消失不见。
6.31.43
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्।
त्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन् ॥ ६.३१.४३ ॥
罗波那也掷下那把在三界闻名的巨大闪亮之弓,说道:“这是罗摩的。”
6.31.44
इदं तत् तव रामस्य कार्मुकं ज्यासमावृतम्।
इह प्रहस्तेनानीतं तं हत्वा निशि मानुषम् ॥ ६.३१.४४ ॥
这是你那罗摩的弓,已装上弦。普拉哈斯塔夜里杀了那个人,把它带到了这里。
6.31.45
स विद्युज्जिह्वेन सहैव तच्छिरो
धनुश्च भूमौ विनिकीर्यमाणः।
विदेहराजस्य सुतां यशस्विनीं
ततोऽब्रवीत् तां भव मे वशानुगा ॥ ६.३१.४५ ॥
他与毗迪优遮休瓦一同把那颗头颅和弓抛散在地上,然后对毗提诃王的光荣之女说:“服从于我吧。”