Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.32.1

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्।
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ ६.३२.१ ॥

シーターはその頭と、その見事な弓を見た。そしてハヌマーンが語ったスグリーヴァとの関係も思い出した。

6.32.2

नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्।
केशान् केशान्तदेशं च तं च चूडामणिं शुभम् ॥ ६.३२.२ ॥

目、顔の色、夫の顔に似たその顔;髪と生え際、そして吉兆の髻飾りの宝珠。

6.32.3

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता।
विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥ ६.३२.३ ॥

これらすべての印によって夫だと知ったシーターは深く悲しみ、泣き叫ぶクララリ鳥のように、ここでカイケーイーを非難した。

6.32.4

सकामा भव कैकेयि हतोऽयं कुलनन्दनः।
कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ६.३२.४ ॥

カイケーイーよ、望みは叶ったでしょう!家の喜びであるこの方は殺された。争いを好む性質のあなたが、家族全体を根こそぎ引き抜いたのだ。

6.32.5

आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्।
यन्मया चीरवसनं दत्त्वा प्रव्राजितो वनम् ॥ ६.३२.५ ॥

高貴なラーマがカイケーイーに何の不快なことをしたというのか。そのために彼女は私に樹皮衣を与え、森へ追放したのか。

6.32.6

एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी।
जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६.३२.६ ॥

こう言うと、震えるタパスヴィニーのヴァイデーヒー、シーターは、切り倒されたバナナの木のように地に倒れた。

6.32.7

सा मुहूर्तात् समाश्वस्य परिलभ्याथ चेतनाम्।
तच्छिरः समुपास्थाय विललापायतेक्षणा ॥ ६.३२.७ ॥

しばらくして気を取り直し、意識を取り戻した大きな目のシーターは、彼の頭を抱えて嘆き悲しんだ。

6.32.8

हा हतास्मि महाबाहो वीरव्रतमनुव्रत।
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ६.३२.८ ॥

ああ、私は滅びた!大腕の方よ、英雄の誓いを守られた方よ。あなたのこの最期の状態に私はたどり着き、寡婦にされてしまいました。

6.32.9

प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते।
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ६.३२.९ ॥

女にとっての最初の死は夫の不名誉だと言われます。善良な行いの妻である私の目の前で、善行の方よ、あなたがこうなってしまいました。

6.32.10

महद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे।
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ ६.३२.१० ॥

大きな悲しみに陥り、憂いの海に沈んだ私を救おうとしていたあなたさえも、打ち倒されてしまいました。

6.32.11

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव।
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ६.३२.११ ॥

ラーガヴァよ、私の義母カウサリヤーは、あなた、その息子によって、子牛を失った慈しみ深い雌牛のようにされてしまいました。

6.32.12

उद्दिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव।
अनृतं वचनं तेषामल्पायुरसि राघव ॥ ६.३२.१२ ॥

ラーガヴァよ、占星術師たちはあなたの寿命は長いと告げました。しかし彼らの言葉は偽りとなり、ラーガヴァよ、あなたは短命でした。

6.32.13

अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव।
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ ६.३२.१३ ॥

あるいは、賢者であるあなたの知恵さえも失われたのだ。時がこのように成熟させる。時こそ万物の源なのだから。

6.32.14

अदृष्टं मृत्युमापन्नः कस्मात् त्वं नयशास्त्रवित्।
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ ६.३२.१४ ॥

政治の学に通じ、災いへの対策を知り、それを避けることに長けたあなたが、なぜ予期せぬ死に陥ったのですか。

6.32.15

तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया।
कालरात्र्या ममाच्छिद्य हृतः कमललोचन ॥ ६.३२.१५ ॥

このように、恐ろしく極めて残酷な死の夜があなたを抱きしめ、私から奪い去ったのです、蓮の目の方よ。

6.32.16

इह शेषे महाबाहो मां विहाय तपस्विनीम्।
प्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ ॥ ६.३२.१६ ॥

