Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.34.1

अथ तां जातसंतापां तेन वाक्येन मोहिताम्।
सरमा ह्लादयामास महीं दग्धामिवाम्भसा ॥ ६.३४.१ ॥

そのときサラマは、その言葉に惑い悲しみに焼かれたシーターを慰めた。焼けた大地を水が冷やすように。

6.34.2

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः।
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ ६.३४.२ ॥

そこで、友の利益を願い、時を知る友サラマは、微笑を浮かべて適切な時にこの言葉を語った。

6.34.3

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे।
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ६.३४.३ ॥

黒い瞳の人よ、私はあなたの言葉を携えて行き、ラーマにあなたの無事を伝え、人目を避けて戻ることができます。

6.34.4

नहि मे क्रममाणाया निरालम्बे विहायसि।
समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ६.३४.४ ॥

支えのない空を私が進むとき、風もガルダも私の道を追うことはできない。

6.34.5

एवं ब्रुवाणां तां सीता सरमामिदमब्रवीत्।
मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥ ६.३४.५ ॥

このように語るサラマに、以前の悲しみに沈んだままのシーターは、甘くやさしい声でこう言った。

6.34.6

समर्था गगनं गन्तुमपि च त्वं रसातलम्।
अवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६.३४.६ ॥

あなたは空を行くことも、冥界に赴くこともできる。さあ、私のためにあなたが果たすべき務めを理解しなさい。

6.34.7

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव।
ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ६.३४.७ ॥

もし私の喜ぶことをしようという気持ちが確かなら、行ってラーヴァナが何をしているのか知りたいのです。

6.34.8

स हि मायाबलः क्रूरो रावणः शत्रुरावणः।
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ६.३४.८ ॥

幻術の力をもつあの残忍なラーヴァナ、敵を泣かせる邪悪な心の者は、ちょうど酒を飲んだ人のように私を惑わせるのです。

6.34.9

तर्जापयति मां नित्यं भर्त्सापयति चासकृत्।
राक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः ॥ ६.३४.९ ॥

彼は絶えず私を脅し、繰り返し罵ります。私を見張るのは恐ろしい羅刹女たちです。

6.34.10

उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम।
तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ ६.३४.१० ॥

私は動揺し不安で、心も安らかではありません。彼への恐れから、私は取り乱してアショーカの林へ行ったのです。

6.34.11

यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्।
निवेदयेथाः सर्वं तद् वरो मे स्यादनुग्रहः ॥ ६.३४.११ ॥

もし彼の言葉や確かなことがあれば、すべてを私に伝えてください。それが私にとって恵みとなるでしょう。

6.34.12

साप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी।
उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ ६.३४.१२ ॥

そのとき、穏やかに話すサラマーもこう語るシーターに言った。涙で詰まったその顔に触れながら。

6.34.13

एष ते यद्यभिप्रायस्तस्माद् गच्छामि जानकि।
गृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि ॥ ६.३४.१३ ॥

ジャーナキーよ、それがあなたの思いならば、私は行きます。マイティリーよ、敵の意図をつかんで、私は戻ってきましょう。

6.34.14

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः।
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ ६.३४.१४ ॥

そう言って彼女はその羅刹のもとへ行き、大臣たちとともにいたラーヴァナが語ったことを聞いた。

6.34.15

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः।
पुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम् ॥ ६.३४.१५ ॥

その邪悪な者の決意を聞いて、その決断を知るサラマーは速やかに美しいアショーカの園へ再び戻った。

6.34.16

सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम्।
प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ ६.३४.१६ ॥

そこに入ると、彼女はジャナカの娘を見た。ただ夫だけを待っている彼女は、落ちた蓮を持つシュリーのようであった。

6.34.17

तां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम्।
परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ ६.३४.१७ ॥

再び来た甘い言葉のサラマーを、シーターは深い愛情で抱きしめ、自ら席を勧めた。

6.34.18

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः।
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ ६.३४.१८ ॥

ここに楽に座って、あの残酷で邪悪な心のラーヴァナの決意を、ありのまま私に全て話してください。

6.34.19

एवमुक्ता तु सरमा सीतया वेपमानया।
कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ ६.३४.१९ ॥

シーターがこう言うと、震えながらサラマーはラーヴァナと大臣たちの言ったことをすべて語った。

6.34.20

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः।
अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः ॥ ६.३४.२० ॥

ヴァイデーヒーよ、お前の母と老大臣は深い情愛から、お前を解放するよう羅刹王に熱心に説いたのだ。

6.34.21

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली।
निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ ६.३४.२१ ॥

マイティリーよ、お前は人の王に敬意をもって返されるべきだ。ジャナスターナでの驚くべき出来事が、その証として十分である。

6.34.22

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः।
वधं च रक्षसां युद्धे कः कुर्यान्मानुषो युधि ॥ ६.३४.२२ ॥

海を跳び越え、ハヌマーンに会い、戦いで羅刹を討つことを、どの人間ができようか。

6.34.23

एवं स मन्त्रवृद्धैश्च मात्रा च बहुबोधितः।
न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ ६.३४.२३ ॥

年長の顧問たちと母にこれほど諫められても、財を求める者が財を捨てられないように、彼はお前を解放する勇気がないのだ。

6.34.24

नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि।
सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ ६.३४.२४ ॥

マイティリーよ、あの不死の羅刹は戦いでお前を解放する勇気がない。これが残酷な彼と大臣たちの固い決意なのだ。

6.34.25

तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता।
भयान्न शक्तस्त्वां मोक्तुमनिरस्तः स संयुगे ॥ ६.३४.२५ ॥

ゆえにこの決意は非常に堅固で、死への渇望から生じたものである。戦いで負けなくとも、恐れのゆえに彼はおまえを解放することができない。

6.34.26

राक्षसानां च सर्वेषामात्मनश्च वधेन हि।
निहत्य रावणं संख्ये सर्वथा निशितैः शरैः।
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ ६.३४.२६ ॥

羅刹たちすべてと自らの一族を滅ぼし、戦いで鋭い矢によってラーヴァナを完全に討ち果たしてから、黒い目の女よ、ラーマはおまえをアヨーディヤーへ連れ戻すだろう。

6.34.27

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः।
श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ॥ ६.३४.२७ ॥

その時、すべての軍から太鼓と法螺貝に満ちた音が聞こえ、大地の表面を揺るがした。

6.34.28

श्रुत्वा तु तं वानरसैन्यनादं
लङ्कागता राक्षसराजभृत्याः।
हतौजसो दैन्यपरीतचेष्टाः
श्रेयो न पश्यन्ति नृपस्य दोषात् ॥ ६.३४.२८ ॥

猿の軍勢のその咆哮を聞き、ラーヴァナ王に仕えてランカーにいた者たちは気力を失い、絶望に満ちた振る舞いとなって、王の過ちのゆえに何の幸せも見いだせなかった。