ここに横たわるのですね、大いなる腕の方よ。苦行者の私を捨て、愛しい妻を大地に置き去りにするように。人中の雄牛よ。

6.32.17

अर्चितं सततं यत्नाद् गन्धमाल्यैर्मया तव।
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ ६.३२.१७ ॥

私は常に心を込めて香と花輪であなたを供養してきました。英雄よ、金で飾られたこの弓は、私にとって大切なもの、あなたのものです。

6.32.18

पित्रा दशरथेन त्वं श्वशुरेण ममानघ।
सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ ६.३२.१८ ॥

汚れなき方よ、あなたは必ず天で、父ダシャラタ、私の舅、そしてすべての祖先と一緒になられたのです。

6.32.19

दिवि नक्षत्रभूतं च महत्कर्मकृतं तथा।
पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ ६.३२.१९ ॥

天に星となり、偉大な功績を成し、清らかな王仙の系譜に連なるあなたが、ご自身をないがしろにしておられる。

6.32.20

किं मां न प्रेक्षसे राजन् किं वा न प्रतिभाषसे।
बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ ६.३२.२० ॥

おお王よ!なぜ私を見ず、なぜ私に語りかけないのですか。若いころに娶られた、あなたの連れ添う妻である私に。

6.32.21

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया।
स्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम् ॥ ६.३२.२१ ॥

おおカークツトゥタよ!手を取ったとき、あなたが与えた誓いを思い出してください。共に歩むと。悲しむ私をもお連れください。

6.32.22

कस्मान्मामपहाय त्वं गतो गतिमतां वर।
अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥ ६.३२.२२ ॥

道を持つ者の中で最も優れた方よ!なぜ私を捨てて去ったのですか。この世を離れ、かの世へ行くとき、悲しむ私をもなぜ置いていかれたのですか。

6.32.23

कल्याणै रुचिरं गात्रं परिष्वक्तं मयैव तु।
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ ६.३२.२३ ॥

私が吉祥の腕で抱きしめた、あなたの美しい身体は、今きっと肉食の獣に引きずり回されているのでしょう。

6.32.24

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः।
अग्निहोत्रेण संस्कारं केन त्वं न तु लप्स्यसे ॥ ६.३२.२४ ॥

アグニシュトーマなどの祭祀を、十分な布施とともに行ったあなたは、アグニホートラの火による葬儀を、誰によって受けられないことがあるでしょうか。

6.32.25

प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्।
परिप्रेक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ ६.३२.२५ ॥

流刑に出た三人のうち一人だけが戻ったのを見て、悲しみに焦がれるカウシャリヤーはラクシュマナを探すでしょう。

6.32.26

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते।
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ ६.३२.२६ ॥

彼女が尋ねれば、同盟軍の殲滅が彼に伝えられ、そして必ずや夜に羅刹に殺されたあなたのことも伝えられるでしょう。

6.32.27

सा त्वां सुप्तं हतं ज्ञात्वा मां च रक्षोगृहं गताम्।
हृदयेनावदीर्णेन न भविष्यति राघव ॥ ६.३२.२७ ॥

ラーガヴァよ、あなたが眠っている間に殺され、私が羅刹の館へ行ったと知れば、彼女は心が裂けて生きてはいられないでしょう。

6.32.28

मम हेतोरनार्याया अनघः पार्थिवात्मजः।
रामः सागरमुत्तीर्य वीर्यवान् गोष्पदे हतः ॥ ६.३२.२८ ॥

不義の女である私のために、罪なき王子、勇猛なラーマは、海を渡ったのに牛の蹄の跡ほどの水たまりで殺されてしまった。

6.32.29

अहं दाशरथेनोढा मोहात् स्वकुलपांसनी।
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ ६.३२.२९ ॥

ダシャラタの子に迷わされて娶られた私は、自らの家系を汚す者。高貴なるラーマの妻となった私は、彼にとって死となったのです。

6.32.30

नूनमन्यां मया जातिं वारितं दानमुत्तमम्।
याहमद्यैव शोचामि भार्या सर्वातिथेरिह ॥ ६.३२.३० ॥

きっと前世で私は、すぐれた布施を妨げたのでしょう。だから今日ここで、すべての客をもてなす人の妻として嘆いているのです。

6.32.31

साधु घातय मां क्षिप्रं रामस्योपरि रावण।
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ ६.३२.३१ ॥

よかろう、ラーヴァナよ!ラーマの上で私を早く殺せ。夫を妻と再会させ、最高の善を成せ。

6.32.32

शिरसा मे शिरश्चास्य कायं कायेन योजय।
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ६.३२.३२ ॥

私の頭を彼の頭に、私の身体を彼の身体に繋げよ、ラーヴァナよ。私は偉大な夫の道に従おう。

6.32.33

इतीव दुःखसंतप्ता विललापायतेक्षणा।
भर्तुः शिरो धनुश्चैव ददर्श जनकात्मजा ॥ ६.३२.३३ ॥

このように悲しみに苦しめられた、大きな眼のジャナカの娘シーターは嘆いた。彼女は夫の頭と弓を見た。

6.32.34

एवं लालप्यमानायां सीतायां तत्र राक्षसः।
अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ६.३२.३४ ॥

シーターがそこでこのように嘆いていると、軍の中に立っていたその羅刹は合掌して主君のもとへ近づいた。

6.32.35

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च।
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ६.३२.३५ ॥

「高貴なる御子よ、勝利されますように」と言い、礼をし、なだめてから、軍の司令官プラハスタが到着したと報告した。

6.32.36

अमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः।
तेन दर्शनकामेन अहं प्रस्थापितः प्रभो ॥ ६.३२.३६ ॥

「プラハスタは全ての大臣とともにあなたのもとに来ております。あなたに会いたいと願い、彼が私を遣わしました、主よ。」

6.32.37

नूनमस्ति महाराज राजभावात् क्षमान्वित।
किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ६.३२.३७ ॥

偉大な王よ、王としての本性によって忍耐に満ちておられます。彼らには何か急ぎの用件があります。どうか彼らにお会いください。

6.32.38

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्।
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ६.३२.३८ ॥

羅刹たちの報告を聞いて、十頭の羅刹王ラーヴァナはアショーカの園を離れ、大臣たちに会いに行った。

6.32.39

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः।
सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ६.३२.३९ ॥

大臣たちと自分の事を十分に協議し、ラーマの武勇を知って、会議場に入り、手はずを整えた。

6.32.40

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्।
जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ६.३२.४० ॥

ラーヴァナが出て行くとすぐに、あの頭とあの見事な弓は消え失せた。

6.32.41

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः।
समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ६.३२.४१ ॥

そのとき羅刹王は、恐ろしい武勇の大臣たちとともに、ラーマに関する事の決定を協議した。

6.32.42

अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः।
अब्रवीत् कालसदृशं रावणो राक्षसाधिपः ॥ ६.३२.४२ ॥

羅刹王ラーヴァナは、近くに立つ忠実な軍の指揮官たち全員に、その時にふさわしい言葉を語った。

6.32.43

शीघ्रं भेरीनिनादेन स्फुटं कोणाहतेन मे।
समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ६.३२.४३ ॥

戦太鼓の響きをもって、我が命により明瞭に打ち鳴らし、速やかに軍勢を集めよ。理由を告げる必要はない。

6.32.44

ततस्तथेति प्रतिगृह्य तद्वच-
स्तदैव दूताः सहसा महद् बलम्।
समानयंश्चैव समागतं च
न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ॥ ६.३२.४४ ॥

「そのとおりに」と命を受け、使者たちはただちに大軍を集め、集結し終えると戦を望む主君に報告した。